हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
अम्बा स्तवः
यामामनन्ति
मुनयः
प्रकृतिं
पुराणीं
विद्येति
यां
श्रुतिरहस्यविदो
वदन्ति
।
तामर्धपल्लवितशङ्कररूपमुद्रां
देवीमनन्यशरणः
शरणं
प्रपद्ये
॥
1
॥
अम्ब
स्तवेषु
तव
तावदकर्तृकाणि
कुण्ठीभवन्ति
वचसामपि
गुम्भनानि
।
डिम्भस्य
मे
स्तुतिरसावसमञ्जसापि
वात्सल्यनिघ्नहृदयां
भवतीं
धिनोतु
॥
2
॥
व्योमेति
बिन्दुरिति
नाद
इतीन्दुलेखा-
-रूपेति
वाग्भवतनूरिति
मातृकेति
।
निःस्यन्दमानसुखबोधसुधास्वरूपा
विद्योतसे
मनसि
भाग्यवतां
जनानाम्
॥
3
॥
आविर्भवत्पुलकसन्ततिभिः
शरीरै-
-र्निःस्यन्दमानसलिलैर्नयनैश्च
नित्यम्
।
वाग्भिश्च
गद्गदपदाभिरुपासते
ये
पादौ
तवाम्ब
भुवनेषु
त
एव
धन्याः
॥
4
॥
वक्त्रं
यदुद्यतमभिष्टुतये
भवत्या-
-स्तुभ्यं
नमो
यदपि
देवि
शिरः
करोति
।
चेतश्च
यत्त्वयि
परायणमम्ब
तानि
कस्यापि
कैरपि
भवन्ति
तपोविशेषैः
॥
5
॥
मूलालवालकुहरादुदिता
भवानि
निर्भिद्य
षट्सरसिजानि
तटिल्लतेव
।
भूयोऽपि
तत्र
विशसि
ध्रुवमण्डलेन्दु-
-निःस्यन्दमानपरमामृततोयरूपा
॥
6
॥
दग्धं
यदा
मदनमेकमनेकधा
ते
मुग्धः
कटाक्षविधिरङ्कुरयाञ्चकार
।
धत्ते
तदाप्रभृति
देवि
ललाटनेत्रं
सत्यं
ह्रियैव
मुकुलीकृतमिन्दुमौलेः
॥
7
॥
अज्ञातसम्भवमनाकलितान्ववायं
भिक्षुं
कपालिनमवाससमद्वितीयम्
।
पूर्वं
करग्रहणमङ्गलतो
भवत्याः
शम्भुं
क
एव
बुबुधे
गिरिराजकन्ये
॥
8
॥
चर्माम्बरं
च
शवभस्मविलेपनं
च
भिक्षाटनं
च
नटनं
च
परेतभूमौ
।
वेतालसंहतिपरिग्रहता
च
शम्भोः
शोभां
बिभर्ति
गिरिजे
तव
साहचर्यात्
॥
9
॥
कल्पोपसंहरणकेलिषु
पण्डितानि
चण्डानि
खण्डपरशोरपि
ताण्डवानि
।
आलोकनेन
तव
कोमलितानि
मात-
-र्लास्यात्मना
परिणमन्ति
जगद्विभूत्यै
॥
10
॥
जन्तोरपश्चिमतनोः
सति
कर्मसाम्ये
निःशेषपाशपटलच्छिदुरा
निमेषात्
।
कल्याणि
देशिककटाक्षसमाश्रयेण
कारुण्यतो
भवति
शाम्भववेददीक्षा
॥
11
॥
मुक्ताविभूषणवती
नवविद्रुमाभा
यच्चेतसि
स्फुरसि
तारकितेव
सन्ध्या
।
एकः
स
एव
भुवनत्रयसुन्दरीणां
कन्दर्पतां
व्रजति
पञ्चशरीं
विनापि
॥
12
॥
ये
भावयन्त्यमृतवाहिभिरंशुजालै-
-राप्यायमानभुवनाममृतेश्वरीं
त्वाम्
।
ते
लङ्घयन्ति
ननु
मातरलङ्घनीयां
ब्रह्मादिभिः
सुरवरैरपि
कालकक्षाम्
॥
13
॥
यः
स्फाटिकाक्षगुणपुस्तककुण्डिकाढ्यां
व्याख्यासमुद्यतकरां
शरदिन्दुशुभ्राम्
।
पद्मासनां
च
हृदये
भवतीमुपास्ते
मातः
स
विश्वकवितार्किकचक्रवर्ती
॥
14
॥
बर्हावतंसयुतबर्बरकेशपाशां
गुञ्जावलीकृतघनस्तनहारशोभाम्
।
श्यामां
प्रवालवदनां
सुकुमारहस्तां
त्वामेव
नौमि
शबरीं
शबरस्य
जायाम्
॥
15
॥
अर्धेन
किं
नवलताललितेन
मुग्धे
क्रीतं
विभोः
परुषमर्धमिदं
त्वयेति
।
आलीजनस्य
परिहासवचांसि
मन्ये
मन्दस्मितेन
तव
देवि
जडी
भवन्ति
॥
16
॥
ब्रह्माण्ड
बुद्बुदकदम्बकसङ्कुलोऽयं
मायोदधिर्विविधदुःखतरङ्गमालः
।
आश्चर्यमम्ब
झटिति
प्रलयं
प्रयाति
त्वद्ध्यानसन्ततिमहाबडबामुखाग्नौ
॥
17
॥
दाक्षायणीति
कुटिलेति
कुहारिणीति
कात्यायनीति
कमलेति
कलावतीति
।
एका
सती
भगवती
परमार्थतोऽपि
सन्दृश्यसे
बहुविधा
ननु
नर्तकीव
॥
18
॥
आनन्दलक्षणमनाहतनाम्नि
देशे
नादात्मना
परिणतं
तव
रूपमीशे
।
प्रत्यङ्मुखेन
मनसा
परिचीयमानं
शंसन्ति
नेत्रसलिलैः
पुलकैश्च
धन्याः
॥
19
॥
त्वं
चन्द्रिका
शशिनि
तिग्मरुचौ
रुचिस्त्वं
त्वं
चेतनासि
पुरुषे
पवने
बलं
त्वम्
।
त्वं
स्वादुतासि
सलिले
शिखिनि
त्वमूष्मा
निःसारमेव
निखिलं
त्वदृते
यदि
स्यात्
॥
20
॥
ज्योतींषि
यद्दिवि
चरन्ति
यदन्तरिक्षं
सूते
पयांसि
यदहिर्धरणीं
च
धत्ते
।
यद्वाति
वायुरनलो
यदुदर्चिरास्ते
तत्सर्वमम्ब
तव
केवलमाज्ञयैव
॥
21
॥
सङ्कोचमिच्छसि
यदा
गिरिजे
तदानीं
वाक्तर्कयोस्त्वमसि
भूमिरनामरूपा
।
यद्वा
विकासमुपयासि
यदा
तदानीं
त्वन्नामरूपगणनाः
सुकरा
भवन्ति
॥
22
॥
भोगाय
देवि
भवतीं
कृतिनः
प्रणम्य
भ्रूकिङ्करीकृतसरोजगृहाः
सहस्रम्
।
चिन्तामणिप्रचयकल्पितकेलिशैले
कल्पद्रुमोपवन
एव
चिरं
रमन्ते
॥
23
॥
हर्तुं
त्वमेव
भवसि
त्वदधीनमीशे
संसारतापमखिलं
दयया
पशूनाम्
।
वैकर्तनी
किरणसंहतिरेव
शक्ता
धर्मं
निजं
शमयितुं
निजयैव
वृष्ट्या
॥
24
॥
शक्तिः
शरीरमधिदैवतमन्तरात्मा
ज्ञानं
क्रिया
करणमासनजालमिच्छा
।
ऐश्वर्यमायतनमावरणानि
च
त्वं
किं
तन्न
यद्भवसि
देवि
शशाङ्कमौलेः
॥
25
॥
भूमौ
निवृत्तिरुदिता
पयसि
प्रतिष्ठा
विद्याऽनले
मरुति
शान्तिरतीवकान्तिः
।
व्योम्नीति
याः
किल
कलाः
कलयन्ति
विश्वं
तासां
हि
दूरतरमम्ब
पदं
त्वदीयम्
॥
26
॥
यावत्पदं
पदसरोजयुगं
त्वदीयं
नाङ्गीकरोति
हृदयेषु
जगच्छरण्ये
।
तावद्विकल्पजटिलाः
कुटिलप्रकारा-
-स्तर्कग्रहाः
समयिनां
प्रलयं
न
यान्ति
॥
27
॥
निर्देवयानपितृयानविहारमेके
कृत्वा
मनः
करणमण्डलसार्वभौमम्
।
ध्याने
निवेश्य
तव
कारणपञ्चकस्य
पर्वाणि
पार्वति
नयन्ति
निजासनत्वम्
॥
28
॥
स्थूलासु
मूर्तिषु
महीप्रमुखासु
मूर्तेः
कस्याश्चनापि
तव
वैभवमम्ब
यस्याः
।
पत्या
गिरामपि
न
शक्यत
एव
वक्तुं
सापि
स्तुता
किल
मयेति
तितिक्षितव्यम्
॥
29
॥
कालाग्निकोटिरुचिमम्ब
षडध्वशुद्धौ
आप्लावनेषु
भवतीममृतौघवृष्टिम्
।
श्यामां
घनस्तनतटां
शकलीकृताघां
ध्यायन्त
एव
जगतां
गुरवो
भवन्ति
॥
30
॥
विद्यां
परां
कतिचिदम्बरमम्ब
केचि-
-दानन्दमेव
कतिचित्कतिचिच्च
मायाम्
।
त्वां
विश्वमाहुरपरे
वयमामनामः
साक्षादपारकरुणां
गुरुमूर्तिमेव
॥
31
॥
कुवलयदलनीलं
बर्बरस्निग्धकेशं
पृथुतरकुचभाराक्रान्तकान्तावलग्नम्
।
किमिह
बहुभिरुक्तैस्त्वत्स्वरूपं
परं
नः
सकलजननि
मातः
सन्ततं
सन्निधत्ताम्
॥
32
॥
इति
श्रीकालिदास
विरचित
पञ्चस्तव्यां
चतुर्थः
अम्बास्तवः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits