हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दक्षिणा मूर्ति स्तोत्रम्
शान्तिपाठः
ओं
यो
ब्रह्माणं
विदधाति
पूर्वं
यो
वै
वेदांश्च
प्रहिणोति
तस्मै
।
तं
ह
देवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै
शरणमहं
प्रपद्ये
॥
ध्यानम्
ओं
मौनव्याख्या
प्रकटित
परब्रह्मतत्त्वं
युवानं
वर्षिष्ठान्ते
वसदृषिगणैरावृतं
ब्रह्मनिष्ठैः
।
आचार्येन्द्रं
करकलित
चिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं
मुदितवदनं
दक्षिणामूर्तिमीडे
॥
1
॥
वटविटपिसमीपेभूमिभागे
निषण्णं
सकलमुनिजनानां
ज्ञानदातारमारात्
।
त्रिभुवनगुरुमीशं
दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं
नमामि
॥
2
॥
चित्रं
वटतरोर्मूले
वृद्धाः
शिष्या
गुरुर्युवा
।
गुरोस्तु
मौनं
व्याख्यानं
शिष्यास्तुच्छिन्नसंशयाः
॥
3
॥
निधये
सर्वविद्यानां
भिषजे
भवरोगिणाम्
।
गुरवे
सर्वलोकानां
दक्षिणामूर्तये
नमः
॥
4
॥
ओं
नमः
प्रणवार्थाय
शुद्धज्ञानैकमूर्तये
।
निर्मलाय
प्रशान्ताय
दक्षिणामूर्तये
नमः
॥
5
॥
चिद्घनाय
महेशाय
वटमूलनिवासिने
।
सच्चिदानन्दरूपाय
दक्षिणामूर्तये
नमः
॥
6
॥
ईश्वरो
गुरुरात्मेति
मूर्तिभेदविभागिने
।
व्योमवद्व्याप्तदेहाय
दक्षिणामूर्तये
नमः
॥
7
॥
अङ्गुष्ठतर्जनी
योगमुद्रा
व्याजेनयोगिनाम्
।
शृत्यर्थं
ब्रह्मजीवैक्यं
दर्शयन्योगता
शिवः
॥
8
॥
ओं
शान्तिः
शान्तिः
शान्तिः
॥
स्तोत्रम्
विश्वं
दर्पण-दृश्यमान-नगरी
तुल्यं
निजान्तर्गतं
पश्यन्नात्मनि
मायया
बहिरिवोद्भूतं
यथा
निद्रया
।
यस्साक्षात्कुरुते
प्रबोधसमये
स्वात्मानमे
वाद्वयं
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
1
॥
बीजस्यान्तरि-वाङ्कुरो
जगदितं
प्राङ्निर्विकल्पं
पुनः
मायाकल्पित
देशकालकलना
वैचित्र्यचित्रीकृतम्
।
मायावीव
विजृम्भयत्यपि
महायोगीव
यः
स्वेच्छया
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
2
॥
यस्यैव
स्फुरणं
सदात्मकमसत्कल्पार्थकं
भासते
साक्षात्तत्वमसीति
वेदवचसा
यो
बोधयत्याश्रितान्
।
यस्साक्षात्करणाद्भवेन्न
पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै
श्रीगुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
3
॥
नानाच्छिद्र
घटोदर
स्थित
महादीप
प्रभाभास्वरं
ज्ञानं
यस्य
तु
चक्षुरादिकरण
द्वारा
बहिः
स्पन्दते
।
जानामीति
तमेव
भान्तमनुभात्येतत्समस्तं
जगत्
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
4
॥
देहं
प्राणमपीन्द्रियाण्यपि
चलां
बुद्धिं
च
शून्यं
विदुः
स्त्री
बालान्ध
जडोपमास्त्वहमिति
भ्रान्ताभृशं
वादिनः
।
मायाशक्ति
विलासकल्पित
महाव्यामोह
संहारिणे
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
5
॥
राहुग्रस्त
दिवाकरेन्दु
सदृशो
माया
समाच्छादनात्
सन्मात्रः
करणोप
संहरणतो
योऽभूत्सुषुप्तः
पुमान्
।
प्रागस्वाप्समिति
प्रभोदसमये
यः
प्रत्यभिज्ञायते
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
6
॥
बाल्यादिष्वपि
जाग्रदादिषु
तथा
सर्वास्ववस्थास्वपि
व्यावृत्ता
स्वनु
वर्तमान
महमित्यन्तः
स्फुरन्तं
सदा
।
स्वात्मानं
प्रकटीकरोति
भजतां
यो
मुद्रया
भद्रया
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
7
॥
विश्वं
पश्यति
कार्यकारणतया
स्वस्वामिसम्बन्धतः
शिष्यचार्यतया
तथैव
पितृ
पुत्राद्यात्मना
भेदतः
।
स्वप्ने
जाग्रति
वा
य
एष
पुरुषो
माया
परिभ्रामितः
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
8
॥
भूरम्भांस्यनलोऽनिलोम्बर
महर्नाथो
हिमांशुः
पुमान्
इत्याभाति
चराचरात्मकमिदं
यस्यैव
मूर्त्यष्टकम्
।
नान्यत्किञ्चन
विद्यते
विमृशतां
यस्मात्परस्माद्विभो
तस्मै
श्री
गुरुमूर्तये
नम
इदं
श्री
दक्षिणामूर्तये
॥
9
॥
सर्वात्मत्वमिति
स्फुटीकृतमिदं
यस्मादमुष्मिन्
स्तवे
तेनास्व
श्रवणात्तदर्थ
मननाद्ध्यानाच्च
सङ्कीर्तनात्
।
सर्वात्मत्व
महाविभूतिसहितं
स्यादीश्वरत्वं
स्वतः
सिद्ध्येत्तत्पुनरष्टधा
परिणतं
चैश्वर्य-मव्याहतम्
॥
10
॥ ॥
इति
श्रीमच्छङ्कराचार्यविरचितं
दक्षिणामूर्तिस्तोत्रं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits