Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम्

वन्देऽहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं शब्दब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् षड्बीजां सशिवां समञ्चितपदामाधारचक्रेस्थितां चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 1 बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयं पदाम् ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 2 डं ढं णं थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलाम् पं फं मन्त्रफलप्रदां प्रतिपदां नाभौ सचक्रेस्थितां चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 3 कं खं गं मयीं गजास्यजननीं गानप्रियामागमीं चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमाम् ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 4 अं आं इं इमयीं इहैव सुखदामीकार ऊपमां ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ओं औं अन्नमये अः स्तवनुतामानन्दमानन्दिनीं चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 5 हं क्षं ब्रह्ममयीं द्विपत्रकमलां भ्रूमध्यपीठेस्थितां इडापिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीम् आरोहप्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 6 ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैः सदा ध्यायिनीं ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्रांशके खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 7 चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं नादं बिन्दुकलामयींश्चरहिते निःशब्द निर्व्यापके निर्व्यक्तां निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् 8 बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत् वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे- -द्धर्मार्थाखिलकामविक्षितकृपाः सिध्यन्ति मोक्षं तथा 9 इति श्री श्यामला पञ्चाशत्स्वर वर्ण मालिका स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits