Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दत्तात्रेय अष्टोत्तर शत नामावलिः

ओं श्रीदत्ताय नमः । ओं देवदत्ताय नमः । ओं ब्रह्मदत्ताय नमः । ओं विष्णुदत्ताय नमः । ओं शिवदत्ताय नमः । ओं अत्रिदत्ताय नमः । ओं आत्रेयाय नमः । ओं अत्रिवरदाय नमः । ओं अनसूयाय नमः । ओं अनसूयासूनवे नमः । 10 ओं अवधूताय नमः । ओं धर्माय नमः । ओं धर्मपरायणाय नमः । ओं धर्मपतये नमः । ओं सिद्धाय नमः । ओं सिद्धिदाय नमः । ओं सिद्धिपतये नमः । ओं सिद्धसेविताय नमः । ओं गुरवे नमः । ओं गुरुगम्याय नमः । 20 ओं गुरोर्गुरुतराय नमः । ओं गरिष्ठाय नमः । ओं वरिष्ठाय नमः । ओं महिष्ठाय नमः । ओं महात्मने नमः । ओं योगाय नमः । ओं योगगम्याय नमः । ओं योगादेशकराय नमः । ओं योगपतये नमः । ओं योगीशाय नमः । 30 ओं योगाधीशाय नमः । ओं योगपरायणाय नमः । ओं योगिध्येयाङ्घ्रिपङ्कजाय नमः । ओं दिगम्बराय नमः । ओं दिव्याम्बराय नमः । ओं पीताम्बराय नमः । ओं श्वेताम्बराय नमः । ओं चित्राम्बराय नमः । ओं बालाय नमः । ओं बालवीर्याय नमः । 40 ओं कुमाराय नमः । ओं किशोराय नमः । ओं कन्दर्पमोहनाय नमः । ओं अर्धाङ्गालिङ्गिताङ्गनाय नमः । ओं सुरागाय नमः । ओं विरागाय नमः । ओं वीतरागाय नमः । ओं अमृतवर्षिणे नमः । ओं उग्राय नमः । ओं अनुग्ररूपाय नमः । 50 ओं स्थविराय नमः । ओं स्थवीयसे नमः । ओं शान्ताय नमः । ओं अघोराय नमः । ओं गूढाय नमः । ओं ऊर्ध्वरेतसे नमः । ओं एकवक्त्राय नमः । ओं अनेकवक्त्राय नमः । ओं द्विनेत्राय नमः । ओं त्रिनेत्राय नमः । 60 ओं द्विभुजाय नमः । ओं षड्भुजाय नमः । ओं अक्षमालिने नमः । ओं कमण्डलधारिणे नमः । ओं शूलिने नमः । ओं डमरुधारिणे नमः । ओं शङ्खिने नमः । ओं गदिने नमः । ओं मुनये नमः । ओं मौनिने नमः । 70 ओं श्रीविरूपाय नमः । ओं सर्वरूपाय नमः । ओं सहस्रशिरसे नमः । ओं सहस्राक्षाय नमः । ओं सहस्रबाहवे नमः । ओं सहस्रायुधाय नमः । ओं सहस्रपादाय नमः । ओं सहस्रपद्मार्चिताय नमः । ओं पद्महस्ताय नमः । ओं पद्मपादाय नमः । 80 ओं पद्मनाभाय नमः । ओं पद्ममालिने नमः । ओं पद्मगर्भारुणाक्षाय नमः । ओं पद्मकिञ्जल्कवर्चसे नमः । ओं ज्ञानिने नमः । ओं ज्ञानगम्याय नमः । ओं ज्ञानविज्ञानमूर्तये नमः । ओं ध्यानिने नमः । ओं ध्याननिष्ठाय नमः । ओं ध्यानस्थिमितमूर्तये नमः । 90 ओं धूलिधूसरिताङ्गाय नमः । ओं चन्दनलिप्तमूर्तये नमः । ओं भस्मोद्धूलितदेहाय नमः । ओं दिव्यगन्धानुलेपिने नमः । ओं प्रसन्नाय नमः । ओं प्रमत्ताय नमः । ओं प्रकृष्टार्थप्रदाय नमः । ओं अष्टैश्वर्यप्रदाय नमः । ओं वरदाय नमः । ओं वरीयसे नमः । 100 ओं ब्रह्मणे नमः । ओं ब्रह्मरूपाय नमः । ओं विष्णवे नमः । ओं विश्वरूपिणे नमः । ओं शङ्कराय नमः । ओं आत्मने नमः । ओं अन्तरात्मने नमः । ओं परमात्मने नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits