हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अन्नपूर्णा सहस्र नामावलिः
ओं अन्नपूर्णायै नमः ।
ओं अन्नदात्र्यै नमः ।
ओं अन्नराशिकृताऽलयायै नमः ।
ओं अन्नदायै नमः ।
ओं अन्नरूपायै नमः ।
ओं अन्नदानरतोत्सवायै नमः ।
ओं अनन्तायै नमः ।
ओं अनन्ताक्ष्यै नमः ।
ओं अनन्तगुणशालिन्यै नमः ।
ओं अमृतायै नमः ।
ओं अच्युतप्राणायै नमः ।
ओं अच्युतानन्दकारिणै नमः ।
ओं अव्यक्तायै नमः ।
ओं अनन्तमहिमायै नमः ।
ओं अनन्तस्य कुलेश्वर्यै नमः ।
ओं अब्धिस्थायै नमः ।
ओं अब्धिशयनायै नमः ।
ओं अब्धिजायै नमः ।
ओं अब्धिनन्दिन्यै नमः ।
ओं अब्जस्थायै नमः । 20
ओं अब्जनिलयायै नमः ।
ओं अब्जजायै नमः ।
ओं अब्जभूषणायै नमः ।
ओं अब्जाभायै नमः ।
ओं अब्जहस्तायै नमः ।
ओं अब्जपत्रशुभेक्षणायै नमः ।
ओं अब्जासनायै नमः ।
ओं अनन्तात्ममायै नमः ।
ओं अग्निस्थायै नमः ।
ओं अग्निरूपिण्यै नमः ।
ओं अग्निजायायै नमः ।
ओं अग्निमुख्यै नमः ।
ओं अग्निकुण्डकृतालयायै नमः ।
ओं अकारायै नमः ।
ओं अग्निमात्रे नमः ।
ओं अजयायै नमः ।
ओं अदितिनन्दिन्यै नमः ।
ओं आद्यायै नमः ।
ओं आदित्यसङ्काशायै नमः ।
ओं आत्मज्ञायै नमः । 40
ओं आत्मगोचरायै नमः ।
ओं आत्मसुवे नमः ।
ओं आत्मदयितायै नमः ।
ओं आधारायै नमः ।
ओं आत्मरूपिण्यै नमः ।
ओं आशायै नमः ।
ओं आकाशपद्मस्थायै नमः ।
ओं अवकाशस्वरूपिण्यै नमः ।
ओं आशापूर्यै नमः ।
ओं अगाधायै नमः ।
ओं अणिमादिसुसेवितायै नमः ।
ओं अम्बिकायै नमः ।
ओं अबलायै नमः ।
ओं अम्बायै नमः ।
ओं अनाद्यायै नमः ।
ओं अयोनिजायै नमः ।
ओं अनिशायै नमः ।
ओं ईशिकायै नमः ।
ओं ईशायै नमः ।
ओं ईशान्यै नमः । 60
ओं ईश्वरप्रियायै नमः ।
ओं ईश्वर्यै नमः ।
ओं ईश्वरप्राणायै नमः ।
ओं ईश्वरानन्ददायिन्यै नमः ।
ओं इन्द्राण्यै नमः ।
ओं इन्द्रदयितायै नमः ।
ओं इन्द्रसुअवे नमः ।
ओं इन्द्रपालिन्यै नमः ।
ओं इन्दिरायै नमः ।
ओं इन्द्रभगिन्यै नमः ।
ओं इन्द्रियायै नमः ।
ओं इन्दुभूषणायै नमः ।
ओं इन्दुमात्रायै नमः ।
ओं इन्दुमुख्यै नमः ।
ओं इन्द्रियाणां वशङ्कर्यै नमः ।
ओं उमायै नमः ।
ओं उमापतेः प्राणायै नमः ।
ओं ओड्याणपीठवासिन्यै नमः ।
ओं उत्तरज्ञायै नमः ।
ओं उत्तराख्यायै नमः । 80
ओं उकारायै नमः ।
ओं उत्तरात्मिकायै नमः ।
ओं ऋमात्रे नमः ।
ओं ऋभवायै नमः ।
ओं ऋस्थायै नमः ।
ओं ऋकारस्वरूपिण्यै नमः ।
ओं ऋकारायै नमः ।
ओं ऌकारायै नमः ।
ओं ऌकारप्रीतिदायिन्यै नमः ।
ओं एकायै नमः ।
ओं एकवीरायै नमः ।
ओं ऐकाररूपिण्यै नमः ।
ओं ओकार्यै नमः ।
ओं ओघरूपायै नमः ।
ओं ओघत्रयसुपूजितायै नमः ।
ओं ओघस्थायै नमः ।
ओं ओघसम्भूतायै नमः ।
ओं ओघदात्र्यै नमः ।
ओं ओघसुवे नमः ।
ओं षोडशस्वरसम्भूतायै नमः । 100
ओं षोडशस्वररूपिण्यै नमः ।
ओं वर्णात्मायै नमः ।
ओं वर्णनिलयायै नमः ।
ओं शूलिन्यै नमः ।
ओं वर्णमालिन्यै नमः ।
ओं कालरात्र्यै नमः ।
ओं महारात्र्यै नमः ।
ओं मोहरात्र्यै नमः ।
ओं सुलोचनायै नमः ।
ओं काल्यै नमः ।
ओं कपालिन्यै नमः ।
ओं कृत्यायै नमः ।
ओं कलिकायै नमः ।
ओं सिंहगामिन्यै नमः ।
ओं कात्यायन्यै नमः ।
ओं कलाधारायै नमः ।
ओं कालदैत्यनिकृन्तिन्यै नमः ।
ओं कामिन्यै नमः ।
ओं कामवन्द्यायै नमः ।
ओं कमनीयायै नमः । 120
ओं विनोदिन्यै नमः ।
ओं कामसुवे नमः ।
ओं कामवनितायै नमः ।
ओं कामधुरे नमः ।
ओं कमलावत्यै नमः ।
ओं कामायै नमः ।
ओं कराल्यै नमः ।
ओं कामकेलिविनोदिन्यै नमः ।
ओं कामनायै नमः ।
ओं कामदायै नमः ।
ओं काम्यायै नमः ।
ओं कमलायै नमः ।
ओं कमलार्चितायै नमः ।
ओं काश्मीरलिप्तवक्षोजायै नमः ।
ओं काश्मीरद्रवचर्चितायै नमः ।
ओं कनकायै नमः ।
ओं कनकप्राणायै नमः ।
ओं कनकाचलवासिन्यै नमः ।
ओं कनकाभायै नमः ।
ओं काननस्थायै नमः । 140
ओं कामाख्यायै नमः ।
ओं कनकप्रदायै नमः ।
ओं कामपीठस्थितायै नमः ।
ओं नित्यायै नमः ।
ओं कामधामनिवासिन्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं करालाक्ष्यै नमः ।
ओं किशोर्यै नमः ।
ओं चलनादिन्यै नमः ।
ओं कलायै नमः ।
ओं काष्ठायै नमः ।
ओं निमेषायै नमः ।
ओं कालस्थायै नमः ।
ओं कालरूपिण्यै नमः ।
ओं कालज्ञायै नमः ।
ओं कालमात्रायै नमः ।
ओं कालधात्र्यै नमः ।
ओं कलावत्यै नमः ।
ओं कालदायै नमः ।
ओं कालहायै नमः । 160
ओं कुल्यायै नमः ।
ओं कुरुकुल्लायै नमः ।
ओं कुलाङ्गनायै नमः ।
ओं कीर्तिदायै नमः ।
ओं कीर्तिहायै नमः ।
ओं कीर्त्यै नमः ।
ओं कीर्तिस्थायै नमः ।
ओं कीर्त्तिवर्धिन्यै नमः ।
ओं कीर्त्तिज्ञायै नमः ।
ओं कीर्त्तितपदायै नमः ।
ओं कृत्तिकायै नमः ।
ओं केशवप्रियायै नमः ।
ओं केशिहायै नमः ।
ओं केलिकायै नमः ।
ओं केशवानन्दकारिण्यै नमः ।
ओं कुमुदाभायै नमः ।
ओं कुमार्यै नमः ।
ओं कर्मदायै नमः ।
ओं कमलेक्षणायै नमः ।
ओं कौमुद्यै नमः । 180
ओं कुमुदानन्दायै नमः ।
ओं कालिक्यै नमः ।
ओं कुमुद्वत्यै नमः ।
ओं कोदण्डधारिण्यै नमः ।
ओं क्रोधायै नमः ।
ओं कूटस्थायै नमः ।
ओं कोटराश्रयायै नमः ।
ओं कलकण्ठ्यै नमः ।
ओं करलाङ्ग्यै नमः ।
ओं कालाङ्ग्यै नमः ।
ओं कालभूषणायै नमः ।
ओं कङ्काल्यै नमः ।
ओं कामदामायै नमः ।
ओं कङ्कालकृतभूषणायै नमः ।
ओं कपालकर्तृककरायै नमः ।
ओं करवीरस्वरूपिण्यै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कोमलाङ्ग्यै नमः ।
ओं कृपासिन्धवे नमः ।
ओं कृपामय्यै नमः । 200
ओं कुशावत्यै नमः ।
ओं कुण्डसंस्थायै नमः ।
ओं कौवेर्यै नमः ।
ओं कौशिक्यै नमः ।
ओं काश्यप्यै नमः ।
ओं कद्रुतनयायै नमः ।
ओं कलिकल्मषनाशिन्यै नमः ।
ओं कञ्जज्ञायै नमः ।
ओं कञ्जवदनायै नमः ।
ओं कञ्जकिञ्जल्कचर्चितायै नमः ।
ओं कञ्जाभायै नमः ।
ओं कञ्जमध्यस्थायै नमः ।
ओं कञ्जनेत्रायै नमः ।
ओं कचोद्भवायै नमः ।
ओं कामरूपायै नमः ।
ओं ह्रींकार्यै नमः ।
ओं कश्यपान्वयवर्धिन्यै नमः ।
ओं खर्वायै नमः ।
ओं खञ्जनद्वन्द्वलोचनायै नमः ।
ओं खर्ववाहिन्यै नमः । 220
ओं खड्गिन्यै नमः ।
ओं खड्गहस्तायै नमः ।
ओं खेचर्यै नमः ।
ओं खड्गरूपिण्यै नमः ।
ओं खगस्थायै नमः ।
ओं खगरूपायै नमः ।
ओं खगगायै नमः ।
ओं खगसम्भवायै नमः ।
ओं खगधात्र्यै नमः ।
ओं खगानन्दायै नमः ।
ओं खगयोनिस्वरूपिण्यै नमः ।
ओं खगेश्यै नमः ।
ओं खेटककरायै नमः ।
ओं खगानन्दविवर्धिन्यै नमः ।
ओं खगमान्यायै नमः ।
ओं खगाधारायै नमः ।
ओं खगगर्वविमोचिन्यै नमः ।
ओं गङ्गायै नमः ।
ओं गोदावर्यै नमः ।
ओं गीत्यै नमः । 240
ओं गायत्र्यै नमः ।
ओं गगनालयायै नमः ।
ओं गीर्वाणसुन्दर्यै नमः ।
ओं गवे नमः ।
ओं गाधायै नमः ।
ओं गीर्वाणपूजितायै नमः ।
ओं गीर्वाणचर्चितपदायै नमः ।
ओं गान्धार्यै नमः ।
ओं गोमत्यै नमः ।
ओं गर्विण्यै नमः ।
ओं गर्वहन्त्र्यै नमः ।
ओं गर्भस्थायै नमः ।
ओं गर्भधारिण्यै नमः ।
ओं गर्भदायै नमः ।
ओं गर्भहन्त्र्यै नमः ।
ओं गन्धर्वकुलपूजितायै नमः ।
ओं गयायै नमः ।
ओं गौर्यै नमः ।
ओं गिरिजायै नमः ।
ओं गिरिस्थायै नमः । 260
ओं गिरिसम्भवायै नमः ।
ओं गिरिगह्वरमध्यस्थायै नमः ।
ओं कुञ्जरेश्वरगामिन्यै नमः ।
ओं किरीटिन्यै नमः ।
ओं गदिन्यै नमः ।
ओं गुञ्जाहारविभूषणायै नमः ।
ओं गणपायै नमः ।
ओं गणकायै नमः ।
ओं गुण्यायै नमः ।
ओं गुणकानन्दकारिण्यै नमः ।
ओं गुणपूज्यायै नमः ।
ओं गीर्वाणायै नमः ।
ओं गणपानन्दविवर्धिन्यै नमः ।
ओं गुरुरमात्रायै नमः ।
ओं गुरुरतायै नमः ।
ओं गुरुभक्तिपरायणायै नमः ।
ओं गोत्रायै नमः ।
ओं गवे नमः ।
ओं कृष्णभगिन्यै नमः ।
ओं कृष्णसुवे नमः । 280
ओं कृष्णनन्दिन्यै नमः ।
ओं गोवर्धन्यै नमः ।
ओं गोत्रधरायै नमः ।
ओं गोवर्धनकृतालयायै नमः ।
ओं गोवर्धनधरायै नमः ।
ओं गोदायै नमः ।
ओं गौराङ्ग्यै नमः ।
ओं गौतमात्मजायै नमः ।
ओं घर्घरायै नमः ।
ओं घोररूपायै नमः ।
ओं घोरायै नमः ।
ओं घर्घरनादिन्यै नमः ।
ओं श्यामायै नमः ।
ओं घनरवायै नमः ।
ओं अघोरायै नमः ।
ओं घनायै नमः ।
ओं घोरार्त्तिनाशिन्यै नमः ।
ओं घनस्थायै नमः ।
ओं घनानन्दायै नमः ।
ओं दारिद्र्यघननाशिन्यै नमः । 300
ओं चित्तज्ञायै नमः ।
ओं चिन्तितपदायै नमः ।
ओं चित्तस्थायै नमः ।
ओं चित्तरूपिण्यै नमः ।
ओं चक्रिण्यै नमः ।
ओं चारुचम्पाभायै नमः ।
ओं चारुचम्पकमालिन्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं चन्द्रकान्त्यै नमः ।
ओं चापिन्यै नमः ।
ओं चन्द्रशेखरायै नमः ।
ओं चण्डिकायै नमः ।
ओं चण्डदैत्यघन्यै नमः ।
ओं चन्द्रशेखरवल्लभायै नमः ।
ओं चाण्डालिन्यै नमः ।
ओं चामुण्डायै नमः ।
ओं चण्डमुण्डवधोद्यतायै नमः ।
ओं चैतन्यभैरव्यै नमः ।
ओं चण्डायै नमः ।
ओं चैतन्यघनगेहिन्यै नमः । 320
ओं चित्स्वरूपायै नमः ।
ओं चिदाधारायै नमः ।
ओं चण्डवेगायै नमः ।
ओं चिदालयायै नमः ।
ओं चन्द्रमण्डलमध्यस्थायै नमः ।
ओं चन्द्रकोटिसुशीलतायै नमः ।
ओं चपलायै नमः ।
ओं चन्द्रभगिन्यै नमः ।
ओं चन्द्रकोटिनिभाननायै नमः ।
ओं चिन्तामणिगुणाधारायै नमः ।
ओं चिन्तामणिविभूषणायै नमः ।
ओं चित्तचिन्तामणिकृतालयायै नमः ।
ओं चिन्तामणिकृतालयायै नमः ।
ओं चारुचन्दनलिप्ताङ्ग्यै नमः ।
ओं चतुरायै नमः ।
ओं चतुर्मुख्यै नमः ।
ओं चैतन्यदायै नमः ।
ओं चिदानन्दायै नमः ।
ओं चारुचामरवीजितायै नमः ।
ओं छत्रदायै नमः । 340
ओं छत्रधार्यै नमः ।
ओं छलच्चद्मविनाशिन्यै नमः ।
ओं छत्रहायै नमः ।
ओं छत्ररूपायै नमः ।
ओं छत्रच्छायाकृतालयायै नमः ।
ओं जगज्जीवायै नमः ।
ओं जगद्धात्त्र्यै नमः ।
ओं जगदानन्दकारिण्यै नमः ।
ओं यज्ञप्रियायै नमः ।
ओं यज्ञरतायै नमः ।
ओं जपयज्ञपरायणायै नमः ।
ओं जनन्यै नमः ।
ओं जानक्यै नमः ।
ओं यज्वायै नमः ।
ओं यज्ञहायै नमः ।
ओं यज्ञनन्दिन्यै नमः ।
ओं यज्ञदायै नमः ।
ओं यज्ञफलदायै नमः ।
ओं यज्ञस्थानकृतालयायै नमः ।
ओं यज्ञभोक्त्यै नमः । 360
ओं यज्ञरूपायै नमः ।
ओं यज्ञविघ्नविनाशिन्यै नमः ।
ओं जपाकुसुमसङ्काशायै नमः ।
ओं जपाकुसुमशोभितायै नमः ।
ओं जालन्धर्यै नमः ।
ओं जयायै नमः ।
ओं जैत्र्यै नमः ।
ओं जीमूतचयभाषिणै नमः ।
ओं जयदायै नमः ।
ओं जयरूपायै नमः ।
ओं जयस्थायै नमः ।
ओं जयकारिण्यै नमः ।
ओं जगदीशप्रियायै नमः ।
ओं जीवायै नमः ।
ओं जलस्थायै नमः ।
ओं जलजेक्षणायै नमः ।
ओं जलरूपायै नमः ।
ओं जह्नुकन्यायै नमः ।
ओं यमुनायै नमः ।
ओं जलजोदर्यै नमः । 380
ओं जलजास्यायै नमः ।
ओं जाह्नव्यै नमः ।
ओं जलजाभायै नमः ।
ओं जलोदर्यै नमः ।
ओं यदुवंशीद्भवायै नमः ।
ओं जीवायै नमः ।
ओं यादवानन्दकारिण्यै नमः ।
ओं यशोदायै नमः ।
ओं यशसांराश्यै नमः ।
ओं यशोदानन्दकारिण्यै नमः ।
ओं ज्वलिन्यै नमः ।
ओं ज्वालिन्यै नमः ।
ओं ज्वालायै नमः ।
ओं ज्वलत्पावकसन्निभायै नमः ।
ओं ज्वालामुख्यै नमः ।
ओं जगन्मात्रे नमः ।
ओं यमलार्जुनभञ्जकायै नमः ।
ओं जन्मदायै नमः ।
ओं जन्मह्यै नमः ।
ओं जन्यायै नमः । 400
ओं जन्मभुवे नमः ।
ओं जनकात्मजायै नमः ।
ओं जनानन्दायै नमः ।
ओं जाम्बवत्यै नमः ।
ओं जम्बूद्वीपकृतालयायै नमः ।
ओं जाम्बूनदसमानाभायै नमः ।
ओं जाम्बूनदविभूषणायै नमः ।
ओं जम्भहायै नमः ।
ओं जातिदायै नमः ।
ओं जात्यै नमः ।
ओं ज्ञानदायै नमः ।
ओं ज्ञानगोचरायै नमः ।
ओं ज्ञानभायै नमः ।
ओं ज्ञानरूपायै नमः ।
ओं ज्ञानविज्ञानशालिन्यै नमः ।
ओं जिनजैत्र्यै नमः ।
ओं जिनाधारायै नमः ।
ओं जिनमात्रे नमः ।
ओं जिनेश्वर्यै नमः ।
ओं जितेन्द्रियायै नमः । 420
ओं जनाधारायै नमः ।
ओं अजिनाम्बरधारिण्यै नमः ।
ओं शम्भुकोटिदुराधरायै नमः ।
ओं विष्णुकोटिविमर्दिन्यै नमः ।
ओं समुद्रकोटिगम्भीरायै नमः ।
ओं वायुकोटिमहाबलायै नमः ।
ओं सूर्यकोटिप्रतीकाशायै नमः ।
ओं यमकोटिदुरापहायै नमः ।
ओं कामधुक्कोटिफलदायै नमः ।
ओं शक्रकोटिसुराज्यदायै नमः ।
ओं कन्दर्पकोटिलावण्यायै नमः ।
ओं पद्मकोटिनिभाननायै नमः ।
ओं पृथ्वीकोटिजनाधारायै नमः ।
ओं अग्निकोटिभयङ्कर्यै नमः ।
ओं अणिमायै नमः ।
ओं महिमायै नमः ।
ओं प्राप्त्यै नमः ।
ओं गरिमायै नमः ।
ओं लघिमायै नमः ।
ओं प्राकाम्यदायै नमः । 440
ओं वशङ्कर्यै नमः ।
ओं ईशिकायै नमः ।
ओं सिद्धिदायै नमः ।
ओं महिमादिगुणोपेतायै नमः ।
ओं अणिमाद्यष्टसिद्धिदायै नमः ।
ओं जवनघ्न्यै नमः ।
ओं जनाधीनायै नमः ।
ओं जामिन्यै नमः ।
ओं जरापहायै नमः ।
ओं तारिणै नमः ।
ओं तारिकायै नमः ।
ओं तारायै नमः ।
ओं तोतलायै नमः ।
ओं तुलसीप्रियायै नमः ।
ओं तन्त्रिण्यै नमः ।
ओं तन्त्ररूपायै नमः ।
ओं तन्त्रज्ञायै नमः ।
ओं तन्त्रधारिण्यै नमः ।
ओं तारहारायै नमः ।
ओं तुलजायै नमः । 460
ओं डाकिनीतन्त्रगोचरायै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिदशायै नमः ।
ओं त्रिस्थायै नमः ।
ओं त्रिपुरासुरघातिन्यै नमः ।
ओं त्रिगुणायै नमः ।
ओं त्रिकोणस्थायै नमः ।
ओं त्रिमात्रायै नमः ।
ओं त्रितसुस्थितायै नमः ।
ओं त्रैविद्यायै नमः ।
ओं त्रय्यै नमः ।
ओं त्रिघ्न्यै नमः ।
ओं तुरीयायै नमः ।
ओं त्रिपुरेश्वर्यै नमः ।
ओं त्रिकोदरस्थायै नमः ।
ओं त्रिविधायै नमः ।
ओं तैलोक्यायै नमः ।
ओं त्रिपुरात्मिकायै नमः ।
ओं त्रिधाम्न्यै नमः ।
ओं त्रिदशाराध्यायै नमः । 480
ओं त्र्यक्षायै नमः ।
ओं त्रिपुरवासिन्यै नमः ।
ओं त्रिवर्णायै नमः ।
ओं त्रिपद्यै नमः ।
ओं तारायै नमः ।
ओं त्रिमूर्तिजनन्यै नमः ।
ओं इत्वरायै नमः ।
ओं त्रिदिवायै नमः ।
ओं त्रिदिवेशायै नमः ।
ओं आदिदेव्यै नमः ।
ओं त्रैलोक्यधारिणै नमः ।
ओं त्रिमूर्त्यै नमः ।
ओं त्रिजनन्यै नमः ।
ओं त्रिभुवे नमः ।
ओं त्रिपुरसुन्दर्यै नमः ।
ओं तपस्विन्यै नमः ।
ओं तपोनिष्ठायै नमः ।
ओं तरुण्यै नमः ।
ओं ताररूपिण्यै नमः ।
ओं तामस्यै नमः । 500
ओं तापस्यै नमः ।
ओं तापघ्न्यै नमः ।
ओं तमोपहायै नमः ।
ओं तरुणार्कप्रतीकाशायै नमः ।
ओं तप्तकाञ्चनसन्निभायै नमः ।
ओं उन्मादिन्यै नमः ।
ओं तन्तुरूपायै नमः ।
ओं त्रैलोक्यव्यापिकायै नमः ।
ओं ईश्वरै नमः ।
ओं तार्किक्यै नमः ।
ओं तर्क विद्यायै नमः ।
ओं तापत्रयविनाशिन्यै नमः ।
ओं त्रिपुष्करायै नमः ।
ओं त्रिकालज्ञायै नमः ।
ओं त्रिसन्ध्यायै नमः ।
ओं त्रिलोचनायै नमः ।
ओं त्रिवर्गायै नमः ।
ओं त्रिवर्गस्थायै नमः ।
ओं तपस्सिद्धिदायिन्यै नमः ।
ओं अधोक्षजायै नमः । 520
ओं अयोध्यायै नमः ।
ओं अपर्णायै नमः ।
ओं अवन्तिकायै नमः ।
ओं कारिकायै नमः ।
ओं तीर्थरूपायै नमः ।
ओं तीर्थायै नमः ।
ओं तीर्थकर्यै नमः ।
ओं दारिद्र्यदुःखदलिन्यै नमः ।
ओं अदीनायै नमः ।
ओं दीनवत्सलायै नमः ।
ओं दीनानाथप्रियायै नमः ।
ओं दीर्घायै नमः ।
ओं दयापूर्णायै नमः ।
ओं दयात्मिकायै नमः ।
ओं देवदानवसम्पूज्यायै नमः ।
ओं देवानां प्रियकारिण्यै नमः ।
ओं दक्षपुत्रै नमः ।
ओं दक्षमात्रे नमः ।
ओं दक्षयज्ञविनाशिन्यै नमः ।
ओं देवसुवे नमः । 540
ओं दक्षिणायै नमः ।
ओं दक्षायै नमः ।
ओं दुर्गायै नमः ।
ओं दुर्गतिनाशिन्यै नमः ।
ओं देवकीगर्भसम्भूतायै नमः ।
ओं दुर्गदैत्यविनाशिन्यै नमः ।
ओं अट्टायै नमः ।
ओं अट्टहासिन्यै नमः ।
ओं दोलायै नमः ।
ओं दोलाकर्माभिनन्दिन्यै नमः ।
ओं देवक्यै नमः ।
ओं देविकायै नमः ।
ओं देव्यै नमः ।
ओं दुरितघ्न्यै नमः ।
ओं तड्यै नमः ।
ओं गण्डक्यै नमः ।
ओं गल्लक्यै नमः ।
ओं क्षिप्रायै नमः ।
ओं द्वारकायै नमः ।
ओं द्वारवत्यै नमः । 560
ओं अनन्दोदधिमध्यस्थायै नमः ।
ओं कटिसूत्रैरलङ्कतायै नमः ।
ओं घोराग्निदाहदमन्यै नमः ।
ओं दुःखदुस्वप्ननाशिन्यै नमः ।
ओं श्रीमय्यै नमः ।
ओं श्रीमत्यै नमः ।
ओं श्रेष्ठायै नमः ।
ओं श्रीकर्यै नमः ।
ओं श्रीविभाविन्यै नमः ।
ओं श्रीदायै नमः ।
ओं श्रीमायै नमः ।
ओं श्रीनिवासायै नमः ।
ओं श्रीमत्यै नमः ।
ओं श्रियै नमः ।
ओं गत्ये नमः ।
ओं धनदायै नमः ।
ओं दामिन्यै नमः ।
ओं दान्तायै नमः ।
ओं धर्मदायै नमः ।
ओं धनशालिन्यै नमः । 580
ओं दाडिमीपुष्पसङ्काशायै नमः ।
ओं धनागारायै नमः ।
ओं धनञ्जय्यै नमः ।
ओं धूम्राभायै नमः ।
ओं धूम्रदैत्यघ्न्यै नमः ।
ओं धवलायै नमः ।
ओं धवलप्रियायै नमः ।
ओं धूम्रवक्रायै नमः ।
ओं धूम्रनेत्रायै नमः ।
ओं धूम्रकेश्यै नमः ।
ओं धूसरायै नमः ।
ओं धरण्यै नमः ।
ओं धारिण्यै नमः ।
ओं धैर्यायै नमः ।
ओं धरायै नमः ।
ओं धात्र्यै नमः ।
ओं धैर्यदायै नमः ।
ओं दमिन्यै नमः ।
ओं धर्मिण्यै नमः ।
ओं धुरे नमः । 600
ओं दयायै नमः ।
ओं दोग्धयै नमः ।
ओं दुरासद्दायै नमः ।
ओं नारायण्यै नमः ।
ओं नारसिंह्यै नमः ।
ओं नृसिंहहृदयालयायै नमः ।
ओं नागिन्यै नमः ।
ओं नागकन्यायै नमः ।
ओं नागसुवे नमः ।
ओं नागनायिकायै नमः ।
ओं नानारत्नविचित्राङ्ग्यै नमः ।
ओं नानाभरणमण्डितायै नमः ।
ओं दुर्गस्थायै नमः ।
ओं दुर्गरूपायै नमः ।
ओं दुःखदुष्कृतनाशिन्यै नमः ।
ओं ह्रीङ्कार्यै नमः ।
ओं श्रीकार्यै नमः ।
ओं हुँकार्यै नमः ।
ओं क्लेशनाशिन्यै नमः ।
ओं नागात्मजायै नमः । 620
ओं नागर्यै नमः ।
ओं नवीनायै नमः ।
ओं नूतनप्रियायै नमः ।
ओं नीरजास्यायै नमः ।
ओं नीरदाभायै नमः ।
ओं नवलावण्यसुन्दर्यै नमः ।
ओं नीतिज्ञायै नमः ।
ओं नीतिदायै नमः ।
ओं नीत्यै नमः ।
ओं निम्मनाभ्यै नमः ।
ओं नागेश्वर्यै नमः ।
ओं निष्ठायै नमः ।
ओं नित्यायै नमः ।
ओं निरातङ्कायै नमः ।
ओं नागयज्ञोपवीतिन्यै नमः ।
ओं निधिदायै नमः ।
ओं निधिरूपायै नमः ।
ओं निर्गुणायै नमः ।
ओं नरवाहिन्यै नमः ।
ओं नरमांसरतायै नमः । 640
ओं नार्यै नमः ।
ओं नरमुण्डविभूषणायै नमः ।
ओं निराधारायै नमः ।
ओं निर्विकारायै नमः ।
ओं नुत्यै नमः ।
ओं निर्वाणसुन्दर्यै नमः ।
ओं नरासृक्पानमत्तायै नमः ।
ओं निर्वैरायै नमः ।
ओं नागगामिन्यै नमः ।
ओं परमायै नमः ।
ओं प्रमितायै नमः ।
ओं प्राज्ञायै नमः ।
ओं पार्वत्यै नमः ।
ओं पर्वतात्मजायै नमः ।
ओं पर्वप्रियायै नमः ।
ओं पर्वरतायै नमः ।
ओं पर्वणे नमः ।
ओं पर्वपावनपालिन्यै नमः ।
ओं परात्परतरायै नमः ।
ओं पूर्वायै नमः । 660
ओं पश्चिमायै नमः ।
ओं पापनाशिन्यै नमः ।
ओं पशूनां पतिपत्नयै नमः ।
ओं पतिभक्तिपरायण्यै नमः ।
ओं परेश्यै नमः ।
ओं पारगायै नमः ।
ओं पारायै नमः ।
ओं परञ्ज्योतिस्वरूपिण्यै नमः ।
ओं निष्ठुरायै नमः ।
ओं क्रूरहृदयायै नमः ।
ओं परासिद्धये नमः ।
ओं परागत्यै नमः ।
ओं पशुघ्न्यै नमः ।
ओं पशुरूपायै नमः ।
ओं पशुहायै नमः ।
ओं पशुवाहिन्यै नमः ।
ओं पित्रे नमः ।
ओं मात्रे नमः ।
ओं यन्त्र्यै नमः ।
ओं पशुपाशविनाशिन्यै नमः । 680
ओं पद्मिन्यै नमः ।
ओं पद्महस्तायै नमः ।
ओं पद्मकिञ्जल्कवासिन्यै नमः ।
ओं पद्मवक्रायै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मस्थायै नमः ।
ओं पद्मसम्भवायै नमः ।
ओं पद्मास्यायै नमः ।
ओं पञ्चम्यै नमः ।
ओं पूर्णायै नमः ।
ओं पूर्णपीठनिवासिन्यै नमः ।
ओं पद्मरागप्रतीकाशायै नमः ।
ओं पाञ्चाल्यै नमः ।
ओं पञ्चमप्रियायै नमः ।
ओं परब्रह्मस्वरूपायै नमः ।
ओं परब्रह्मनिवासिन्यै नमः ।
ओं परमानन्दमुदितायै नमः ।
ओं परचक्रनिवाशिन्यै नमः ।
ओं परेश्यै नमः ।
ओं परमायै नमः । 700
ओं पृथ्व्यै नमः ।
ओं पीनतुङ्गपयोधरायै नमः ।
ओं परावरायै नमः ।
ओं परायै नमः ।
ओं विद्यायै नमः ।
ओं परमानन्ददायिन्यै नमः ।
ओं पूज्यायै नमः ।
ओं प्रजावत्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं पिनाकिपरिकीर्तितायै नमः ।
ओं प्राणहायै नमः ।
ओं प्राणरूपायै नमः ।
ओं प्राणदायै नमः ।
ओं प्रियंवदायै नमः ।
ओं फणिभूषायै नमः ।
ओं फणापेश्यै नमः ।
ओं फकाराकुण्ठमालिन्यै नमः ।
ओं फणिराट्कृतसर्वाङ्ग्यै नमः ।
ओं फलिभागनिवासिन्यै नमः ।
ओं बलभद्रस्यभगिन्यै नमः । 720
ओं बालायै नमः ।
ओं बालप्रदायिन्यै नमः ।
ओं फल्गुरूपायै नमः ।
ओं प्रलम्बघ्न्यै नमः ।
ओं फल्गूत्सवविनोदिन्यै नमः ।
ओं भवान्यै नमः ।
ओं भवपत्न्यै नमः ।
ओं भवभीतिहरायै नमः ।
ओं भवायै नमः ।
ओं भवेश्वर्यै नमः ।
ओं भवाराध्यायै नमः ।
ओं भवेश्यै नमः ।
ओं भवनायिकायै नमः ।
ओं भवमात्रे नमः ।
ओं भवागम्यायै नमः ।
ओं भवकण्टकनाशिन्यै नमः ।
ओं भवप्रियायै नमः ।
ओं भवानन्दायै नमः ।
ओं भव्यायै नमः ।
ओं भवमोचिन्यै नमः । 740
ओं भावनीयायै नमः ।
ओं भगवत्यै नमः ।
ओं भवभारविनाशिन्यै नमः ।
ओं भूतधात्र्यै नमः ।
ओं भूतेश्यै नमः ।
ओं भूतस्थायै नमः ।
ओं भूतरूपिण्यै नमः ।
ओं भूतमात्रे नमः ।
ओं भूतघ्न्यै नमः ।
ओं भूतपञ्चकवासिन्यै नमः ।
ओं भोगोपचारकुशलायै नमः ।
ओं भिस्साधात्र्यै नमः ।
ओं भूचर्यै नमः ।
ओं भीतिघ्न्यै नमः ।
ओं भक्तिगम्यायै नमः ।
ओं भक्तानामार्तिनाशिन्यै नमः ।
ओं भक्तानुकम्पिन्यै नमः ।
ओं भीमायै नमः ।
ओं भगिन्यै नमः ।
ओं भगनायिकायै नमः । 760
ओं भगविद्यायै नमः ।
ओं भगक्लिनायै नमः ।
ओं भगयोन्यै नमः ।
ओं भगप्रदायै नमः ।
ओं भगेश्यै नमः ।
ओं भगरूपायै नमः ।
ओं भगगुह्यायै नमः ।
ओं भगावहायै नमः ।
ओं भगोदर्यै नमः ।
ओं भगानन्दायै नमः ।
ओं भाग्यदायै नमः ।
ओं भगमालिन्यै नमः ।
ओं भोगप्रदायै नमः ।
ओं भोगवासायै नमः ।
ओं भोगमूलायै नमः ।
ओं भोगिन्यै नमः ।
ओं खेरुऋहयै नमः ।
ओं भेरुण्डायै नमः ।
ओं भेदिन्यै नमः ।
ओं भीमायै नमः । 780
ओं भद्रकाल्यै नमः ।
ओं भिदोज्झितायै नमः ।
ओं भैरव्यै नमः ।
ओं भुवनेशान्यै नमः ।
ओं भुवनायै नमः ।
ओं भुवनेश्वर्यै नमः ।
ओं भीमाक्ष्यै नमः ।
ओं भारत्यै नमः ।
ओं भैरवाष्टकसेवितायै नमः ।
ओं भास्वरायै नमः ।
ओं भास्वत्यै नमः ।
ओं भीत्यै नमः ।
ओं भास्वदुत्तानशालिन्यै नमः ।
ओं भागीरथ्यै नमः ।
ओं भोगवत्यै नमः ।
ओं भवघ्न्यै नमः ।
ओं भुवनात्मिकायै नमः ।
ओं भूतिदायै नमः ।
ओं भूतिरूपायै नमः ।
ओं भूतस्थायै नमः । 800
ओं भूतवर्धिन्यै नमः ।
ओं माहेश्वर्यै नमः ।
ओं महामायायै नमः ।
ओं महातेजसे नमः ।
ओं महासुर्यै नमः ।
ओं महाजिह्वायै नमः ।
ओं महालोलायै नमः ।
ओं महादंष्ट्रायै नमः ।
ओं महाभुजायै नमः ।
ओं महामोहान्धकारघ्न्यै नमः ।
ओं महामोक्षप्रदायिन्यै नमः ।
ओं महादारिद्र्यशमन्यै नमः ।
ओं महाशत्रुविमर्दिन्यै नमः ।
ओं महाशक्त्यै नमः ।
ओं महाज्योतिषे नमः ।
ओं महासुरविमर्दिन्यै नमः ।
ओं महाकायायै नमः ।
ओं महावीर्यायै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं महारवायै नमः । 820
ओं मन्तमर्य्यै नमः ।
ओं मणिपूरनिवासिन्यै नमः ।
ओं मानिन्यै नमः ।
ओं मानदायै नमः ।
ओं मान्यायै नमः ।
ओं मनश्चक्षुरगोचरायै नमः ।
ओं माहेन्द्यै नमः ।
ओं मधुरायै नमः ।
ओं मायायै नमः ।
ओं महिषासुरमर्दिन्यै नमः ।
ओं महाकुण्डलिन्यै नमः ।
ओं शकयै नमः ।
ओं महाविभववर्धिन्यै नमः ।
ओं मानस्यै नमः ।
ओं माधव्यै नमः ।
ओं मेधायै नमः ।
ओं मतिदायै नमः ।
ओं मतिधारिण्यै नमः ।
ओं मेनकागर्भसम्भूतायै नमः ।
ओं मेनकाभगिन्यै नमः । 840
ओं मत्यै नमः ।
ओं महोदर्यै नमः ।
ओं मुक्तकेश्यै नमः ।
ओं मुक्तिकाम्यार्थसिद्धिदायै नमः ।
ओं माहेश्यै नमः ।
ओं महिषारुढायै नमः ।
ओं मधुदैत्यविमर्दिन्यै नमः ।
ओं महाव्रतायै नमः ।
ओं महामूर्धायै नमः ।
ओं महाभयविनाशिन्यै नमः ।
ओं मातङ्ग्यै नमः ।
ओं मत्तमातङ्ग्यै नमः ।
ओं मातङ्गकुलमण्डितायै नमः ।
ओं महाघोरायै नमः ।
ओं माननीयायै नमः ।
ओं मत्तमातङ्गगामिन्यै नमः ।
ओं मुक्ताहारलतोपेतायै नमः ।
ओं मदधूर्णितलोचनायै नमः ।
ओं महापराधाशिघ्न्यै नमः ।
ओं महाचोरभयापहायै नमः । 860
ओं महाचिन्त्यस्वरूपायै नमः ।
ओं मणिमन्त्रमहौषध्यै नमः ।
ओं मणिमण्डपमध्यस्थायै नमः ।
ओं मणिमालाविराजितायै नमः ।
ओं मन्त्रात्मिकायै नमः ।
ओं मन्त्रगम्यायै नमः ।
ओं मन्त्रमात्रे नमः ।
ओं सुमन्त्रिण्यै नमः ।
ओं मेरुमन्दरमध्यस्थायै नमः ।
ओं मकराकृतिकुण्डलायै नमः ।
ओं मन्थरायै नमः ।
ओं महासूक्ष्मायै नमः ।
ओं महादूत्यै नमः ।
ओं महेश्वर्यै नमः ।
ओं मालिन्यै नमः ।
ओं मानव्यै नमः ।
ओं माध्व्यै नमः ।
ओं मदरूपायै नमः ।
ओं मदोत्कटायै नमः ।
ओं मदिरायै नमः । 880
ओं मधुरायै नमः ।
ओं मोदिन्यै नमः ।
ओं महोक्षितायै नमः ।
ओं मङ्गलायै नमः ।
ओं मधुमय्यै नमः ।
ओं मधुपानपरायणायै नमः ।
ओं मनोरमायै नमः ।
ओं रमामात्रे नमः ।
ओं राजराजेश्वर्यै नमः ।
ओं रमायै नमः ।
ओं राजमान्यायै नमः ।
ओं राजपूज्यायै नमः ।
ओं रक्तोत्पलविभूषणायै नमः ।
ओं राजीवलोचनायै नमः ।
ओं रामायै नमः ।
ओं राधिकायै नमः ।
ओं रामवल्लभायै नमः ।
ओं शाकिन्यै नमः ।
ओं डाकिन्यै नमः ।
ओं लावण्याम्बुधिवीचिकायै नमः । 900
ओं रुद्राण्यै नमः ।
ओं रुद्ररूपायै नमः ।
ओं रौद्रायै नमः ।
ओं रुद्रार्तिनाशिन्यै नमः ।
ओं रक्तप्रियायै नमः ।
ओं रक्तवस्त्रायै नमः ।
ओं रक्ताक्ष्यै नमः ।
ओं रक्तलोचनायै नमः ।
ओं रक्तकेश्यै नमः ।
ओं रक्तदंष्ट्रायै नमः ।
ओं रक्तचन्दनचर्चितायै नमः ।
ओं रक्ताङ्ग्यै नमः ।
ओं रक्तभूषायै नमः ।
ओं रक्तबीजनिपातिन्यै नमः ।
ओं रागादिदोषरहितायै नमः ।
ओं रतिजायै नमः ।
ओं रतिदायिन्यै नमः ।
ओं विश्वेश्वर्यै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं विन्ध्यपीठनिवासिन्यै नमः । 920
ओं विश्वभुवे नमः ।
ओं वीरविद्यायै नमः ।
ओं वीरसुवे नमः ।
ओं वीरनन्दिन्यै नमः ।
ओं वीरेश्वर्यै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं विष्णुमायाविमोहिन्यै नमः ।
ओं विद्याव्यै नमः ।
ओं विष्णुरूपायै नमः ।
ओं विशालनयनोत्पलायै नमः ।
ओं विष्णुमात्रे नमः ।
ओं विश्वात्मने नमः ।
ओं विष्णुजायास्वरूपिण्यै नमः ।
ओं ब्रह्मेश्यै नमः ।
ओं ब्रह्मविद्यायै नमः ।
ओं ब्राह्म्यै नमः ।
ओं ब्रह्मण्यै नमः ।
ओं ब्रह्मऋषयै नमः ।
ओं ब्रह्मरूपिणै नमः ।
ओं द्वारकायै नमः । 940
ओं विश्ववन्द्यायै नमः ।
ओं विश्वपाशविमोचिन्यै नमः ।
ओं विश्वासकारिण्यै नमः ।
ओं विश्ववायै नमः ।
ओं विश्वशकीर्त्यै नमः ।
ओं विचक्षणायै नमः ।
ओं बाणचापधरायै नमः ।
ओं वीरायै नमः ।
ओं बिन्दुस्थायै नमः ।
ओं बिन्दुमालिन्यै नमः ।
ओं षट्चक्रभेदिन्यै नमः ।
ओं षोढायै नमः ।
ओं षोडशारनिवासिन्यै नमः ।
ओं शितिकण्ठप्रियायै नमः ।
ओं शान्तायै नमः ।
ओं वातरूपिणै नमः ।
ओं शाश्वत्यै नमः ।
ओं शम्भुवनितायै नमः ।
ओं शाम्भव्यै नमः ।
ओं शिवरूपिण्यै नमः । 960
ओं शिवमात्रे नमः ।
ओं शिवदायै नमः ।
ओं शिवायै नमः ।
ओं शिवहृदासनायै नमः ।
ओं शुक्लाम्बरायै नमः ।
ओं शीतलायै नमः ।
ओं शीलायै नमः ।
ओं शीलप्रदायिन्यै नमः ।
ओं शिशुप्रियायै नमः ।
ओं वैद्यविद्यायै नमः ।
ओं सालग्रामशिलायै नमः ।
ओं शुचये नमः ।
ओं हरिप्रियायै नमः ।
ओं हरमूर्त्यै नमः ।
ओं हरिनेत्रकृतालयायै नमः ।
ओं हरिवक्त्रोद्भवायै नमः ।
ओं हालायै नमः ।
ओं हरिवक्षस्थलस्थितायै नमः ।
ओं क्षेमङ्कर्यै नमः ।
ओं क्षित्यै नमः । 980
ओं क्षेत्रायै नमः ।
ओं क्षुधितस्य प्रपूरण्यै नमः ।
ओं वैश्यायै नमः ।
ओं क्षत्रियायै नमः ।
ओं शूद्र्यै नमः ।
ओं क्षत्रियाणां कुलेश्वर्यै नमः ।
ओं हरपत्न्यै नमः ।
ओं हराराध्यायै नमः ।
ओं हरसुवे नमः ।
ओं हररूपिण्यै नमः ।
ओं सर्वानन्दमय्यै नमः ।
ओं आनन्दमय्यै नमः ।
ओं सिद्धयै नमः ।
ओं सर्वरक्षास्वरूपिण्यै नमः ।
ओं सर्वदुष्टप्रशमन्यै नमः ।
ओं सर्वेप्सितफलप्रदायै नमः ।
ओं सर्वसिद्धेश्वराराध्यायै नमः ।
ओं ईश्वराध्यायै नमः ।
ओं सर्वमङ्गलमङ्गलायै नमः ।
ओं वाराह्यै नमः । 1000
ओं वरदायै नमः ।
ओं वन्द्यायै नमः ।
ओं विख्यातायै नमः ।
ओं विलपत्कचायै नमः ।
Recite with devotion and pure heart
Regular practice brings spiritual benefits