Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्यामला स्तोत्रम्

जय मातर्विशालाक्षि जय सङ्गीतमातृके ।
जय मातङ्गि चण्डालि गृहीतमधुपात्रके ॥ 1 ॥
नमस्तेऽस्तु महादेवि नमो भगवतीश्वरि ।
नमस्तेऽस्तु जगन्मातर्जय शङ्करवल्लभे ॥ 2 ॥
जय त्वं श्यामले देवि शुकश्यामे नमोऽस्तु ते ।
महाश्यामे महारामे जय सर्वमनोहरे ॥ 3 ॥
जय नीलोत्पलप्रख्ये जय सर्ववशङ्करि ।
जय त्वजात्वसंस्तुत्ये लघुश्यामे नमोऽस्तु ते ॥ 4 ॥
नमो नमस्ते रक्ताक्षि जय त्वं मदशालिनि ।
जय मातर्महालक्ष्मि वागीश्वरि नमोऽस्तु ते ॥ 5 ॥
नम इन्द्रादिसंस्तुत्ये नमो ब्रह्मादिपूजिते ।
नमो मरकतप्रख्ये शङ्खकुण्डलशोभिते ॥ 6 ॥
जय त्वं जगदीशानि लोकमोहिनि ते नमः ।
नमस्तेऽस्तु महाकृष्णे नमो विश्वेशवल्लभे ॥ 7 ॥
महेश्वरि नमस्तेऽस्तु नीलाम्बरसमन्विते ।
नमः कल्याणि कृष्णाङ्गि नमस्ते परमेश्वरि ॥ 8 ॥
महादेवप्रियकरि नमः सर्ववशङ्करि ।
महासौभाग्यदे नॄणां कदम्बवनवासिनि ॥ 9 ॥
जय सङ्गीतरसिके वीणाहस्ते नमोऽस्तु ते ।
जनमोहिनि वन्दे त्वां ब्रह्मविष्णुशिवात्मिके ॥ 10 ॥
वाग्वादिनि नमस्तुभ्यं सर्वविद्याप्रदे नमः ।
नमस्ते कुलदेवेशि नमो नारीवशङ्करि ॥ 11 ॥
अणिमादिगुणाधारे जय नीलाद्रिसन्निभे ।
शङ्खपद्मादिसम्युक्ते सिद्धिदे त्वां भजाम्यहम् ॥ 12 ॥
जय त्वं वरभूषाङ्गि वराङ्गीं त्वां भजाम्यहम् ।
देवीं वन्दे योगिवन्द्ये जय लोकवशङ्करि ॥ 13 ॥
सर्वालङ्कारसम्युक्ते नमस्तुभ्यं निधीश्वरि ।
सर्गपालनसंहारहेतुभूते सनातनि ॥ 14 ॥
जय मातङ्गतनये जय नीलोत्पलप्रभे ।
भजे शक्रादिवन्द्ये त्वां जय त्वं भुवनेश्वरि ॥ 15 ॥
जय त्वं सर्वभक्तानां सकलाभीष्टदायिनि ।
जय त्वं सर्वभद्राङ्गी भक्ताऽशुभविनाशिनि ॥ 16 ॥
महाविद्ये नमस्तुभ्यं सिद्धलक्ष्मि नमोऽस्तु ते ।
ब्रह्मविष्णुशिवस्तुत्ये भक्तानां सर्वकामदे ॥ 17 ॥
मातङ्गीश्वरवन्द्ये त्वां प्रसीद मम सर्वदा ।
इत्येतच्छ्यामलास्तोत्रं सर्वकामसमृद्धिदम् ॥ 18 ॥
शुद्धात्मा प्रजपेद्यस्तु नित्यमेकाग्रमानसः ।
स लभेत्सकलान्कामान् वशीकुर्याज्जगत्त्रयम् ॥ 19 ॥
शीघ्रं दासा भवन्त्यस्य देवा योगीश्वरादयः ।
रम्भोर्वश्याद्यप्सरसामव्ययो मदनो भवेत् ॥ 20 ॥
नृपाश्च मर्त्याः सर्वेऽस्य सदा दासा भवन्ति हि ।
लभेदष्टगुणैश्वर्यं दारिद्र्येण विमुच्यते ॥ 21 ॥
शङ्खादि निधयो द्वार्स्थाः सान्निध्यं पर्युपासते ।
व्याचष्टे सर्वशास्त्राणि सर्वविद्यानिधिर्भवेत् ॥ 22 ॥
विमुक्तः सकलापद्भिः लभेत्सम्पत्तिमुत्तमाम् ।
महापापोपपापौघैः सशीघ्रं मुच्यते नरः ॥ 23 ॥
जातिस्मरत्वमाप्नोति ब्रह्मज्ञानमनुत्तमम् ।
सदाशिवत्वमाप्नोति सोन्ते नात्र विचारणा ॥ 24 ॥
इति श्री श्यामला स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits