Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

मेधादक्षिणामूर्ति त्रिशती नामावली

ओं ओङ्काररूपाय नमः ओं ओङ्कारगृहकर्पूरदीपकाय नमः ओं ओङ्कारशैलपञ्चास्याय नमः ओं ओङ्कारसुमहत्पदाय नमः ओं ओङ्कारपञ्जरशुकाय नमः ओं ओङ्कारोद्यानकोकिलाय नमः ओं ओङ्कारवनमायूराय नमः ओं ओङ्कारकमलाकराय नमः ओं ओङ्कारकूटनिलयाय नमः ओं ओङ्कारतरुपल्लवाय नमः ओं ओङ्कारचक्रमध्यस्थाय नमः ओं ओङ्कारेश्वरपूजिताय नमः ओं ओङ्कारपदसंवेद्याय नमः ओं नन्दीशाय नमः ओं नन्दिवाहनाय नमः ओं नारायणाय नमः ओं नराधाराय नमः ओं नारीमानसमोहनाय नमः ओं नान्दीश्राद्धप्रियाय नमः ओं नाट्यतत्पराय नमः 20 ओं नारदप्रियाय नमः ओं नानाशास्त्ररहस्यज्ञाय नमः ओं नदीपुलिनसंस्थिताय नमः ओं नम्राय नमः ओं नम्रप्रियाय नमः ओं नागभूषणाय नमः ओं मोहिनीप्रियाय नमः ओं महामान्याय नमः ओं महादेवाय नमः ओं महाताण्डवपण्डिताय नमः ओं माधवाय नमः ओं मधुरालापाय नमः ओं मीनाक्षीनायकाय नमः ओं मुनये नमः ओं मधुपुष्पप्रियाय नमः ओं मानिने नमः ओं माननीयाय नमः ओं मतिप्रियाय नमः ओं महायज्ञप्रियाय नमः ओं भक्ताय नमः 40 ओं भक्तकल्पमहातरवे नमः ओं भूतिदाय नमः ओं भगवते नमः ओं भक्तवत्सलाय नमः ओं भवभैरवाय नमः ओं भवाब्धितरणोपायाय नमः ओं भाववेद्याय नमः ओं भवापहाय नमः ओं भवानीवल्लभाय नमः ओं भानवे नमः ओं भूतिभूषितविग्रहाय नमः ओं गणाधिपाय नमः ओं गणाराध्याय नमः ओं गम्भीराय नमः ओं गणभृते नमः ओं गुरवे नमः ओं गानप्रियाय नमः ओं गुणाधाराय नमः ओं गौरीमानसमोहनाय नमः ओं गोपालपूजिताय नमः 60 ओं गोप्त्रे नमः ओं गौराङ्गाय नमः ओं गिरिशाय नमः ओं गुहाय नमः ओं वरिष्ठाय नमः ओं वीर्यवते नमः ओं विदुषे नमः ओं विद्याधाराय नमः ओं वनप्रियाय नमः ओं वसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय नमः ओं विद्वत्प्रियाय नमः ओं वीतिहोत्राय नमः ओं विश्वामित्रवरप्रदाय नमः ओं वाक्पतये नमः ओं वरदाय नमः ओं वायवे नमः ओं वाराहीहृदयङ्गमाय नमः ओं तेजःप्रदाय नमः ओं तन्त्रमयाय नमः ओं तारकासुरसङ्घहृते नमः 80 ओं ताटकान्तकसम्पूज्याय नमः ओं तारकाधिपभूषणाय नमः ओं त्रैयम्बकाय नमः ओं त्रिकालज्ञाय नमः ओं तुषाराचलमन्दिराय नमः ओं तपनाग्निशशाङ्काक्षाय नमः ओं तीर्थाटनपरायणाय नमः ओं त्रिपुण्ड्रविलसत्फालफलकाय नमः ओं तरुणाय नमः ओं तरवे नमः ओं दयालवे नमः ओं दक्षिणामूर्तये नमः ओं दानवान्तकपूजिताय नमः ओं दारिद्र्यनाशकाय नमः ओं दीनरक्षकाय नमः ओं दिव्यलोचनाय नमः ओं दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय नमः ओं दुष्टराक्षसदर्पघ्नाय नमः ओं दुराराध्याय नमः ओं दिगम्बराय नमः 100 ओं दिक्पालकसमाराध्यचरणाय नमः ओं दीनवल्लभाय नमः ओं दम्भाचारहराय नमः ओं क्षिप्रकारिणे नमः ओं क्षत्रियपूजिताय नमः ओं क्षेत्रज्ञाय नमः ओं क्षामरहिताय नमः ओं क्षौमाम्बरविभूषिताय नमः ओं क्षेत्रपालार्चिताय नमः ओं क्षेमकारिणे नमः ओं क्षीरोपमाकृतये नमः ओं क्षीराब्धिजामनोनाथपूजिताय नमः ओं क्षयरोगहृते नमः ओं क्षपाकरधराय नमः ओं क्षोभवर्जिताय नमः ओं क्षितिसौख्यदाय नमः ओं नानारूपधराय नमः ओं नामरहिताय नमः ओं नादतत्पराय नमः ओं नरनाथप्रियाय नमः 120 ओं नग्नाय नमः ओं नानालोकसमर्चिताय नमः ओं नौकारूढाय नमः ओं नदीभर्त्रे नमः ओं निगमाश्वाय नमः ओं निरञ्जनाय नमः ओं नानाजिनधराय नमः ओं नीललोहिताय नमः ओं नित्ययौवनाय नमः ओं मूलाधारादिचक्रस्थाय नमः ओं महादेवीमनोहराय नमः ओं माधवार्चितपादाब्जाय नमः ओं माख्यपुष्पार्चनप्रियाय नमः ओं मन्मथान्तकराय नमः ओं मित्रमहामण्डलसंस्थिताय नमः ओं मित्रप्रियाय नमः ओं मित्रदन्तहराय नमः ओं मङ्गलवर्धनाय नमः ओं मन्मथानेकधिक्कारिलावण्याञ्चितविग्रहाय नमः ओं मित्रेन्दुकृतचक्राढ्यमेदिनीरथनायकाय नमः 140 ओं मधुवैरिणे नमः ओं महाबाणाय नमः ओं मन्दराचलमन्दिराय नमः ओं तन्वीसहायाय नमः ओं त्रैलोक्यमोहनास्त्रकलामयाय नमः ओं त्रिकालज्ञानसम्पन्नाय नमः ओं त्रिकालज्ञानदायकाय नमः ओं त्रयीनिपुणसंसेव्याय नमः ओं त्रिशक्तिपरिसेविताय नमः ओं त्रिणेत्राय नमः ओं तीर्थफलकाय नमः ओं तन्त्रमार्गप्रवर्तकाय नमः ओं तृप्तिप्रदाय नमः ओं तन्त्रयन्त्रमन्त्रतत्परसेविताय नमः ओं त्रयीशिखामयाय नमः ओं यक्षकिन्नराद्यमरार्चिताय नमः ओं यमबाधाहराय नमः ओं यज्ञनायकाय नमः ओं यज्ञमूर्तिभृते नमः ओं यज्ञेशाय नमः 160 ओं यज्ञकर्त्रे नमः ओं यज्ञविघ्नविनाशनाय नमः ओं यज्ञकर्मफलाध्याक्षाय नमः ओं यज्ञभोक्त्रे नमः ओं युगावहाय नमः ओं युगाधीशाय नमः ओं यदुपतिसेविताय नमः ओं महदाश्रयाय नमः ओं माणिक्यकंणकराय नमः ओं मुक्ताहारविभूषिताय नमः ओं मणिमञ्जीरचरणाय नमः ओं मलयाचलनायकाय नमः ओं मृत्युञ्जयाय नमः ओं मृत्तिकराय नमः ओं मुदिताय नमः ओं मुनिसत्तमाय नमः ओं मोहिनीनायकाय नमः ओं मायापत्यै नमः ओं मोहनरूपधृते नमः ओं हरिप्रियाय नमः 180 ओं हविष्याशाय नमः ओं हरिमानसगोचराय नमः ओं हराय नमः ओं हर्षप्रदाय नमः ओं हालाहलभोजनतत्पराय नमः ओं हरिध्वजसमाराध्याय नमः ओं हरिब्रह्मेन्द्रपूजिताय नमः ओं हारीतवरदाय नमः ओं हासजितराक्षससंहतये नमः ओं हृत्पुण्डरीकनिलयाय नमः ओं हतभक्तविपद्गणाय नमः ओं मेरुशैलकृतावासाय नमः ओं मन्त्रिणीपरिसेविताय नमः ओं मन्त्रज्ञाय नमः ओं मन्त्रतत्त्वार्थपरिज्ञानिने नमः ओं मदालसाय नमः ओं महादेवीसमाराध्यदिव्यपादुकरञ्जिताय नमः ओं मन्त्रात्मकाय नमः ओं मन्त्रमयाय नमः ओं महालक्ष्मीसमर्चिताय नमः 200 ओं महाभूतमयाय नमः ओं मायापूजिताय नमः ओं मधुरस्वनाय नमः ओं धाराधरोपमगलाय नमः ओं धरास्यन्दनसंस्थिताय नमः ओं ध्रुवसम्पूजिताय नमः ओं धात्रीनाथभक्तवरप्रदाय नमः ओं ध्यानगम्याय नमः ओं ध्याननिष्ठहृत्पद्मान्तरपूजिताय नमः ओं धर्माधीनाय नमः ओं धर्मरताय नमः ओं धनदाय नमः ओं धनदप्रियाय नमः ओं धनाध्यक्षार्चनप्रीताय नमः ओं धीरविद्वज्जनाश्रयाय नमः ओं प्रणवाक्षरमध्यस्थाय नमः ओं प्रभवे नमः ओं पौराणिकोत्तमाय नमः ओं पद्मालयापतिनुताय नमः ओं परस्त्रीविमुखप्रियाय नमः 220 ओं पञ्चब्रह्ममयाय नमः ओं पञ्चमुखाय नमः ओं परमपावनाय नमः ओं पञ्चबाणप्रमथनाय नमः ओं पुरारातये नमः ओं परात्पराय नमः ओं पुराणन्यायमीमांसधर्मशास्त्रप्रवर्तकाय नमः ओं ज्ञानप्रदाय नमः ओं ज्ञानगम्याय नमः ओं ज्ञानतत्परपूजिताय नमः ओं ज्ञानवेद्याय नमः ओं ज्ञातिहीनाय नमः ओं ज्ञेयमूर्तिस्वरूपधृते नमः ओं ज्ञानदात्रे नमः ओं ज्ञानशीलाय नमः ओं ज्ञानवैराग्यसम्युताय नमः ओं ज्ञानमुद्राञ्चितकराय नमः ओं ज्ञातमन्त्रकदम्बकाय नमः ओं ज्ञानवैराग्यसम्पन्नवरदाय नमः ओं प्रकृतिप्रियाय नमः 240 ओं पद्मासनसमाराध्याय नमः ओं पद्मपत्रायतेक्षणाय नमः ओं परस्मै ज्योतिषे नमः ओं परस्मै धाम्ने नमः ओं प्रधानपुरुषाय नमः ओं परस्मै नमः ओं प्रावृड्विवर्धनाय नमः ओं प्रावृण्णिधये नमः ओं प्रावृट्खगेश्वराय नमः ओं पिनाकपाणये नमः ओं पक्षीन्द्रवाहनाराध्यपादुकाय नमः ओं यजमानप्रियाय नमः ओं यज्ञपतये नमः ओं यज्ञफलप्रदाय नमः ओं यागाराध्याय नमः ओं योगगम्याय नमः ओं यमपीडाहराय नमः ओं यतये नमः ओं यातायातादिरहिताय नमः ओं यतिधर्मपरायणाय नमः 260 ओं यादोनिधये नमः ओं यादवेन्द्राय नमः ओं यक्षकिन्नरसेविताय नमः ओं छन्दोमयाय नमः ओं छत्रपतये नमः ओं छत्रपालनतत्पराय नमः ओं छन्दः शास्त्रादिनिपुणाय नमः ओं छान्दोग्यपरिपूरिताय नमः ओं छिन्नाप्रियाय नमः ओं छत्रहस्ताय नमः ओं छिन्नामन्त्रजपप्रियाय नमः ओं छायापतये नमः ओं छद्मगारये नमः ओं छलजात्यादिदूरगाय नमः ओं छाद्यमानमहाभूतपञ्चकाय नमः ओं स्वादु तत्पराय नमः ओं सुराराध्याय नमः ओं सुरपतये नमः ओं सुन्दराय नमः ओं सुन्दरीप्रियाय नमः 280 ओं सुमुखाय नमः ओं सुभगाय नमः ओं सौम्याय नमः ओं सिद्धमार्गप्रवर्तकाय नमः ओं सर्वशास्त्ररहस्यज्ञाय नमः ओं सोमाय नमः ओं सोमविभूषणाय नमः ओं हाटकाभजटाजूटाय नमः ओं हाटकाय नमः ओं हाटकप्रियाय नमः ओं हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय नमः ओं हरये नमः ओं हाटकाभरणोपेतरुद्राक्षकृतभूषणाय नमः ओं हैहयेशाय नमः ओं हतरिपवे नमः ओं हरिमानसतोषणाय नमः ओं हयग्रीवसमाराध्याय नमः ओं हयग्रीववरप्रदाय नमः ओं हारायितमहाभक्तसुरनाथमहोहराय नमः ओं दक्षिणामूर्तये नमः 300 इति श्री मेधादक्षिणामूर्ति त्रिशती नामावली

Recite with devotion and pure heart

Regular practice brings spiritual benefits