Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

अनघदेव अष्टोत्तरशतनाम स्तोत्रम्

दत्तात्रेयायाऽनघाय त्रिविधाघविदारिणे ।
लक्ष्मीरूपाऽनघेशाय योगाधीशाय ते नमः ॥ 1 ॥
द्राम्बीजध्यानगम्याय विज्ञेयाय नमो नमः ।
गर्भादितारणायाऽस्तु दत्तात्रेयाय ते नमः ॥ 2 ॥
बीजस्थवटतुल्याय चैकार्णमनुगामिने ।
षडर्णमनुपालाय योगसम्पत्कराय ते ॥ 3 ॥
अष्टार्णमनुगम्याय पूर्णाऽऽनन्दवपुष्मते ।
द्वादशाक्षरमन्त्रस्थायाऽऽत्मसायुज्यदायिने ॥ 4 ॥
षोडशार्णमनुस्थाय सच्चिदानन्दशालिने ।
दत्तात्रेयाय हरये कृष्णायाऽस्तु नमो नमः ॥ 5 ॥
उन्मत्तायाऽऽनन्ददायकाय तेऽस्तु नमो नमः ।
दिगम्बराय मुनये बालायाऽस्तु नमो नमः ॥ 6 ॥
पिशाचाय च ते ज्ञानसागराय च ते नमः ।
आब्रह्मजन्मदोषौघप्रणाशाय नमो नमः ॥ 7 ॥
सर्वोपकारिणे मोक्षदायिने ते नमो नमः ।
ओंरूपिणे भगवते दत्तात्रेयाय ते नमः ॥ 8 ॥
स्मृतिमात्रसुतुष्टाय महाभयनिवारिणे ।
महाज्ञानप्रदायाऽस्तु चिदानन्दाऽऽत्मने नमः ॥ 9 ॥
बालोन्मत्तपिशाचादिवेषाय च नमो नमः ।
नमो महायोगिने चाप्यवधूताय ते नमः ॥ 10 ॥
अनसूयाऽऽनन्ददाय चाऽत्रिपुत्राय ते नमः ।
सर्वकामफलानीकप्रदात्रे ते नमो नमः ॥ 11 ॥
प्रणवाक्षरवेद्याय भवबन्धविमोचिने ।
ह्रीम्बीजाक्षरपाराय सर्वैश्वर्यप्रदायिने ॥ 12 ॥
क्रोम्बीजजपतुष्टाय साध्याकर्षणदायिने ।
सौर्बीजप्रीतमनसे मनःसङ्क्षोभहारिणे ॥ 13 ॥
ऐम्बीजपरितुष्टाय वाक्प्रदाय नमो नमः ।
क्लीम्बीजसमुपास्याय त्रिजगद्वश्यकारिणे ॥ 14 ॥
श्रीमुपासनतुष्टाय महासम्पत्प्रदाय च ।
ग्लौमक्षरसुवेद्याय भूसाम्राज्यप्रदायिने ॥ 15 ॥
द्राम्बीजाक्षरवासाय महते चिरजीविने ।
नानाबीजाक्षरोपास्य नानाशक्तियुजे नमः ॥ 16 ॥
समस्तगुणसम्पन्नायाऽन्तःशत्रुविदाहिने ।
भूतग्रहोच्चाटनाय सर्वव्याधिहराय च ॥ 17 ॥
पराभिचारशमनायाऽऽधिव्याधिनिवारिणे ।
दुःखत्रयहरायाऽस्तु दारिद्र्यद्राविणे नमः ॥ 18 ॥
देहदार्ढ्याभिपोषाय चित्तसन्तोषकारिणे ।
सर्वमन्त्रस्वरूपाय सर्वयन्त्रस्वरूपिणे ॥ 19 ॥
सर्वतन्त्राऽऽत्मकायाऽस्तु सर्वपल्लवरूपिणे ।
शिवायोपनिषद्वेद्यायाऽस्तु दत्ताय ते नमः ॥ 20 ॥
नमो भगवते तेऽस्तु दत्तात्रेयाय ते नमः ।
महागम्भीररूपाय वैकुण्ठवासिने नमः ॥ 21 ॥
शङ्खचक्रगदाशूलधारिणे वेणुनादिने ।
दुष्टसंहारकायाऽथ शिष्टसम्पालकाय च ॥ 22 ॥
नारायणायाऽस्त्रधरायाऽस्तु चिद्रूपिणे नमः ।
प्रज्ञारूपाय चाऽऽनन्दरूपिणे ब्रह्मरूपिणे ॥ 23 ॥
महावाक्यप्रबोधाय तत्त्वायाऽस्तु नमो नमः ।
नमः सकलकर्मौघनिर्मिताय नमो नमः ॥ 24 ॥
नमस्ते सच्चिदानन्दरूपाय च नमो नमः ।
नमः सकललोकौघसञ्चाराय नमो नमः ॥ 25 ॥
नमः सकलदेवौघवशीकृतिकराय च ।
कुटुम्बवृद्धिदायाऽस्तु गुडपानकतोषिणे ॥ 26 ॥
पञ्चकर्जाय सुप्रीतायाऽस्तु कन्दफलादिने ।
नमः सद्गुरवे श्रीमद्दत्तात्रेयाय ते नमः ॥ 27 ॥
इत्येवमनघेशस्य दत्तात्रेयस्य सद्गुरोः ।
वेदान्तप्रतिपाद्यस्य नाम्नामष्टोत्तरं शतम् ॥ 28 ॥
इति श्री अनघदेव अष्टोत्तरशतनाम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits