हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कमला सहस्रनाम स्तोत्रम्
तामाह्वयामि
सुभगां
लक्ष्मीं
त्रैलोक्यपूजिताम्
।
एह्येहि
देवि
पद्माक्षि
पद्माकरकृतालये
॥
1
॥
आगच्छागच्छ
वरदे
पश्य
मां
स्वेन
चक्षुषा
।
आयाह्यायाहि
धर्मार्थकाममोक्षमये
शुभे
॥
2
॥
एवं
विधैः
स्तुतिपदैः
सत्यैः
सत्यार्थसंस्तुता
।
कनीयसी
महाभागा
चन्द्रेण
परमात्मना
॥
3
॥
निशाकरश्च
सा
देवी
भ्रातरौ
द्वौ
पयोनिधेः
।
उत्पन्नमात्रौ
तावास्तां
शिवकेशवसंश्रितौ
॥
4
॥
सनत्कुमारस्तमृषिं
समाभाष्य
पुरातनम्
।
प्रोक्तवानितिहासं
तु
लक्ष्म्याः
स्तोत्रमनुत्तमम्
॥
5
॥
अथेदृशान्महाघोराद्दारिद्र्यान्नरकात्कथम्
।
मुक्तिर्भवति
लोकेऽस्मिन्
दारिद्र्यं
याति
भस्मताम्
॥
6
॥
सनत्कुमार
उवाच
।
पूर्वं
कृतयुगे
ब्रह्मा
भगवान्
सर्वलोककृत्
।
सृष्टिं
नानाविधां
कृत्वा
पश्चाच्चिन्तामुपेयिवान्
॥
7
॥
किमाहाराः
प्रजास्त्वेताः
सम्भविष्यन्ति
भूतले
।
तथैव
चासां
दारिद्र्यात्कथमुत्तरणं
भवेत्
॥
8
॥
दारिद्र्यान्मरणं
श्रेयस्त्विति
सञ्चिन्त्य
चेतसि
।
क्षीरोदस्योत्तरे
कूले
जगाम
कमलोद्भवः
॥
9
॥
तत्र
तीव्रं
तपस्तप्त्वा
कदाचित्परमेश्वरम्
।
ददर्श
पुण्डरीकाक्षं
वासुदेवं
जगद्गुरुम्
॥
10
॥
सर्वज्ञं
सर्वशक्तीनां
सर्वावासं
सनातनम्
।
सर्वेश्वरं
वासुदेवं
विष्णुं
लक्ष्मीपतिं
प्रभुम्
॥
11
॥
सोमकोटिप्रतीकाशं
क्षीरोदविमले
जले
।
अनन्तभोगशयनं
विश्रान्तं
श्रीनिकेतनम्
॥
12
॥
कोटिसूर्यप्रतीकाशं
महायोगेश्वरेश्वरम्
।
योगनिद्रारतं
श्रीशं
सर्वावासं
सुरेश्वरम्
॥
13
॥
जगदुत्पत्तिसंहारस्थितिकारणकारणम्
।
लक्ष्म्यादिशक्तिकरणं
जातमण्डलमण्डितम्
॥
14
॥
आयुधैर्देहवद्भिश्च
चक्राद्यैः
परिवारितम्
।
दुर्निरीक्ष्यं
सुरैः
सिद्धैर्महायोनिशतैरपि
॥
15
॥
आधारं
सर्वशक्तीनां
परं
तेजः
सुदुस्सहम्
।
प्रबुद्धं
देवमीशानं
दृष्ट्वा
कमलसम्भवः
॥
16
॥
शिरस्यञ्जलिमाधाय
स्तोत्रं
पूर्वमुवाच
ह
।
मनोवाञ्छितसिद्धिं
त्वं
पूरयस्व
महेश्वर
॥
17
॥
जितं
ते
पुण्डरीक्ष
नमस्ते
विश्वभावन
।
नमस्तेऽस्तु
हृषीकेश
महापुरुषपूर्वज
॥
18
॥
सर्वेश्वर
जयानन्द
सर्वावास
परात्पर
।
प्रसीद
मम
भक्तस्य
छिन्धि
सन्देहजं
तमः
॥
19
॥
एवं
स्तुतः
स
भगवान्
ब्रह्मणाऽव्यक्तजन्मना
।
प्रसादाभिमुखः
प्राह
हरिर्विश्रान्तलोचनः
॥
20
॥
श्रीभगवानुवाच
।
हिरण्यगर्भ
तुष्टोऽस्मि
ब्रूहि
यत्तेऽभिवाञ्छितम्
।
तद्वक्ष्यामि
न
सन्देहो
भक्तोऽसि
मम
सुव्रत
॥
21
॥
केशवाद्वचनं
श्रुत्वा
करुणाविष्टचेतनः
।
प्रत्युवाच
महाबुद्धिर्भगवन्तं
जनार्दनम्
॥
22
॥
चतुर्विधं
भवस्यास्य
भूतसर्गस्य
केशव
।
परित्राणाय
मे
ब्रूहि
रहस्यं
परमाद्भुतम्
॥
23
॥
दारिद्र्यशमनं
धन्यं
मनोज्ञं
पावनं
परम्
।
सर्वेश्वर
महाबुद्धे
स्वरूपं
भैरवं
महत्
॥
24
॥
श्रियः
सर्वातिशायिन्यास्तथा
ज्ञानं
च
शाश्वतम्
।
नामानि
चैव
मुख्यानि
यानि
गौणानि
चाच्युत
॥
25
॥
त्वद्वक्त्रकमलोत्थानि
श्रोतुमिच्छामि
तत्त्वतः
।
इति
तस्य
वचः
श्रुत्वा
प्रतिवाक्यमुवाच
सः
॥
26
॥
श्रीभगवानुवाच
।
महाविभूतिसम्युक्ता
षाड्गुण्यवपुषः
प्रभो
।
भगवद्वासुदेवस्य
नित्यं
चैषाऽनपायिनी
॥
27
॥
एकैव
वर्ततेऽभिन्ना
ज्योत्स्नेव
हिमदीधितेः
।
सर्वशक्त्यात्मिका
चैव
विश्वं
व्याप्य
व्यवस्थिता
॥
28
॥
सर्वैश्वर्यगुणोपेता
नित्यशुद्धस्वरूपिणी
।
प्राणशक्तिः
परा
ह्येषा
सर्वेषां
प्राणिनां
भुवि
॥
29
॥
शक्तीनां
चैव
सर्वासां
योनिभूता
परा
कला
।
अहं
तस्याः
परं
नाम्नां
सहस्रमिदमुत्तमम्
॥
30
॥
शृणुष्वावहितो
भूत्वा
परमैश्वर्यभूतिदम्
।
देव्याख्यास्मृतिमात्रेण
दारिद्र्यं
याति
भस्मताम्
॥
31
॥
अथ
स्तोत्रम्
॥
ओं
श्रीः
पद्मा
प्रकृतिः
सत्त्वा
शान्ता
चिच्छक्तिरव्यया
।
केवला
निष्कला
शुद्धा
व्यापिनी
व्योमविग्रहा
॥
32
॥
व्योमपद्मकृताधारा
परा
व्योमा
मतोद्भवा
।
निर्व्योमा
व्योममध्यस्था
पञ्चव्योमपदाश्रिता
॥
33
॥
अच्युता
व्योमनिलया
परमानन्दरूपिणी
।
नित्यशुद्धा
नित्यतृप्ता
निर्विकारा
निरीक्षणा
॥
34
॥
ज्ञानशक्तिः
कर्तृशक्तिर्भोक्तृशक्तिः
शिखावहा
।
स्नेहाभासा
निरानन्दा
विभूतिर्विमला
चला
॥
35
॥
अनन्ता
वैष्णवी
व्यक्ता
विश्वानन्दा
विकाशिनी
।
शक्तिर्विभिन्नसर्वार्तिः
समुद्रपरितोषिणी
॥
36
॥
मूर्तिः
सनातनी
हार्दी
निस्तरङ्गा
निरामया
।
ज्ञानज्ञेया
ज्ञानगम्या
ज्ञानज्ञेयविकासिनी
॥
37
॥
स्वच्छन्दशक्तिर्गहना
निष्कम्पार्चिः
सुनिर्मला
।
स्वरूपा
सर्वगाऽपारा
बृंहिणी
सुगुणोर्जिता
॥
38
॥
अकलङ्का
निराधारा
निस्सङ्कल्पा
निराश्रया
।
असङ्कीर्णा
सुशान्ता
च
शाश्वती
भासुरी
स्थिरा
॥
39
॥
अनौपम्या
निर्विकल्पा
निर्यन्त्रा
यन्त्रवाहिनी
।
अभेद्या
भेदिनी
भिन्ना
भारती
वैखरी
खगा
॥
40
॥
अग्राह्या
ग्राहिका
गूढा
गम्भीरा
विश्वगोपिनी
।
अनिर्देश्याऽप्रतिहता
निर्बीजा
पावनी
परा
॥
41
॥
अप्रतर्क्याऽपरिमिता
भवभ्रान्तिविनाशिनी
।
एका
द्विरूपा
त्रिविधा
असङ्ख्याता
सुरेश्वरी
॥
42
॥
सुप्रतिष्ठा
महाधात्री
स्थितिर्वृद्धिर्ध्रुवा
गतिः
।
ईश्वरी
महिमा
ऋद्धिः
प्रमोदा
उज्ज्वलोद्यमा
॥
43
॥
अक्षया
वर्धमाना
च
सुप्रकाशा
विहङ्गमा
।
नीरजा
जननी
नित्या
जया
रोचिष्मती
शुभा
॥
44
॥
तपोनुदा
च
ज्वाला
च
सुदीप्तिश्चांशुमालिनी
।
अप्रमेया
त्रिधा
सूक्ष्मा
परा
निर्वाणदायिनी
॥
45
॥
अवदाता
सुशुद्धा
च
अमोघाख्या
परम्परा
।
सन्धानकी
शुद्धविद्या
सर्वभूतमहेश्वरी
॥
46
॥
लक्ष्मीस्तुष्टिर्महाधीरा
शान्तिरापूरणेनवा
।
अनुग्रहाशक्तिराद्या
जगज्ज्येष्ठा
जगद्विधिः
॥
47
॥
सत्या
प्रह्वा
क्रियायोग्या
ह्यपर्णा
ह्लादिनी
शिवा
।
सम्पूर्णाह्लादिनी
शुद्धा
ज्योतिष्मत्यमतावहा
॥
48
॥
रजोवत्यर्कप्रतिभाऽऽकर्षिणी
कर्षिणी
रसा
।
परा
वसुमती
देवी
कान्तिः
शान्तिर्मतिः
कला
॥
49
॥
कला
कलङ्करहिता
विशालोद्दीपनी
रतिः
।
सम्बोधिनी
हारिणी
च
प्रभावा
भवभूतिदा
॥
50
॥
अमृतस्यन्दिनी
जीवा
जननी
खण्डिका
स्थिरा
।
धूमा
कलावती
पूर्णा
भासुरा
सुमती
रसा
॥
51
॥
शुद्धा
ध्वनिः
सृतिः
सृष्टिर्विकृतिः
कृष्टिरेव
च
।
प्रापणी
प्राणदा
प्रह्वा
विश्वा
पाण्डुरवासिनी
॥
52
॥
अवनिर्वज्रनलिका
चित्रा
ब्रह्माण्डवासिनी
।
अनन्तरूपाऽनन्तात्माऽनन्तस्थाऽनन्तसम्भवा
॥
53
॥
महाशक्तिः
प्राणशक्तिः
प्राणदात्री
रतिम्भरा
।
महासमूहा
निखिला
इच्छाधारा
सुखावहा
॥
54
॥
प्रत्यक्षलक्ष्मीर्निष्कम्पा
प्ररोहा
बुद्धिगोचरा
।
नानादेहा
महावर्ता
बहुदेहविकासिनी
॥
55
॥
सहस्राणी
प्रधाना
च
न्यायवस्तुप्रकाशिका
।
सर्वाभिलाषपूर्णेच्छा
सर्वा
सर्वार्थभाषिणी
॥
56
॥
नानास्वरूपचिद्धात्री
शब्दपूर्वा
पुरातना
।
व्यक्ताऽव्यक्ता
जीवकेशा
सर्वेच्छापरिपूरिता
॥
57
॥
सङ्कल्पसिद्धा
साङ्ख्येया
तत्त्वगर्भा
धरावहा
।
भूतरूपा
चित्स्वरूपा
त्रिगुणा
गुणगर्विता
॥
58
॥
प्रजापतीश्वरी
रौद्री
सर्वाधारा
सुखावहा
।
कल्याणवाहिका
कल्या
कलिकल्मषनाशिनी
॥
59
॥
नीरूपोद्भिन्नसन्ताना
सुयन्त्रा
त्रिगुणालया
।
महामाया
योगमाया
महायोगेश्वरी
प्रिया
॥
60
॥
महास्त्री
विमला
कीर्तिर्जया
लक्ष्मीर्निरञ्जना
।
प्रकृतिर्भगवन्मायाशक्तिर्निद्रा
यशस्करी
॥
61
॥
चिन्ता
बुद्धिर्यशः
प्रज्ञा
शान्तिराप्रीतिवर्धिनी
।
प्रद्युम्नमाता
साध्वी
च
सुखसौभाग्यसिद्धिदा
॥
62
॥
काष्ठा
निष्ठा
प्रतिष्ठा
च
ज्येष्ठा
श्रेष्ठा
जयावहा
।
सर्वातिशायिनी
प्रीतिर्विश्वशक्तिर्महाबला
॥
63
॥
वरिष्ठा
विजया
वीरा
जयन्ती
विजयप्रदा
।
हृद्गृहा
गोपिनी
गुह्या
गणगन्धर्वसेविता
॥
64
॥
योगीश्वरी
योगमाया
योगिनी
योगसिद्धिदा
।
महायोगेश्वरवृता
योगा
योगेश्वरप्रिया
॥
65
॥
ब्रह्मेन्द्ररुद्रनमिता
सुरासुरवरप्रदा
।
त्रिवर्त्मगा
त्रिलोकस्था
त्रिविक्रमपदोद्भवा
॥
66
॥
सुतारा
तारिणी
तारा
दुर्गा
सन्तारिणी
परा
।
सुतारिणी
तारयन्ती
भूरितारेश्वरप्रभा
॥
67
॥
गुह्यविद्या
यज्ञविद्या
महाविद्या
सुशोभिता
।
अध्यात्मविद्या
विघ्नेशी
पद्मस्था
परमेष्ठिनी
॥
68
॥
आन्वीक्षिकी
त्रयी
वार्ता
दण्डनीतिर्नयात्मिका
।
गौरी
वागीश्वरी
गोप्त्री
गायत्री
कमलोद्भवा
॥
69
॥
विश्वम्भरा
विश्वरूपा
विश्वमाता
वसुप्रदा
।
सिद्धिः
स्वाहा
स्वधा
स्वस्तिः
सुधा
सर्वार्थसाधिनी
॥
70
॥
इच्छा
सृष्टिर्द्युतिर्भूतिः
कीर्तिः
श्रद्धा
दया
मतिः
।
श्रुतिर्मेधा
धृतिर्ह्रीः
श्रीर्विद्या
विबुधवन्दिता
॥
71
॥
अनसूया
घृणा
नीतिर्निर्वृतिः
कामधुक्करा
।
प्रतिज्ञा
सन्ततिर्भूतिर्द्यौः
प्रज्ञा
विश्वमानिनी
॥
72
॥
स्मृतिर्वाग्विश्वजननी
पश्यन्ती
मध्यमा
समा
।
सन्ध्या
मेधा
प्रभा
भीमा
सर्वाकारा
सरस्वती
॥
73
॥
काङ्क्षा
माया
महामाया
मोहिनी
माधवप्रिया
।
सौम्याभोगा
महाभोगा
भोगिनी
भोगदायिनी
॥
74
॥
सुधौतकनकप्रख्या
सुवर्णकमलासना
।
हिरण्यगर्भा
सुश्रोणी
हारिणी
रमणी
रमा
॥
75
॥
चन्द्रा
हिरण्मयी
ज्योत्स्ना
रम्या
शोभा
शुभावहा
।
त्रैलोक्यमण्डना
नारीनरेश्वरवरार्चिता
॥
76
॥
त्रैलोक्यसुन्दरी
रामा
महाविभववाहिनी
।
पद्मस्था
पद्मनिलया
पद्ममालाविभूषिता
॥
77
॥
पद्मयुग्मधरा
कान्ता
दिव्याभरणभूषिता
।
विचित्ररत्नमुकुटा
विचित्राम्बरभूषणा
॥
78
॥
विचित्रमाल्यगन्धाढ्या
विचित्रायुधवाहना
।
महानारायणी
देवी
वैष्णवी
वीरवन्दिता
॥
79
॥
कालसङ्कर्षिणी
घोरा
तत्त्वसङ्कर्षिणी
कला
।
जगत्सम्पूरणी
विश्वा
महाविभवभूषणा
॥
80
॥
वारुणी
वरदा
व्याख्या
घण्टाकर्णविराजिता
।
नृसिंही
भैरवी
ब्राह्मी
भास्करी
व्योमचारिणी
॥
81
॥
ऐन्द्री
कामधनुः
सृष्टिः
कामयोनिर्महाप्रभा
।
दृष्टा
काम्या
विश्वशक्तिर्बीजगत्यात्मदर्शना
॥
82
॥
गरुडारूढहृदया
चान्द्री
श्रीर्मधुरानना
।
महोग्ररूपा
वाराही
नारसिंही
हतासुरा
॥
83
॥
युगान्तहुतभुग्ज्वाला
कराला
पिङ्गला
कला
।
त्रैलोक्यभूषणा
भीमा
श्यामा
त्रैलोक्यमोहिनी
॥
84
॥
महोत्कटा
महारक्ता
महाचण्डा
महासना
।
शङ्खिनी
लेखिनी
स्वस्था
लिखिता
खेचरेश्वरी
॥
85
॥
भद्रकाली
चैकवीरा
कौमारी
भगमालिनी
।
कल्याणी
कामधुग्ज्वालामुखी
चोत्पलमालिका
॥
86
॥
बालिका
धनदा
सूर्या
हृदयोत्पलमालिका
।
अजिता
वर्षिणी
रीतिर्भेरुण्डा
गरुडासना
॥
87
॥
वैश्वानरी
महामाया
महाकाली
विभीषणा
।
महामन्दारविभवा
शिवानन्दा
रतिप्रिया
॥
88
॥
उद्रीतिः
पद्ममाला
च
धर्मवेगा
विभावनी
।
सत्क्रिया
देवसेना
च
हिरण्यरजताश्रया
॥
89
॥
सहसावर्तमाना
च
हस्तिनादप्रबोधिनी
।
हिरण्यपद्मवर्णा
च
हरिभद्रा
सुदुर्धरा
॥
90
॥
सूर्या
हिरण्यप्रकटसदृशी
हेममालिनी
।
पद्मानना
नित्यपुष्टा
देवमाताऽमृतोद्भवा
॥
91
॥
महाधना
च
या
शृङ्गी
कर्दमी
कम्बुकन्धरा
।
आदित्यवर्णा
चन्द्राभा
गन्धद्वारा
दुरासदा
॥
92
॥
वरार्चिता
वरारोहा
वरेण्या
विष्णुवल्लभा
।
कल्याणी
वरदा
वामा
वामेशी
विन्ध्यवासिनी
॥
93
॥
योगनिद्रा
योगरता
देवकीकामरूपिणी
।
कंसविद्राविणी
दुर्गा
कौमारी
कौशिकी
क्षमा
॥
94
॥
कात्यायनी
कालरात्रिर्निशितृप्ता
सुदुर्जया
।
विरूपाक्षी
विशालाक्षी
भक्तानां
परिरक्षिणी
॥
95
॥
बहुरूपा
स्वरूपा
च
विरूपा
रूपवर्जिता
।
घण्टानिनादबहुला
जीमूतध्वनिनिस्स्वना
॥
96
॥
महादेवेन्द्रमथिनी
भ्रुकुटीकुटिलानना
।
सत्योपयाचिता
चैका
कौबेरी
ब्रह्मचारिणी
॥
97
॥
आर्या
यशोदासुतदा
धर्मकामार्थमोक्षदा
।
दारिद्र्यदुःखशमनी
घोरदुर्गार्तिनाशिनी
॥
98
॥
भक्तार्तिशमनी
भव्या
भवभर्गापहारिणी
।
क्षीराब्धितनया
पद्मा
कमला
धरणीधरा
॥
99
॥
रुक्मिणी
रोहिणी
सीता
सत्यभामा
यशस्विनी
।
प्रज्ञाधाराऽमितप्रज्ञा
वेदमाता
यशोवती
॥
100
॥
समाधिर्भावना
मैत्री
करुणा
भक्तवत्सला
।
अन्तर्वेदी
दक्षिणा
च
ब्रह्मचर्यपरागतिः
॥
101
॥
दीक्षा
वीक्षा
परीक्षा
च
समीक्षा
वीरवत्सला
।
अम्बिका
सुरभिः
सिद्धा
सिद्धविद्याधरार्चिता
॥
102
॥
सुदीप्ता
लेलिहाना
च
कराला
विश्वपूरका
।
विश्वसंहारिणी
दीप्तिस्तापनी
ताण्डवप्रिया
॥
103
॥
उद्भवा
विरजा
राज्ञी
तापनी
बिन्दुमालिनी
।
क्षीरधारासुप्रभावा
लोकमाता
सुवर्चसा
॥
104
॥
हव्यगर्भा
चाज्यगर्भा
जुह्वतो
यज्ञसम्भवा
।
आप्यायनी
पावनी
च
दहनी
दहनाश्रया
॥
105
॥
मातृका
माधवी
मुच्या
मोक्षलक्ष्मीर्महर्धिदा
।
सर्वकामप्रदा
भद्रा
सुभद्रा
सर्वमङ्गला
॥
106
॥
श्वेता
सुशुक्लवसना
शुक्लमाल्यानुलेपना
।
हंसा
हीनकरी
हंसी
हृद्या
हृत्कमलालया
॥
107
॥
सितातपत्रा
सुश्रोणी
पद्मपत्रायतेक्षणा
।
सावित्री
सत्यसङ्कल्पा
कामदा
कामकामिनी
॥
108
॥
दर्शनीया
दृशा
दृश्या
स्पृश्या
सेव्या
वराङ्गना
।
भोगप्रिया
भोगवती
भोगीन्द्रशयनासना
॥
109
॥
आर्द्रा
पुष्करिणी
पुण्या
पावनी
पापसूदनी
।
श्रीमती
च
शुभाकारा
परमैश्वर्यभूतिदा
॥
110
॥
अचिन्त्यानन्तविभवा
भवभावविभावनी
।
निश्रेणिः
सर्वदेहस्था
सर्वभूतनमस्कृता
॥
111
॥
बला
बलाधिका
देवी
गौतमी
गोकुलालया
।
तोषिणी
पूर्णचन्द्राभा
एकानन्दा
शतानना
॥
112
॥
उद्याननगरद्वारहर्म्योपवनवासिनी
।
कूष्माण्डी
दारुणा
चण्डा
किराती
नन्दनालया
॥
113
॥
कालायना
कालगम्या
भयदा
भयनाशिनी
।
सौदामिनी
मेघरवा
दैत्यदानवमर्दिनी
॥
114
॥
जगन्माताऽभयकरी
भूतधात्री
सुदुर्लभा
।
काश्यपी
शुभदाना
च
वनमाला
शुभा
वरा
॥
115
॥
धन्या
धन्येश्वरी
धन्या
रत्नदा
वसुवर्धिनी
।
गान्धर्वी
रेवती
गङ्गा
शकुनी
विमलानना
॥
116
॥
इडा
शान्तिकरी
चैव
तामसी
कमलालया
।
आज्यपा
वज्रकौमारी
सोमपा
कुसुमाश्रया
॥
117
॥
जगत्प्रिया
च
सरथा
दुर्जया
खगवाहना
।
मनोभवा
कामचारा
सिद्धचारणसेविता
॥
118
॥
व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः
सुजाज्वला
।
रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया
॥
119
॥
श्रवणा
श्रावणी
नेत्री
रसनाप्राणचारिणी
।
विरिञ्चिमाता
विभवा
वरवारिजवाहना
॥
120
॥
वीर्या
वीरेश्वरी
वन्द्या
विशोका
वसुवर्धिनी
।
अनाहता
कुण्डलिनी
नलिनी
वनवासिनी
॥
121
॥
गान्धारिणीन्द्रनमिता
सुरेन्द्रनमिता
सती
।
सर्वमङ्गल्यमाङ्गल्या
सर्वकामसमृद्धिदा
॥
122
॥
सर्वानन्दा
महानन्दा
सत्कीर्तिः
सिद्धसेविता
।
सिनीवाली
कुहू
राका
अमा
चानुमतिर्द्युतिः
॥
123
॥
अरुन्धती
वसुमती
भार्गवी
वास्तुदेवता
।
मयूरी
वज्रवेताली
वज्रहस्ता
वरानना
॥
124
॥
अनघा
धरणिर्धीरा
धमनी
मणिभूषणा
।
राजश्रीरूपसहिता
ब्रह्मश्रीर्ब्रह्मवन्दिता
॥
125
॥
जयश्रीर्जयदा
ज्ञेया
सर्गश्रीः
स्वर्गतिः
सताम्
।
सुपुष्पा
पुष्पनिलया
फलश्रीर्निष्कलप्रिया
॥
126
॥
धनुर्लक्ष्मीस्त्वमिलिता
परक्रोधनिवारिणी
।
कद्रूर्धनायुः
कपिला
सुरसा
सुरमोहिनी
॥
127
॥
महाश्वेता
महानीला
महामूर्तिर्विषापहा
।
सुप्रभा
ज्वालिनी
दीप्तिस्तृप्तिर्व्याप्तिः
प्रभाकरी
॥
128
॥
तेजोवती
पद्मबोधा
मदलेखारुणावती
।
रत्ना
रत्नावलीभूता
शतधामा
शतापहा
॥
129
॥
त्रिगुणा
घोषिणी
रक्ष्या
नर्दिनी
घोषवर्जिता
।
साध्याऽदितिर्दितिर्देवी
मृगवाहा
मृगाङ्कगा
॥
130
॥
चित्रनीलोत्पलगता
वृषरत्नकराश्रया
।
हिरण्यरजतद्वन्द्वा
शङ्खभद्रासनस्थिता
॥
131
॥
गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रया
।
मरीचिश्चीरवसना
पूर्णचन्द्रार्कविष्टरा
॥
132
॥
सुसूक्ष्मा
निर्वृतिः
स्थूला
निवृत्तारातिरेव
च
।
मरीचिज्वालिनी
धूम्रा
हव्यवाहा
हिरण्यदा
॥
133
॥
दायिनी
कालिनी
सिद्धिः
शोषिणी
सम्प्रबोधिनी
।
भास्वरा
संहतिस्तीक्ष्णा
प्रचण्डज्वलनोज्ज्वला
॥
134
॥
साङ्गा
प्रचण्डा
दीप्ता
च
वैद्युतिः
सुमहाद्युतिः
।
कपिला
नीलरक्ता
च
सुषुम्ना
विस्फुलिङ्गिनी
॥
135
॥
अर्चिष्मती
रिपुहरा
दीर्घा
धूमावली
जरा
।
सम्पूर्णमण्डला
पूषा
स्रंसिनी
सुमनोहरा
॥
136
॥
जया
पुष्टिकरी
छाया
मानसा
हृदयोज्ज्वला
।
सुवर्णकरणी
श्रेष्ठा
मृतसञ्जीवनी
रणे
॥
137
॥
विशल्यकरणी
शुभ्रा
सन्धिनी
परमौषधिः
।
ब्रह्मिष्ठा
ब्रह्मसहिता
ऐन्दवी
रत्नसम्भवा
॥
138
॥
विद्युत्प्रभा
बिन्दुमती
त्रिस्वभावगुणाम्बिका
।
नित्योदिता
नित्यदृष्टा
नित्यकामकरीषिणी
॥
139
॥
पद्माङ्का
वज्रचिह्ना
च
वक्रदण्डविभासिनी
।
विदेहपूजिता
कन्या
माया
विजयवाहिनी
॥
140
॥
मानिनी
मङ्गला
मान्या
मानिनी
मानदायिनी
।
विश्वेश्वरी
गणवती
मण्डला
मण्डलेश्वरी
॥
141
॥
हरिप्रिया
भौमसुता
मनोज्ञा
मतिदायिनी
।
प्रत्यङ्गिरा
सोमगुप्ता
मनोऽभिज्ञा
वदन्मतिः
॥
142
॥
यशोधरा
रत्नमाला
कृष्णा
त्रैलोक्यबन्धिनी
।
अमृता
धारिणी
हर्षा
विनता
वल्लकी
शची
॥
143
॥
सङ्कल्पा
भामिनी
मिश्रा
कादम्बर्यमृता
प्रभा
।
आगता
निर्गता
वज्रा
सुहिता
सहिताऽक्षता
॥
144
॥
सर्वार्थसाधनकरी
धातुर्धारणिकाऽमला
।
करुणाधारसम्भूता
कमलाक्षी
शशिप्रिया
॥
145
॥
सौम्यरूपा
महादीप्ता
महाज्वाला
विकासिनी
।
माला
काञ्चनमाला
च
सद्वज्रा
कनकप्रभा
॥
146
॥
प्रक्रिया
परमा
योक्त्री
क्षोभिका
च
सुखोदया
।
विजृम्भणा
च
वज्राख्या
शृङ्खला
कमलेक्षणा
॥
147
॥
जयङ्करी
मधुमती
हरिता
शशिनी
शिवा
।
मूलप्रकृतिरीशानी
योगमाता
मनोजवा
॥
148
॥
धर्मोदया
भानुमती
सर्वाभासा
सुखावहा
।
धुरन्धरा
च
बाला
च
धर्मसेव्या
तथागता
॥
149
॥
सुकुमारा
सौम्यमुखी
सौम्यसम्बोधनोत्तमा
।
सुमुखी
सर्वतोभद्रा
गुह्यशक्तिर्गुहालया
॥
150
॥
हलायुधा
च
कावीरा
सर्वशास्त्रसुधारिणी
।
व्योमशक्तिर्महादेहा
व्योमगा
मधुमन्मयी
॥
151
॥
गङ्गा
वितस्ता
यमुना
चन्द्रभागा
सरस्वती
।
तिलोत्तमोर्वशी
रम्भा
स्वामिनी
सुरसुन्दरी
॥
152
॥
बाणप्रहरणा
बाला
बिम्बोष्ठी
चारुहासिनी
।
ककुद्मिनी
चारुपृष्ठा
दृष्टादृष्टफलप्रदा
॥
153
॥
काम्यचारी
च
काम्या
च
कामाचारविहारिणी
।
हिमशैलेन्द्रसङ्काशा
गजेन्द्रवरवाहना
॥
154
॥
अशेषसुखसौभाग्यसम्पदां
योनिरुत्तमा
।
सर्वोत्कृष्टा
सर्वमयी
सर्वा
सर्वेश्वरप्रिया
॥
155
॥
सर्वाङ्गयोनिः
साऽव्यक्ता
सम्प्रधानेश्वरेश्वरी
।
विष्णुवक्षःस्थलगता
किमतः
परमुच्यते
॥
156
॥
परा
निर्महिमा
देवी
हरिवक्षःस्थलाश्रया
।
सा
देवी
पापहन्त्री
च
सान्निध्यं
कुरुतान्मम
॥
157
॥
इति
नाम्नां
सहस्रं
तु
लक्ष्म्याः
प्रोक्तं
शुभावहम्
।
परावरेण
भेदेन
मुख्यगौणेन
भागतः
॥
158
॥
यश्चैतत्कीर्तयेन्नित्यं
शृणुयाद्वापि
पद्मज
।
शुचिः
समाहितो
भूत्वा
भक्तिश्रद्धासमन्वितः
॥
159
॥
श्रीनिवासं
समभ्यर्च्य
पुष्पधूपानुलेपनैः
।
भोगैश्च
मधुपर्काद्यैर्यथाशक्ति
जगद्गुरुम्
॥
160
॥
तत्पार्श्वस्थां
श्रियं
देवीं
सम्पूज्य
श्रीधरप्रियाम्
।
ततो
नामसहस्रेण
तोषयेत्परमेश्वरीम्
॥
161
॥
नामरत्नावलीस्तोत्रमिदं
यः
सततं
पठेत्
।
प्रसादाभिमुखी
लक्ष्मीः
सर्वं
तस्मै
प्रयच्छति
॥
162
॥
यस्या
लक्ष्म्याश्च
सम्भूताः
शक्तयो
विश्वगाः
सदा
।
कारणत्वं
न
तिष्ठन्ति
जगत्यस्मिंश्चराचरे
॥
163
॥
तस्मात्प्रीता
जगन्माता
श्रीर्यस्याच्युतवल्लभा
।
सुप्रीताः
शक्तयस्तस्य
सिद्धिमिष्टां
दिशन्ति
हि
॥
164
॥
एक
एव
जगत्स्वामी
शक्तिमानच्युतः
प्रभुः
।
तदंशशक्तिमन्तोऽन्ये
ब्रह्मेशानादयो
यथा
॥
168
॥
तथैवैका
परा
शक्तिः
श्रीस्तस्य
करुणाश्रया
।
ज्ञानादिषाड्गुण्यमयी
या
प्रोक्ता
प्रकृतिः
परा
॥
166
॥
एकैकशक्तिः
श्रीस्तस्या
द्वितीयात्मनि
वर्तते
।
परा
परेशी
सर्वेशी
सर्वाकारा
सनातनी
॥
167
॥
अनन्तनामधेया
च
शक्तिचक्रस्य
नायिका
।
जगच्चराचरमिदं
सर्वं
व्याप्य
व्यवस्थिता
॥
168
॥
तस्मादेकैव
परमा
श्रीर्ज्ञेया
विश्वरूपिणी
।
सौम्या
सौम्येन
रूपेण
संस्थिता
नटजीववत्
॥
169
॥
यो
यो
जगति
पुम्भावः
स
विष्णुरिति
निश्चयः
।
या
या
तु
नारीभावस्था
तत्र
लक्ष्मीर्व्यवस्थिता
॥
170
॥
प्रकृतेः
पुरुषाच्चान्यस्तृतीयो
नैव
विद्यते
।
अथ
किं
बहुनोक्तेन
नरनारीमयो
हरिः
॥
171
॥
अनेकभेदभिन्नस्तु
क्रियते
परमेश्वरः
।
महाविभूतिं
दयितां
ये
स्तुवन्त्यच्युतप्रियाम्
॥
172
॥
ते
प्राप्नुवन्ति
परमां
लक्ष्मीं
संशुद्धचेतसः
।
पद्मयोनिरिदं
प्राप्य
पठन्
स्तोत्रमिदं
क्रमात्
॥
173
॥
दिव्यमष्टगुणैश्वर्यं
तत्प्रसादाच्च
लब्धवान्
।
सकामानां
च
फलदामकामानां
च
मोक्षदाम्
॥
174
॥
पुस्तकाख्यां
भयत्रात्रीं
सितवस्त्रां
त्रिलोचनाम्
।
महापद्मनिषण्णां
तां
लक्ष्मीमजरतां
नमः
॥
175
॥
करयुगलगृहीतं
पूर्णकुम्भं
दधाना
क्वचिदमलगतस्था
शङ्खपद्माक्षपाणिः
।
क्वचिदपि
दयिताङ्गे
चामरव्यग्रहस्ता
क्वचिदपि
सृणिपाशं
बिभ्रती
हेमकान्तिः
॥
176
॥
इति
पद्मपुराणे
काश्मीरवर्णने
हिरण्यगर्भहृदये
सर्वकामप्रदायकं
पुरुषोत्तमप्रोक्तं
श्री
लक्ष्मी
सहस्र
नाम
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits