वन्दे सिन्दूरवर्णाभं वामोरुन्यस्तवल्लभम् ।
इक्षुवारिधिमध्यस्थमिभराजमुखं महः ॥ 1 ॥
गम्भीरलहरीजालगण्डूषितदिगन्तरः ।
अव्यान्माममृताम्भोधिरनर्घमणिसम्युतः ॥ 2 ॥
मध्ये तस्य मनोहारि मधुपारवमेदुरम् ।
प्रसूनविगलन्माध्वीप्रवाहपरिपूरितम् ॥ 3 ॥
किन्नरीगानमेदस्वि क्रीडाकन्दरदन्तुरम् ।
काञ्चनद्रुमधूलीभिः कल्पितावालवद्द्रुमम् ॥ 4 ॥
मुग्धकोकिलनिक्वाणमुखरीकृतदिङ्मुखम् ।
मन्दारतरुसन्तानमञ्जरीपुञ्जपिञ्जरम् ॥ 5 ॥
नासानाडिन्धमस्मेरनमेरुसुमसौरभम् ।
आवृन्तहसिताम्भोजदीव्यद्विभ्रमदीर्घिकम् ॥ 6 ॥
मन्दरक्तशुकीदष्टमातुलुङ्गफलान्वितम् ।
सविधस्यन्दमानाभ्रसरित्कल्लोलवेल्लितम् ॥ 7 ॥
प्रसूनपांसुसौरभ्यपश्यतोहरमारुतम् ।
वकुलप्रसवाकीर्णं वन्दे नन्दनकाननम् ॥ 8 ॥
तन्मध्ये नीपकान्तारं तरणिस्तम्भकारणम् ।
मधुपालिविमर्दालिकलक्वाणकरम्बितम् ॥ 9 ॥
कोमलश्वशनाधूतकोरकोद्गतधूलिभिः ।
सिन्दूरितनभोमार्गं चिन्तितं सिद्धवन्दिभिः ॥ 10 ॥
मध्ये तस्य मरुन्मार्गलम्बिमाणिक्यतोरणम् ।
शाणोल्लिखितवैदूर्यक्लुप्तसालसमाकुलम् ॥ 11 ॥
माणिक्यस्तम्भपटलीमयूखव्याप्तदिक्तटम् ।
पञ्चविंशतिसालाढ्यां नमामि नगरोत्तमम् ॥ 12 ॥
तत्र चिन्तामणिगृहं तडित्कोटिसमुज्ज्वलम् ।
नीलोत्पलसमाकीर्णनिर्यूहशतसङ्कुलम् ॥ 13 ॥
सोमकान्तमणिक्लुप्तसोपानोद्भासिवेदिकम् ।
चन्द्रशालाचरत्केतुसमालीढनभोन्तरम् ॥ 14 ॥
गारुत्मतमणीक्लुप्तमण्डपव्यूहमण्डितम् ।
नित्यसेवापरामर्त्यनिबिडद्वारशोभितम् ॥ 15 ॥
अधिष्ठितं द्वारपालैरसितोमरपाणिभिः ।
नमामि नाकनारीणां सान्द्रसङ्गीतमेदुरम् ॥ 16 ॥
तन्मध्ये तरुणार्काभं तप्तकाञ्चननिर्मितम् ।
शक्रादिमद्द्वारपालैः सन्ततं परिवेष्टितम् ॥ 17 ॥
चतुष्षष्टिमहाविद्याकलाभिरभिसंवृतम् ।
रक्षितं योगिनीबृन्दै रत्नसिंहासनं भजे ॥ 18 ॥
मध्ये तस्य मरुत्सेव्यं चतुर्द्वारसमुज्ज्वलम् ।
चतुरस्रत्रिरेखाढ्यां चारुत्रिवलयान्वितम् ॥ 19 ॥
कलादलसमायुक्तं कनदष्टदलान्वितम् ।
चतुर्दशारसहितं दशारद्वितयान्वितम् ॥ 20 ॥
अष्टकोणयुतं दिव्यमग्निकोणविराजितम् ।
योगिभिः पूजितं योगियोगिनीगणसेवितम् ॥ 21 ॥
सर्वदुःखप्रशमनं सर्वव्याधिविनाशनम् ।
विषज्वरहरं पुण्यं विविधापद्विदारणम् ॥ 22 ॥
सर्वदारिद्र्यशमनं सर्वभूपालमोहनम् ।
आशाभिपूरकं दिव्यमर्चकानामहर्निशम् ॥ 23 ॥
अष्टादशसुमर्माढ्यं चतुर्विंशतिसन्धिनम् ।
श्रीमद्बिन्दुगृहोपेतं श्रीचक्रं प्रणमाम्यहम् ॥ 24 ॥
तत्रैव बैन्दवस्थाने तरुणादित्यसन्निभम् ।
पाशाङ्कुशधनुर्बाणपरिष्कृतकराम्बुजम् ॥ 25 ॥
पूर्णेन्दुबिम्बवदनं फुल्लपङ्कजलोचनम् ।
कुसुमायुधशृङ्गारकोदण्डकुटिलभ्रुवम् ॥ 26 ॥
चारुचन्द्रकलोपेतं चन्दनागुरुरूषितम् ।
मन्दस्मितमधूकालिकिञ्जल्कितमुखाम्बुजम् ॥ 27 ॥
पाटीरतिलकोद्भासिफालस्थलमनोहरम् ।
अनेककोटिकन्दर्पलावण्यमरुणाधरम् ॥ 28 ॥
तपनीयांशुकधरं तारुण्यश्रीनिषेवितम् ।
कामेश्वरमहं वन्दे कामितार्थप्रदं नृणाम् ॥ 29 ॥
तस्याङ्कमध्यमासीनां तप्तहाटकसन्निभाम् ।
माणिक्यमुकुटच्छायामण्डलारुणदिङ्मुखाम् ॥ 30 ॥
कलवेणीकनत्फुल्लकह्लारकुसुमोज्ज्वलाम् ।
उडुराजकृतोत्तंसामुत्पलश्यामलालकाम् ॥ 31 ॥
चतुर्थीचन्द्रसच्छात्रफालरेखापरिष्कृताम् ।
कस्तूरीतिलकारूढकमनीयललन्तिकाम् ॥ 32 ॥
भ्रूलताश्रीपराभूतपुष्पायुधशरासनाम् ।
नालीकदलदायादनयनत्रयशोभिताम् ॥ 33 ॥
करुणारससम्पूर्णकटाक्षहसितोज्ज्वलाम् ।
भव्यमुक्तामणिचारुनासामौक्तिकवेष्टिताम् ॥ 34 ॥
कपोलयुगलीनृत्यकर्णताटङ्कशोभिताम् ।
माणिक्यवालीयुगलीमयूखारुणदिङ्मुखाम् ॥ 35 ॥
परिपक्वसुबिम्बाभापाटलाधरपल्लवाम् ।
मञ्जुलाधरपर्वस्थमन्दस्मितमनोहराम् ॥ 36 ॥
द्विखण्डद्विजराजाभगण्डद्वितयमण्डिताम् ।
दरफुल्ललसद्गण्डधवलापूरिताननाम् ॥ 37 ॥
पचेलिमेन्दुसुषमापाटच्चरमुखप्रभाम् ।
कन्धराकान्तिहसितकम्बुबिम्बोकडम्बराम् ॥ 38 ॥
कस्तूरीकर्दमाश्यामकन्धरामूलकन्दराम् ।
वामांसशिखरोपान्तव्यालम्बिघनवेणिकाम् ॥ 39 ॥
मृणालकाण्डदायादमृदुबाहुचतुष्टयाम् ।
मणिकेयूरयुगलीमयूखारुणविग्रहाम् ॥ 40 ॥
करमूललसद्रत्नकङ्कणक्वाणपेशलाम् ।
करकान्तिसमाधूतकल्पानोकहपल्लवाम् ॥ 41 ॥
पद्मरागोर्मिकाश्रेणिभासुराङ्गुलिपालिकाम् ।
पुण्ड्रकोदण्डपुष्पास्त्रपाशाङ्कुशलसत्कराम् ॥ 42 ॥
तप्तकाञ्चनकुम्भाभस्तनमण्डलमण्डिताम् ।
घनस्तनतटीक्लुप्तकाश्मीरक्षोदपाटलाम् ॥ 43 ॥
कूलङ्कषकुचस्फारतारहारविराजिताम् ।
चारुकौसुम्भकूर्पासच्छन्नवक्षोजमण्डलाम् ॥ 44 ॥
नवनीलघनश्यामरोमराजिविराजिताम् ।
लावण्यसागरावर्तनिभनाभिविभूषिताम् ॥ 45 ॥
डिम्भमुष्टितलग्राह्यमध्ययष्टिमनोहराम् ।
नितम्बमण्डलाभोगनिक्वणन्मणिमेखलाम् ॥ 46 ॥
सन्ध्यारुणक्षौमपटीसञ्छन्नजघनस्थलाम् ।
घनोरुकान्तिहसितकदलीकाण्डविभ्रमाम् ॥ 47 ॥
जानुसम्पुटकद्वन्द्वजितमाणिक्यदर्पणाम् ।
जङ्घायुगलसौन्दर्यविजितानङ्गकाहलाम् ॥ 48 ॥
प्रपदच्छायसन्तानजितप्राचीनकच्छपाम् ।
नीरजासनकोटीरनिघृष्टचरणाम्बुजाम् ॥ 49 ॥
पादशोभापराभूतपाकारितरुपल्लवाम् ।
चरणाम्भोजशिञ्जानमणिमञ्जीरमञ्जुलाम् ॥ 50 ॥
विबुधेन्द्रवधूत्सङ्गविन्यस्तपदपल्लवाम् ।
पार्श्वस्थभारतीलक्ष्मीपाणिचामरवीजिताम् ॥ 51 ॥
पुरतो नाकनारीणां पश्यन्तीं नृत्तमद्भुतम् ।
भ्रूलताञ्चलसम्भूतपुष्पायुधपरम्पराम् ॥ 52 ॥
प्रत्यग्रयौवनोन्मत्तपरिफुल्लविलोचनाम् ।
ताम्रोष्ठीं तरलापाङ्गीं सुनासां सुन्दरस्मिताम् ॥ 53 ॥
चतुरर्थध्रुवोदारां चाम्पेयोद्गन्धिकुन्तलाम् ।
मधुस्नपितमृद्वीकमधुरालापपेशलाम् ॥ 54 ॥
शिवां षोडशवार्षीकां शिवाङ्कतलवासिनीम् ।
चिन्मयीं हृदयाम्भोजे चिन्तयेज्जापकोत्तमः ॥ 55 ॥
इति त्रिपुरसुन्दर्या हृदयं सर्वकामदम् ।
सर्वदारिद्र्यशमनं सर्वसम्पत्प्रदं नृणाम् ॥ 56 ॥
तापज्वरार्तिशमनं तरुणीजनमोहनम् ।
महाविषहरं पुण्यं माङ्गल्यकरमद्भुतम् ॥ 57 ॥
अपमृत्युहरं दिव्यमायुष्यश्रीकरं परम् ।
अपवर्गैकनिलयमवनीपालवश्यदम् ॥ 58 ॥
पठति ध्यानरत्नं यः प्रातः सायमतन्द्रितः ।
न विषादैः स च पुमान् प्राप्नोति भुवनत्रयम् ॥ 59 ॥
इति श्रीमहात्रिपुरसुन्दरीहृदयं सम्पूर्णम् ।