हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
बगलामुखी स्तोत्रम्
ओं
अस्य
श्रीबगलामुखीस्तोत्रस्य-नारदऋषिः
श्री
बगलामुखी
देवता-
मम
सन्निहितानां
विरोधिनां
वाङ्मुख-पदबुद्धीनां
स्तम्भनार्थे
स्तोत्रपाठे
विनियोगः
मध्येसुधाब्धि
मणिमण्टप
रत्नवेदि
सिंहासनोपरिगतां
परिपीतवर्णां
।
पीताम्बराभरण
माल्यविभूषिताङ्गीं
देवीं
भजामि
धृतमुद्गरवैरि
जिह्वाम्
॥
1
॥
जिह्वाग्रमादाय
करेण
देवीं
वामेन
शत्रून्
परिपीडयन्तीं
।
गदाभिघातेन
च
दक्षिणेन
पीताम्बराढ्यां
द्विभुजां
भजामि
॥
2
॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पक
द्युतिमदिन्दुबिम्बाननां
।
गदाहत
विपक्षकां
कलितलोलजिह्वाञ्चलां
स्मरामि
बगलामुखीं
विमुखवाङ्मनस्स्तम्भिनीम्
॥
3
॥
पीयूषो
दधिमध्यचारु
विलस
द्रक्तोत्पले
मण्टपे
सत्सिंहासन
मौलिपातितरिपुं
प्रेतासनाध्यासिनीं
।
स्वर्णाभां
करपीडितारिरसनां
भ्राम्यद्गदां
विभ्रमां
इत्थं
ध्यायति
यान्ति
तस्य
विलयं
सद्योथ
सर्वापदः
॥
4
॥
देवित्त्वच्चरणाम्बुजार्चनकृते
यः
पीत
पुष्पाञ्जलीन्
भक्त्या
वामकरे
निधाय
च
मनुं
मन्त्री
मनोज्ञाक्षरं
।
पीठध्यानपरोऽथ
कुम्भकवशाद्बीजं
स्मरेत्पार्थिव-
स्तस्यामित्रमुखस्य
वाचि
हृदये
जाड्यं
भवेत्तत्क्षणात्
॥
5
॥
वादी
मूकति
कङ्कति
क्षितिपतिर्वैश्वानरश्शीतिति
क्रोधीशाम्यति
दुर्जनस्सुजनति
क्षिप्रानुगः
खञ्जति
।
गर्वी
खर्वति
सर्वविच्च
जडति
त्वद्यन्त्रणा
यन्त्रितः
श्रीनित्ये
बगलामुखि
प्रतिदिनं
कल्याणि
तुभ्यं
नमः
॥
6
॥
मन्त्रस्तावदयं
विपक्षदलने
स्तोत्रं
पवित्रं
च
ते
यन्त्रं
वादिनियन्त्रणं
त्रिजगतां
जैत्रं
च
चित्रं
च
ते
।
मातः
श्रीबगलेति
नाम
ललितं
यस्यास्ति
जन्तोर्मुखे
त्वन्नामग्रहणेन
संसदि
मुख
स्तम्भो
भवेद्वादिनाम्
॥
7
॥
दुष्टस्तम्भनमुग्रविघ्नशमनं
दारिद्र्यविद्रावणं
भूभृद्भीशमनं
चलन्मृगदृशां
चेतस्समाकर्षणं
।
सौभाग्यैकनिकेतनं
समदृशः
कारुण्यपूर्णामृतं
मृत्योर्मारणमाविरस्तु
पुरतो
मातस्त्वदीयं
वपुः
॥
8
॥
मातर्भञ्जय
मे
विपक्षवदनां
जिह्वां
च
सङ्कीलय
ब्राह्मीं
मुद्रय
नाशयाशुधिषणामुग्रां
गतिं
स्तम्भय
।
शत्रूम्श्चूर्णय
देवि
तीक्ष्णगदया
गौराङ्गि
पीताम्बरे
विघ्नौघं
बगले
हर
प्रणमतां
कारुण्यपूर्णेक्षणे
॥
9
॥
मातर्भैरवि
भद्रकालि
विजये
वाराहि
विश्वाश्रये
श्रीविद्ये
समये
महेशि
बगले
कामेशि
रामे
रमे
।
मातङ्गि
त्रिपुरे
परात्परतरे
स्वर्गापवर्गप्रदे
दासोऽहं
शरणागतः
करुणया
विश्वेश्वरि
त्राहिमाम्
॥
10
॥
संरम्भे
सौरसङ्घे
प्रहरणसमये
बन्धनेवारिमध्ये
विद्यावादेविवादे
प्रतिकृतिनृपतौ
दिव्यकाले
निशायाम्
।
वश्ये
वा
स्तम्भने
वा
रिपुवधसमये
निर्जने
वा
वने
वा
गच्छंस्तिष्ठंस्त्रिकालं
यदि
पठति
शिवं
प्राप्नुयादाशु
धीरः
॥
11
॥
त्वं
विद्या
परमा
त्रिलोकजननी
विघ्नौघसञ्छेदिनी
योषाकर्षणकारिणी
त्रिजगतामानन्दसंवर्धिनी
।
दुस्फोटोच्चाटनकारिणी
जनमनस्संमोहसन्दायिनी
जिह्वाकीलनभैरवी
विजयते
ब्रह्मास्त्रमन्त्रो
यथा
॥
12
॥
विद्यालक्ष्मीस्सर्वसौभाग्यमायुः
पुत्रैः
पौत्रैः
सर्वसाम्राज्यसिद्धिः
।
मानो
भोगो
वश्यमारोग्यसौख्यं
प्राप्तं
तत्तद्भूतलेऽस्मिन्नरेण
॥
13
॥
यत्कृतं
च
जपं
होमं
गदितं
परमेश्वरी
।
दुष्टानां
निग्रहार्थाय
तद्गृहाण
नमोऽस्तु
ते
॥
14
॥
पीताम्बरां
तां
द्विभुजां
त्रिनेत्रां
गात्रगोज्ज्वलां
।
शिलामुद्गरहस्तां
च
स्मरेत्तां
बगलामुखीम्
॥
15
॥
ब्रह्मास्त्रमिति
विख्यातं
त्रिषु
लोकेषु
विश्रुतं
।
गुरुभक्ताय
दातव्यं
नदेयं
यस्य
कस्यचित्
॥
16
॥
नित्यं
स्तोत्रमिदं
पवित्रमिह
यो
देव्याः
पठत्यादरात्
धृत्वायन्त्रमिदं
तथैव
समरे
बाहौ
करे
वा
गले
।
राजानोऽप्यरयो
मदान्धकरिणस्सर्पा
मृगेन्द्रादिकाः
ते
वै
यान्ति
विमोहिता
रिपुगणा
लक्ष्मीः
स्थिरास्सिद्धयः
॥
17
॥
इति
श्री
रुद्रयामले
तन्त्रे
श्री
बगलामुखी
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits