Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दत्तात्रेय स्तोत्रम् - नारद कृतम्

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ 1 ॥ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान्नारदृषिः । अनुष्टुप् छन्दः । श्रीदत्तः परमात्मा देवता । श्रीदत्तात्रेय प्रीत्यर्थे जपे विनियोगः ॥ नारद उवाच – जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते ॥ 1 ॥ जराजन्मविनाशाय देहशुद्धिकराय च । दिगम्बर दयामूर्ते दत्तात्रेय नमोऽस्तु ते ॥ 2 ॥ कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च । वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ 3 ॥ ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित । पञ्चभूतैकदीप्ताय दत्तात्रेय नमोऽस्तु ते ॥ 4 ॥ यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तु ते ॥ 5 ॥ आदौ ब्रह्मा हरिर्मध्ये ह्यन्ते देवस्सदाशिवः । मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 6 ॥ भोगालयाय भोगाय योगयोग्याय धारिणे । जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ 7 ॥ दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तु ते ॥ 8 ॥ जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने । जयमान सतां देव दत्तात्रेय नमोऽस्तु ते ॥ 9 ॥ भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे । नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तु ते ॥ 10 ॥ ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले । प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तु ते ॥ 11 ॥ अवधूत सदानन्द परब्रह्मस्वरूपिणे । विदेहदेहरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 12 ॥ सत्यरूप सदाचार सत्यधर्मपरायण । सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तु ते ॥ 13 ॥ शूलहस्तगदापाणे वनमालासुकन्धर । यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोऽस्तु ते ॥ 14 ॥ क्षराक्षरस्वरूपाय परात्परतराय च । दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तु ते ॥ 15 ॥ दत्त विद्याढ्य लक्ष्मीश दत्त स्वात्मस्वरूपिणे । गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 16 ॥ शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् । सर्वपापं शमं याति दत्तात्रेय नमोऽस्तु ते ॥ 17 ॥ इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् । दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ 18 ॥ इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits