Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

घोर कष्टोद्धारण दत्त स्तोत्रम्

श्रीपाद श्रीवल्लभ त्वं सदैव
श्रीदत्तास्मान्पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन् सुकीर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ 1 ॥
त्वं नो माता त्वं पिताऽऽप्तोऽधिपस्त्वं
त्राता योगक्षेमकृत्सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ 2 ॥
पापं तापं व्याधिमाधिं च दैन्यं
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष्य ईशास्तजूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ 3 ॥
नान्यस्त्राता नाऽपि दाता न भर्ता
त्वत्तो देव त्वं शरण्योऽकहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ 4 ॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ 5 ॥
श्लोकपञ्चकमेतद्यो लोकमङ्गलवर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥ 6 ॥
इति श्री मत्परमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वति यति विरचितं घोर कष्टोद्धारण स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits