Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

बाला त्रिपुर सुन्दरी भुजङ्ग स्तोत्रम्

श्रीनीललोहित उवाच ।
जगद्योनिरूपां सुवेशीं च रक्तां
गुणातीतसञ्ज्ञां महागुह्यगुह्याम् ।
महासर्पभूषां भवेशादिपूज्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 1 ॥
महास्वर्णवर्णां शिवपृष्ठसंस्थां
महामुण्डमालां गले शोभमानाम् ।
महाचर्मवस्त्रां महाशङ्खहस्तां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 2 ॥
सदा सुप्रसन्नां भृतासूक्ष्मसूक्ष्मां
वराभीतिहस्तां धृतावाक्षपुस्ताम् ।
महाकिन्नरेशीं भगाकारविद्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 3 ॥
तिनीं तीकिनीनां रवां किङ्किणीनां
हहाहा हहाहा महालापशब्दाम् ।
तथैथै तथैथै महानृत्यनृत्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 4 ॥
ननाना रिरीरी महागीश शम्बू
हुहूवू हुहूवू पशो रक्तपानाम् ।
धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 5 ॥
महाचक्रसंस्थां त्रिमात्रास्वरूपां
शिवार्धाङ्गभूतां महापुष्पमालाम् ।
महादुःखहर्त्रीं महाप्रेतसंस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 6 ॥
स्फुरत्पद्मवक्त्रां हिमांशोः कलापां
महाकोमलाङ्गीं सुरेशेन मान्याम् ।
जगत्पालनैकाग्रचित्तां सुपुष्टां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 7 ॥
महादैत्यनाशीं सुरानित्यपालीं
महाबुद्धिराशिं कवीनां मुखस्थाम् ।
जटीनां हृदिस्थां मनूनां शिरःस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ 8 ॥
भुजङ्गाख्यं महास्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ 9 ॥
सर्वक्रतुफलं भद्रे सर्वव्रतफलं तथा ।
सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ 10 ॥
विवादे कलहे घोरे महादुःखे पराजये ।
ग्रहदोषे महारोगे पठेत् स्तोत्रं विचक्षणः ॥ 11 ॥
सर्वदोषाः विनश्यन्ति लभते वाञ्छितं फलम् ।
दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवेत् ॥ 12 ॥
महाचक्रे पठेद्देवि लभते परमं पदम् ।
पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ 13 ॥
पितृगेहे तुर्यपथे शून्यागारे शिवालये ।
बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ 14 ॥
पठेत् स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ।
त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ 15 ॥
इति श्री बाला त्रिपुर सुन्दरी भुजङ्ग स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits