Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

गकाररूपो गंबीजो गणेशो गणवंदितः । गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥ गगनादिकसृद्गंगासुतोगंगासुतार्चितः । गंगाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥ गदाधरनुतो गद्यपद्यात्मककवित्वदः । गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥ गंजानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः । गंडदानांचितोगंता गंडोपल समाकृतिः ॥ 4 ॥ गगन व्यापको गम्यो गमानादि विवर्जितः । गंडदोषहरो गंड भ्रमद्भ्रमर कुंडलः ॥ 5 ॥ गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः । गंधप्रियो गंधवाहो गंधसिंधुरबृंदगः ॥ 6 ॥ गंधादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः । गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ॥ 7 ॥ गविष्ठोगर्जितारावो गभीरहृदयो गदी । गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ 8 ॥ गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः । गरुत्मत्तुल्यजवनो गरुडध्वजवंदितः ॥ 9 ॥ गयेडितो गयाश्राद्धफलदश्च गयाकृतिः । गदाधरावतारीच गंधर्वनगरार्चितः ॥ 10 ॥ गंधर्वगानसंतुष्टो गरुडाग्रजवंदितः । गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ॥ 11 ॥ गर्ताभनाभिर्गव्यूतिः दीर्घतुंडो गभस्तिमान् । गर्हिताचार दूरश्च गरुडोपलभूषितः ॥ 12 ॥ गजारि विक्रमो गंधमूषवाजी गतश्रमः । गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ॥ 13 ॥ गवयच्छिद्गंडकभिद्गह्वरापथवारणः । गजदंतायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ 14 ॥ गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः । गणिकानर्तनप्रीतोगच्छन् गंधफली प्रियः ॥ 15 ॥ गंधकादि रसाधीशो गणकानंददायकः । गरभादिजनुर्हर्ता गंडकीगाहनोत्सुकः ॥ 16 ॥ गंडूषीकृतवाराशिः गरिमालघिमादिदः । गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ॥ 17 ॥ गंधमादनशैलाभो गंडभेरुंडविक्रमः । गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ॥ 18 ॥ गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः । गर्हणीय गुणाभावो गंगादिक शुचिप्रदः ॥ 19 ॥ गणनातीत विद्याश्री बलायुष्यादिदायकः । एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ 20 ॥ पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् । पूजांते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ 21 ॥ यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति । दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ 22 ॥ एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि । तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ 23 ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits