हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बाला त्रिपुर सुन्दरी हृदयम्
अस्य
श्रीबालादेव्या
हृदयमहामन्त्रस्य,
सदाशिवः
ऋषिः,
अनुष्टुप्छन्दः,
बालात्रिपुरसुन्दरी
देवता,
मम
बालात्रिपुरसुन्दरी
देवता
प्रीत्यर्थे
जपे
विनियोगः
।
ध्यानम्
–
वन्दे
देवीं
शिवां
बालां
भास्वन्मण्डलमध्यगाम्
।
चञ्चच्चन्द्राननां
तप्तचामीकरसमप्रभाम्
॥
1
॥
नृत्यत्खञ्जननेत्रस्य
लोचनात्यन्तवल्लभाम्
।
मध्यभागे
लसत्काञ्ची
मणिमुक्ताविनिर्मिताम्
॥
2
॥
पदविन्यस्तहंसालीं
शुकनासाविराजिताम्
।
करिशुण्डोरुयुगलां
मत्तकोकिलनिःस्वनाम्
॥
3
॥
पुस्तकं
जपमालां
च
वरदाऽभयपाणिनीम्
।
कुमारीवेशशोभाढ्यां
कुमारीवृन्दमण्डिताम्
॥
4
॥
विद्रुमाधरशोभाढ्यां
विद्रुमालिनखालिकाम्
।
क्वणत्काञ्चीं
कलानाथसमानरुचिराननाम्
॥
5
॥
मृणालबाहुलतिकां
नानारत्नविराजिताम्
।
करपद्मसमानाभां
पादपद्मविराजिताम्
॥
6
॥
चारुचाम्पेयवसनां
देवदेवनमस्कृताम्
।
चन्दनेन्दुविलिप्ताङ्गीं
रोमराजीविचित्रिताम्
॥
7
॥
तिलपुष्पसमानाभां
नासारत्नसमन्विताम्
।
गजगण्डनितम्बाभां
रम्भाजङ्घाविराजिताम्
॥
8
॥
हरविष्णुमहेन्द्राद्यैः
पूज्यश्रीपादपङ्कजाम्
।
कल्याणीं
कमलां
कालीं
कुञ्चिकां
कमलेश्वरीम्
॥
9
॥
पावनीं
परमां
शक्तिं
पवित्रां
पावनीं
शिवाम्
।
भवानीं
भवपाशघ्नीं
भीतिहां
भुवनेश्वरीम्
॥
10
॥
भवानीं
भवशक्तिं
च
भेरुण्डां
मुण्डमालिनीम्
।
जलन्धरगिर्युत्सङ्गां
पूर्णगिर्यनुरागिणीम्
॥
11
॥
कामरूपां
च
कामाख्यां
देवीकोटकृतालयाम्
।
ओङ्कारपीठनिलयां
महामायां
महेश्वरीम्
॥
12
॥
विश्वेश्वरीं
च
मधुरां
नानारूपाकृतापुरीम्
।
ऐं
क्लीं
सौः
त्र्यक्षरां
बालां
तद्विलोमां
कुमारिकाम्
॥
13
॥
हौः
ऐं
हंसः
नमो
देवि
त्रिपुरां
जीवभैरवीम्
।
नारदो
यस्य
देवर्षिः
महाशान्तिफलप्रदाम्
॥
14
॥
ओं
नमो
श्रीमहालक्ष्म्यै
लक्ष्मीं
त्रिपुरभैरवीम्
।
ओं
ह्रीं
जूं
सः
प्राणग्रन्थिः
द्विधार्गकवचद्वयम्
॥
15
॥
इयं
सञ्जीविनी
देवी
मृतान्
जीवत्वदायिनी
।
फ्रेः
फ्रं
न
फ
ल
व
र
यूं
श्रों
श्रों
अमृतमावदेत्
॥
16
॥
स्रावय
स्रावय
तथा
व्रीं
व्रीं
मृत्युञ्जयाभिधा
।
ओं
नमो
प्रथमाभाष्य
कालीबीजं
द्विधा
पठेत्
॥
17
॥
कूर्चद्वयं
तथा
माया
आगामिपदमावदेत्
।
मृत्युं
छिन्दि
तथा
भिन्दि
महामृत्युञ्जयो
भवेत्
॥
18
॥
तव
शब्दं
ममाभाष्य
खड्गेन
च
विदारय
।
द्विधा
भाष्य
महेशानि
तदन्ते
वह्निसुन्दरी
॥
19
॥
इयं
देवी
महाविद्या
आगामि
कालवञ्चिनी
।
प्रातर्दीपदलाकारं
वाग्भवं
रसनातले
॥
20
॥
विचिन्त्य
प्रजपेत्तच्च
महाकविर्भवेद्ध्रुवम्
।
मध्याह्ने
कामराजाख्यं
जपाकुसुमसन्निभम्
॥
21
॥
विचिन्त्य
हृदि
मध्ये
तु
तच्च
मन्त्रं
जपेत्प्रिये
।
धर्मार्थकाममोक्षाणां
भाजनो
जायते
ध्रुवम्
॥
22
॥
तार्तीयं
चन्द्रसङ्काशं
सायङ्काले
विचिन्त्य
च
।
प्रजपेत्तत्र
देवेशि
जायते
मदनोपमः
॥
23
॥
वाग्भवं
कामराजं
तु
तार्तीयं
वह्निवल्लभाम्
।
अयुतं
प्रजपेन्नित्यं
आगामी
कालो
वञ्च्यते
॥
24
॥
त्रिकोणं
चक्रमालिख्य
मायायुक्तं
महेश्वरि
।
तस्योपरि
लिखेत्पद्मं
मातृका
मन्त्रगर्भितम्
॥
25
॥
तस्योपरि
समास्तीर्य
चासनं
रक्तवर्णकम्
।
तस्योपरि
विशेद्देवि
साधकः
प्राङ्मुखो
निशि
॥
26
॥
क्रमेण
प्रजपेद्वर्णान्
वागादि
नियतः
शुचिः
।
मण्डलत्रितये
देवि
प्राप्यते
सिद्धिरुत्तमा
॥
27
॥
नवयोन्यात्मकं
चक्रं
पूजयेच्छास्त्रवर्त्मना
।
प्रजपेद्द्व्यक्षरीं
बालां
सर्वसिद्धीश्वरो
भवेत्
॥
28
॥
यं
यं
चिन्तयते
कामं
तं
तं
प्राप्नोति
सर्वशः
।
इदं
तु
हृदयं
देवि
तवाग्रे
कथितं
मया
॥
29
॥
मम
भाग्यं
च
सर्वस्वं
ब्रह्मादीनां
च
दुर्लभम्
।
गोपनीयं
त्वया
भद्रे
स्वयोनिरिव
पार्वति
॥
30
॥
शतावर्तेन
देवेशि
मानुषी
वशमाप्नुयात्
।
सहस्रावर्तनाद्देवि
देवा
वै
वशमाप्नुयुः
॥
31
॥
लक्षमावर्तनाद्देवि
शुनासीरः
स्वकासनात्
।
क्षणाच्च्यवति
तत्र
वै
किं
पुनः
क्षुद्रजन्तवः
॥
32
॥
तस्मात्सर्वप्रयत्नेन
ज्ञात्वा
देवि
जपेन्मनुम्
।
सर्वसिद्धिमवाप्नोति
सर्वदा
सुखवान्भवेत्
॥
33
॥
इति
जालशम्बरमहातन्त्रे
श्री
बाला
त्रिपुर
सुन्दरी
हृदयम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits