हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बाला त्रिपुर सुन्दरी कवचम्
श्रीपार्वत्युवाच
।
देवदेव
महादेव
शङ्कर
प्राणवल्लभ
।
कवचं
श्रोतुमिच्छामि
बालाया
वद
मे
प्रभो
॥
1
॥
श्रीमहेश्वर
उवाच
।
श्रीबालाकवचं
देवि
महाप्राणाधिकं
परम्
।
वक्ष्यामि
सावधाना
त्वं
शृणुष्वावहिता
प्रिये
॥
2
॥
अथ
ध्यानम्
।
अरुणकिरणजालैः
रञ्जिताशावकाशा
विधृतजपवटीका
पुस्तकाभीतिहस्ता
।
इतरकरवराढ्या
फुल्लकह्लारसंस्था
निवसतु
हृदि
बाला
नित्यकल्याणशीला
॥
अथ
कवचम्
।
वाग्भवः
पातु
शिरसि
कामराजस्तथा
हृदि
।
शक्तिबीजं
सदा
पातु
नाभौ
गुह्ये
च
पादयोः
॥
1
॥
ऐं
क्लीं
सौः
वदने
पातु
बाला
मां
सर्वसिद्धये
।
हसकलह्रीं
सौः
पातु
स्कन्धे
भैरवी
कण्ठदेशतः
॥
2
॥
सुन्दरी
नाभिदेशेऽव्याच्चर्चे
कामकला
सदा
।
भ्रूनासयोरन्तराले
महात्रिपुरसुन्दरी
॥
3
॥
ललाटे
सुभगा
पातु
भगा
मां
कण्ठदेशतः
।
भगोदया
तु
हृदये
उदरे
भगसर्पिणी
॥
4
॥
भगमाला
नाभिदेशे
लिङ्गे
पातु
मनोभवा
।
गुह्ये
पातु
महावीरा
राजराजेश्वरी
शिवा
॥
5
॥
चैतन्यरूपिणी
पातु
पादयोर्जगदम्बिका
।
नारायणी
सर्वगात्रे
सर्वकार्य
शुभङ्करी
॥
6
॥
ब्रह्माणी
पातु
मां
पूर्वे
दक्षिणे
वैष्णवी
तथा
।
पश्चिमे
पातु
वाराही
ह्युत्तरे
तु
महेश्वरी
॥
7
॥
आग्नेय्यां
पातु
कौमारी
महालक्ष्मीश्च
निरृतौ
।
वायव्यां
पातु
चामुण्डा
चेन्द्राणी
पातु
चैशके
॥
8
॥
जले
पातु
महामाया
पृथिव्यां
सर्वमङ्गला
।
आकाशे
पातु
वरदा
सर्वतो
भुवनेश्वरी
॥
9
॥
इदं
तु
कवचं
नाम
देवानामपि
दुर्लभम्
।
पठेत्प्रातः
समुत्थाय
शुचिः
प्रयतमानसः
॥
10
॥
नामयो
व्याधयस्तस्य
न
भयं
च
क्वचिद्भवेत्
।
न
च
मारीभयं
तस्य
पातकानां
भयं
तथा
॥
11
॥
न
दारिद्र्यवशं
गच्छेत्तिष्ठेन्मृत्युवशे
न
च
।
गच्छेच्छिवपुरं
देवि
सत्यं
सत्यं
वदाम्यहम्
॥
12
॥
यदिदं
कवचं
ज्ञात्वा
श्रीबालां
यो
जपेच्छिवे
।
स
प्राप्नोति
फलं
सर्वं
शिवसायुज्यसम्भवम्
॥
13
॥
इति
श्रीरुद्रयामले
श्री
बाला
कवचम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits