Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दक्षिणामूर्ति सहस्रनामावलिः

ओं देवदेवाय नमः । ओं महादेवाय नमः । ओं देवानामपि देशिकाय नमः । ओं दक्षिणामूर्तये नमः । ओं ईशानाय नमः । ओं दयापूरितदिङ्मुखाय नमः । ओं कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः । ओं वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः । ओं कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः । ओं पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः । ओं जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः । ओं पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः । ओं कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः । ओं कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः । ओं तिलप्रसूनसङ्काशनासिकापुटभासुराय नमः । ओं मन्दस्मितस्फुरन्मुग्धमहनीयमुखाम्बुजाय नमः । ओं कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजिताय नमः । ओं सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः । ओं शङ्खाटोपगलद्दिव्यगलवैभवमञ्जुलाय नमः । ओं करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । 20 ओं अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः । ओं विशालरुचिरोरस्कवलिमत्पल्लवोदराय नमः । ओं बृहत्कटिनितम्बाढ्याय नमः । ओं पीवरोरुद्वयान्विताय नमः । ओं जङ्घाविजिततूणीराय नमः । ओं तुङ्गगुल्फयुगोज्ज्वलाय नमः । ओं मृदुपाटलपादाब्जाय नमः । ओं चन्द्राभनखदीधितये नमः । ओं अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः । ओं घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः । ओं सनकादिमुनिध्येयाय नमः । ओं सर्वाभरणभूषिताय नमः । ओं दिव्यचन्दनलिप्ताङ्गाय नमः । ओं चारुहासपरिष्कृताय नमः । ओं कर्पूरधवलाकाराय नमः । ओं कन्दर्पशतसुन्दराय नमः । ओं कात्यायनीप्रेमनिधये नमः । ओं करुणारसवारिधये नमः । ओं कामितार्थप्रदाय नमः । ओं श्रीमत्कमलावल्लभप्रियाय नमः । 40 ओं कटाक्षितात्मविज्ञानाय नमः । ओं कैवल्यानन्दकन्दलाय नमः । ओं मन्दहाससमानेन्दवे नमः । ओं छिन्नाज्ञानतमस्ततये नमः । ओं संसारानलसन्तप्तजनतामृतसागराय नमः । ओं गम्भीरहृदयाम्भोजनभोमणिनिभाकृतये नमः । ओं निशाकरकराकारवशीकृतजगत्त्रयाय नमः । ओं तापसाराध्यपादाब्जाय नमः । ओं तरुणानन्दविग्रहाय नमः । ओं भूतिभूषितसर्वाङ्गाय नमः । ओं भूताधिपतये नमः । ओं ईश्वराय नमः । ओं वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः । ओं तापत्रयतमोभानवे नमः । ओं पापारण्यदवानलाय नमः । ओं संसारसागरोद्धर्त्रे नमः । ओं हंसाग्र्योपास्यविग्रहाय नमः । ओं ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः । ओं तुच्छीकृतजगज्जालाय नमः । ओं तुषारकरशीतलाय नमः । 60 ओं अस्तङ्गतसमस्तेच्छाय नमः । ओं निस्तुलानन्दमन्थराय नमः । ओं धीरोदात्तगुणाधाराय नमः । ओं उदारवरवैभवाय नमः । ओं अपारकरुणामूर्तये नमः । ओं अज्ञानध्वान्तभास्कराय नमः । ओं भक्तमानसहंसाग्र्याय नमः । ओं भवामयभिषक्तमाय नमः । ओं योगीन्द्रपूज्यपादाब्जाय नमः । ओं योगपट्टोल्लसत्कटये नमः । ओं शुद्धस्फटिकसङ्काशाय नमः । ओं बद्धपन्नगभूषणाय नमः । ओं नानामुनिसमाकीर्णाय नमः । ओं नासाग्रन्यस्तलोचनाय नमः । ओं वेदमूर्धैकसंवेद्याय नमः । ओं नादध्यानपरायणाय नमः । ओं धराधरेन्दवे नमः । ओं आनन्दसन्दोहरससागराय नमः । ओं द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः । ओं प्रत्यगात्मने नमः । 80 ओं परस्मैज्योतये नमः । ओं पुराणाय नमः । ओं परमेश्वराय नमः । ओं प्रपञ्चोपशमाय नमः । ओं प्राज्ञाय नमः । ओं पुण्यकीर्तये नमः । ओं पुरातनाय नमः । ओं सर्वाधिष्ठानसन्मात्राय नमः । ओं स्वात्मबन्धहराय नमः । ओं हराय नमः । ओं सर्वप्रेमनिजाहासाय नमः । ओं सर्वानुग्रहकृते नमः । ओं शिवाय नमः । ओं सर्वेन्द्रियगुणाभासाय नमः । ओं सर्वभूतगुणाश्रयाय नमः । ओं सच्चिदानन्दपूर्णात्मने नमः । ओं सर्वभूतगुणाश्रयाय नमः । ओं सर्वभूतान्तराय नमः । ओं साक्षिणे नमः । ओं सर्वज्ञाय नमः । 100 ओं सर्वकामदाय नमः । ओं सनकादिमहायोगिसमाराधितपादुकाय नमः । ओं आदिदेवाय नमः । ओं दयासिन्धवे नमः । ओं शिक्षितासुरविग्रहाय नमः । ओं यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः । ओं ब्रह्मादिदेवविनुताय नमः । ओं योगमायानियोजकाय नमः । ओं शिवयोगिने नमः । ओं शिवानन्दाय नमः । ओं शिवभक्तसमुद्धराय नमः । ओं वेदान्तसारसन्दोहाय नमः । ओं सर्वसत्त्वावलम्बनाय नमः । ओं वटमूलाश्रयाय नमः । ओं वाग्मिने नमः । ओं मान्याय नमः । ओं मलयजप्रियाय नमः । ओं सुशीलाय नमः । ओं वाञ्छितार्थज्ञाय नमः । ओं प्रसन्नवदनेक्षणाय नमः । 120 ओं नृत्तगीतकलाभिज्ञाय नमः । ओं कर्मविदे नमः । ओं कर्ममोचकाय नमः । ओं कर्मसाक्षिणे नमः । ओं कर्ममयाय नमः । ओं कर्मणां फलप्रदाय नमः । ओं ज्ञानदात्रे नमः । ओं सदाचाराय नमः । ओं सर्वोपद्रवमोचकाय नमः । ओं अनाथनाथाय नमः । ओं भगवते नमः । ओं आश्रितामरपादपाय नमः । ओं वरप्रदाय नमः । ओं प्रकाशात्मने नमः । ओं सर्वभूतहिते रताय नमः । ओं व्याघ्रचर्मासनासीनाय नमः । ओं आदिकर्त्रे नमः । ओं महेश्वराय नमः । ओं सुविक्रमाय नमः । ओं सर्वगताय नमः । 140 ओं विशिष्टजनवत्सलाय नमः । ओं चिन्ताशोकप्रशमनाय नमः । ओं जगदानन्दकारकाय नमः । ओं रश्मिमते नमः । ओं भुवनेशाय नमः । ओं देवासुरसुपूजिताय नमः । ओं मृत्युञ्जयाय नमः । ओं व्योमकेशाय नमः । ओं षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः । ओं अज्ञातसम्भवाय नमः । ओं भिक्षवे नमः । ओं अद्वितीयाय नमः । ओं दिगम्बराय नमः । ओं समस्तदेवतामूर्तये नमः । ओं सोमसूर्याग्निलोचनाय नमः । ओं सर्वसाम्राज्यनिपुणाय नमः । ओं धर्ममार्गप्रवर्तकाय नमः । ओं विश्वाधिकाय नमः । ओं पशुपतये नमः । ओं पशुपाशविमोचकाय नमः । 160 ओं अष्टमूर्तये नमः । ओं दीप्तमूर्तये नमः । ओं नामोच्चारणमुक्तिदाय नमः । ओं सहस्रादित्यसङ्काशाय नमः । ओं सदाषोडशवार्षिकाय नमः । ओं दिव्यकेलीसमायुक्ताय नमः । ओं दिव्यमाल्याम्बरावृताय नमः । ओं अनर्घरत्नसम्पूर्णाय नमः । ओं मल्लिकाकुसुमप्रियाय नमः । ओं तप्तचामीकराकाराय नमः । ओं जितदावानलाकृतये नमः । ओं निरञ्जनाय नमः । ओं निर्विकाराय नमः । ओं निजावासाय नमः । ओं निराकृतये नमः । ओं जगद्गुरवे नमः । ओं जगत्कर्त्रे नमः । ओं जगदीशाय नमः । ओं जगत्पतये नमः । ओं कामहन्त्रे नमः । 180 ओं काममूर्तये नमः । ओं कल्याणवृषवाहनाय नमः । ओं गङ्गाधराय नमः । ओं महादेवाय नमः । ओं दीनबन्धविमोचकाय नमः । ओं धूर्जटये नमः । ओं खण्डपरशवे नमः । ओं सद्गुणाय नमः । ओं गिरिजासखाय नमः । ओं अव्ययाय नमः । ओं भूतसेनेशाय नमः । ओं पापघ्नाय नमः । ओं पुण्यदायकाय नमः । ओं उपदेष्ट्रे नमः । ओं दृढप्रज्ञाय नमः । ओं रुद्राय नमः । ओं रोगविनाशनाय नमः । ओं नित्यानन्दाय नमः । ओं निराधाराय नमः । ओं हराय नमः । 200 ओं देवशिखामणये नमः । ओं प्रणतार्तिहराय नमः । ओं सोमाय नमः । ओं सान्द्रानन्दाय नमः । ओं महामतये नमः । ओं आश्चर्यवैभवाय नमः । ओं देवाय नमः । ओं संसारार्णवतारकाय नमः । ओं यज्ञेशाय नमः । ओं राजराजेशाय नमः । ओं भस्मरुद्राक्षलाञ्छनाय नमः । ओं अनन्ताय नमः । ओं तारकाय नमः । ओं स्थाणवे नमः । ओं सर्वविद्येश्वराय नमः । ओं हरये नमः । ओं विश्वरूपाय नमः । ओं विरूपाक्षाय नमः । ओं प्रभवे नमः । ओं परिबृढाय नमः । 220 ओं दृढाय नमः । ओं भव्याय नमः । ओं जितारिषड्वर्गाय नमः । ओं महोदाराय नमः । ओं विषाशनाय नमः । ओं सुकीर्तये नमः । ओं आदिपुरुषाय नमः । ओं जरामरणवर्जिताय नमः । ओं प्रमाणभूताय नमः । ओं दुर्ज्ञेयाय नमः । ओं पुण्याय नमः । ओं परपुरञ्जयाय नमः । ओं गुणाकराय नमः । ओं गुणश्रेष्ठाय नमः । ओं सच्चिदानन्दविग्रहाय नमः । ओं सुखदाय नमः । ओं कारणाय नमः । ओं कर्त्रे नमः । ओं भवबन्धविमोचकाय नमः । ओं अनिर्विण्णाय नमः । 240 ओं गुणग्राहिणे नमः । ओं निष्कलङ्काय नमः । ओं कलङ्कघ्ने नमः । ओं पुरुषाय नमः । ओं शाश्वताय नमः । ओं योगिने नमः । ओं व्यक्ताव्यक्ताय नमः । ओं सनातनाय नमः । ओं चराचरात्मने नमः । ओं सूक्ष्मात्मने नमः । ओं विश्वकर्मणे नमः । ओं तमोपहृते नमः । ओं भुजङ्गभूषणाय नमः । ओं भर्गाय नमः । ओं तरुणाय नमः । ओं करुणालयाय नमः । ओं अणिमादिगुणोपेताय नमः । ओं लोकवश्यविधायकाय नमः । ओं योगपट्टधराय नमः । ओं मुक्ताय नमः । 260 ओं मुक्तानां परमायै गतये नमः । ओं गुरुरूपधराय नमः । ओं श्रीमत्परमानन्दसागराय नमः । ओं सहस्रबाहवे नमः । ओं सर्वेशाय नमः । ओं सहस्रावयवान्विताय नमः । ओं सहस्रमूर्ध्ने नमः । ओं सर्वात्मने नमः । ओं सहस्राक्षाय नमः । ओं सहस्रपदे नमः । ओं निराभासाय नमः । ओं सूक्ष्मतनवे नमः । ओं हृदि ज्ञाताय नमः । ओं परात्पराय नमः । ओं सर्वात्मगाय नमः । ओं सर्वसाक्षिणे नमः । ओं निःसङ्गाय नमः । ओं निरुपद्रवाय नमः । ओं निष्कलाय नमः । ओं सकलाध्यक्षाय नमः । 280 ओं चिन्मयाय नमः । ओं तमसः पराय नमः । ओं ज्ञानवैराग्यसम्पन्नाय नमः । ओं योगानन्दमयाय शिवाय नमः । ओं शाश्वतैश्वर्यसम्पूर्णाय नमः । ओं महायोगीश्वरेश्वराय नमः । ओं सहस्रशक्तिसम्युक्ताय नमः । ओं पुण्यकायाय नमः । ओं दुरासदाय नमः । ओं तारकब्रह्मसम्पूर्णाय नमः । ओं तपस्विजनसंवृताय नमः । ओं विधीन्द्रामरसम्पूज्याय नमः । ओं ज्योतिषां ज्योतिषे नमः । ओं उत्तमाय नमः । ओं निरक्षराय नमः । ओं निरालम्बाय नमः । ओं स्वात्मारामाय नमः । ओं विकर्तनाय नमः । ओं निरवद्याय नमः । ओं निरातङ्काय नमः । 300 ओं भीमाय नमः । ओं भीमपराक्रमाय नमः । ओं वीरभद्राय नमः । ओं पुरारातये नमः । ओं जलन्धरशिरोहराय नमः । ओं अन्धकासुरसंहर्त्रे नमः । ओं भगनेत्रभिदे नमः । ओं अद्भुताय नमः । ओं विश्वग्रासाय नमः । ओं अधर्मशत्रवे नमः । ओं ब्रह्मज्ञानैकमन्थराय नमः । ओं अग्रेसराय नमः । ओं तीर्थभूताय नमः । ओं सितभस्मावकुण्ठनाय नमः । ओं अकुण्ठमेधसे नमः । ओं श्रीकण्ठाय नमः । ओं वैकुण्ठपरमप्रियाय नमः । ओं ललाटोज्ज्वलनेत्राब्जाय नमः । ओं तुषारकरशेखराय नमः । ओं गजासुरशिरश्छेत्त्रे नमः । 320 ओं गङ्गोद्भासितमूर्धजाय नमः । ओं कल्याणाचलकोदण्डाय नमः । ओं कमलापतिसायकाय नमः । ओं वारांशेवधितूणीराय नमः । ओं सरोजासनसारथये नमः । ओं त्रयीतुरङ्गसङ्क्रान्ताय नमः । ओं वासुकिज्याविराजिताय नमः । ओं रवीन्दुचरणाचारिधरारथविराजिताय नमः । ओं त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः । ओं उत्तानपर्वलोमाढ्याय नमः । ओं लीलाविजितमन्मथाय नमः । ओं जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः । ओं संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः । ओं मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः । ओं मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः । ओं कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः । ओं विष्णवे नमः । ओं जिष्णवे नमः । ओं वासुदेवाय नमः । ओं प्रभविष्णवे नमः । 340 ओं पुरातनाय नमः । ओं वर्धिष्णवे नमः । ओं वरदाय नमः । ओं वैद्याय नमः । ओं हरये नमः । ओं नारायणाय नमः । ओं अच्युताय नमः । ओं अज्ञानवनदावाग्नये नमः । ओं प्रज्ञाप्रासादभूपतये नमः । ओं सर्पभूषितसर्वाङ्गाय नमः । ओं कर्पूरोज्ज्वलिताकृतये नमः । ओं अनादिमध्यनिधनाय नमः । ओं गिरीशाय नमः । ओं गिरिजापतये नमः । ओं वीतरागाय नमः । ओं विनीतात्मने नमः । ओं तपस्विने नमः । ओं भूतभावनाय नमः । ओं देवासुरगुरुध्येयाय नमः । ओं देवासुरनमस्कृताय नमः । 360 ओं देवादिदेवाय नमः । ओं देवर्षये नमः । ओं देवासुरवरप्रदाय नमः । ओं सर्वदेवमयाय नमः । ओं अचिन्त्याय नमः । ओं देवात्मने नमः । ओं आत्मसम्भवाय नमः । ओं निर्लेपाय नमः । ओं निष्प्रपञ्चात्मने नमः । ओं निर्विघ्नाय नमः । ओं विघ्ननाशकाय नमः । ओं एकज्योतिषे नमः । ओं निरातङ्काय नमः । ओं व्याप्तमूर्तये नमः । ओं अनाकुलाय नमः । ओं निरवद्यपदोपाधये नमः । ओं विद्याराशये नमः । ओं अनुत्तमाय नमः । ओं नित्यानन्दाय नमः । ओं सुराध्यक्षाय नमः । 380 ओं निःसङ्कल्पाय नमः । ओं निरञ्जनाय नमः । ओं निष्कलङ्काय नमः । ओं निराकाराय नमः । ओं निष्प्रपञ्चाय नमः । ओं निरामयाय नमः । ओं विद्याधराय नमः । ओं वियत्केशाय नमः । ओं मार्कण्डेयवरप्रदाय नमः । ओं भैरवाय नमः । ओं भैरवीनाथाय नमः । ओं कामदाय नमः । ओं कमलासनाय नमः । ओं वेदवेद्याय नमः । ओं सुरानन्दाय नमः । ओं लसज्ज्योतिषे नमः । ओं प्रभाकराय नमः । ओं चूडामणये नमः । ओं सुराधीशाय नमः । ओं यज्ञगेयाय नमः । 400 ओं हरिप्रियाय नमः । ओं निर्लेपाय नमः । ओं नीतिमते नमः । ओं सूत्रिणे नमः । ओं श्रीहालाहलसुन्दराय नमः । ओं धर्मदक्षाय नमः । ओं महाराजाय नमः । ओं किरीटिने नमः । ओं वन्दिताय नमः । ओं गुहाय नमः । ओं माधवाय नमः । ओं यामिनीनाथाय नमः । ओं शम्बराय नमः । ओं शबरीप्रियाय नमः । ओं सङ्गीतवेत्त्रे नमः । ओं लोकज्ञाय नमः । ओं शान्ताय नमः । ओं कलशसम्भवाय नमः । ओं ब्रह्मण्याय नमः । ओं वरदाय नमः । 420 ओं नित्याय नमः । ओं शूलिने नमः । ओं गुरुवराय हराय नमः । ओं मार्ताण्डाय नमः । ओं पुण्डरीकाक्षाय नमः । ओं लोकनायकविक्रमाय नमः । ओं मुकुन्दार्च्याय नमः । ओं वैद्यनाथाय नमः । ओं पुरन्दरवरप्रदाय नमः । ओं भाषाविहीनाय नमः । ओं भाषाज्ञाय नमः । ओं विघ्नेशाय नमः । ओं विघ्ननाशनाय नमः । ओं किन्नरेशाय नमः । ओं बृहद्भानवे नमः । ओं श्रीनिवासाय नमः । ओं कपालभृते नमः । ओं विजयाय नमः । ओं भूतभावज्ञाय नमः । ओं भीमसेनाय नमः । 440 ओं दिवाकराय नमः । ओं बिल्वप्रियाय नमः । ओं वसिष्ठेशाय नमः । ओं सर्वमार्गप्रवर्तकाय नमः । ओं ओषधीशाय नमः । ओं वामदेवाय नमः । ओं गोविन्दाय नमः । ओं नीललोहिताय नमः । ओं षडर्धनयनाय नमः । ओं श्रीमन्महादेवाय नमः । ओं वृषध्वजाय नमः । ओं कर्पूरदीपिकालोलाय नमः । ओं कर्पूररसचर्चिताय नमः । ओं अव्याजकरुणामूर्तये नमः । ओं त्यागराजाय नमः । ओं क्षपाकराय नमः । ओं आश्चर्यविग्रहाय नमः । ओं सूक्ष्माय नमः । ओं सिद्धेशाय नमः । ओं स्वर्णभैरवाय नमः । 460 ओं देवराजाय नमः । ओं कृपासिन्धवे नमः । ओं अद्वयाय नमः । ओं अमितविक्रमाय नमः । ओं निर्भेदाय नमः । ओं नित्यसत्वस्थाय नमः । ओं निर्योगक्षेमाय नमः । ओं आत्मवते नमः । ओं निरपायाय नमः । ओं निरासङ्गाय नमः । ओं निःशब्दाय नमः । ओं निरुपाधिकाय नमः । ओं भवाय नमः । ओं सर्वेश्वराय नमः । ओं स्वामिने नमः । ओं भवभीतिविभञ्जनाय नमः । ओं दारिद्र्यतृणकूटाग्नये नमः । ओं दारितासुरसन्ततये नमः । ओं मुक्तिदाय नमः । ओं मुदिताय नमः । 480 ओं अकुब्जाय नमः । ओं धार्मिकाय नमः । ओं भक्तवत्सलाय नमः । ओं अभ्यासातिशयज्ञेयाय नमः । ओं चन्द्रमौलये नमः । ओं कलाधराय नमः । ओं महाबलाय नमः । ओं महावीर्याय नमः । ओं विभवे नमः । ओं श्रीशाय नमः । ओं शुभप्रदाय नमः । ओं सिद्धाय नमः । ओं पुराणपुरुषाय नमः । ओं रणमण्डलभैरवाय नमः । ओं सद्योजाताय नमः । ओं वटारण्यवासिने नमः । ओं पुरुषवल्लभाय नमः । ओं हरिकेशाय नमः । ओं महात्रात्रे नमः । ओं नीलग्रीवाय नमः । 500 ओं सुमङ्गलाय नमः । ओं हिरण्यबाहवे नमः । ओं तीक्ष्णांशवे नमः । ओं कामेशाय नमः । ओं सोमविग्रहाय नमः । ओं सर्वात्मने नमः । ओं सर्वकर्त्रे नमः । ओं ताण्डवाय नमः । ओं मुण्डमालिकाय नमः । ओं अग्रगण्याय नमः । ओं सुगम्भीराय नमः । ओं देशिकाय नमः । ओं वैदिकोत्तमाय नमः । ओं प्रसन्नदेवाय नमः । ओं वागीशाय नमः । ओं चिन्तातिमिरभास्कराय नमः । ओं गौरीपतये नमः । ओं तुङ्गमौलये नमः । ओं मखराजाय नमः । ओं महाकवये नमः । 520 ओं श्रीधराय नमः । ओं सर्वसिद्धेशाय नमः । ओं विश्वनाथाय नमः । ओं दयानिधये नमः । ओं अन्तर्मुखाय नमः । ओं बहिर्दृष्टये नमः । ओं सिद्धवेषमनोहराय नमः । ओं कृत्तिवाससे नमः । ओं कृपासिन्धवे नमः । ओं मन्त्रसिद्धाय नमः । ओं मतिप्रदाय नमः । ओं महोत्कृष्टाय नमः । ओं पुण्यकराय नमः । ओं जगत्साक्षिणे नमः । ओं सदाशिवाय नमः । ओं महाक्रतवे नमः । ओं महायज्वने नमः । ओं विश्वकर्मणे नमः । ओं तपोनिधये नमः । ओं छन्दोमयाय नमः । 540 ओं महाज्ञानिने नमः । ओं सर्वज्ञाय नमः । ओं देववन्दिताय नमः । ओं सार्वभौमाय नमः । ओं सदानन्दाय नमः । ओं करुणामृतवारिधये नमः । ओं कालकालाय नमः । ओं कलिध्वंसिने नमः । ओं जरामरणनाशकाय नमः । ओं शितिकण्ठाय नमः । ओं चिदानन्दाय नमः । ओं योगिनीगणसेविताय नमः । ओं चण्डीशाय नमः । ओं शुकसंवेद्याय नमः । ओं पुण्यश्लोकाय नमः । ओं दिवस्पतये नमः । ओं स्थायिने नमः । ओं सकलतत्त्वात्मने नमः । ओं सदासेवकवर्धनाय नमः । ओं रोहिताश्वाय नमः । 560 ओं क्षमारूपिणे नमः । ओं तप्तचामीकरप्रभाय नमः । ओं त्रियम्बकाय नमः । ओं वररुचये नमः । ओं देवदेवाय नमः । ओं चतुर्भुजाय नमः । ओं विश्वम्भराय नमः । ओं विचित्राङ्गाय नमः । ओं विधात्रे नमः । ओं पुरशासनाय नमः । ओं सुब्रह्मण्याय नमः । ओं जगत्स्वामिने नमः । ओं रोहिताक्षाय नमः । ओं शिवोत्तमाय नमः । ओं नक्षत्रमालाभरणाय नमः । ओं मघवते नमः । ओं अघनाशनाय नमः । ओं विधिकर्त्रे नमः । ओं विधानज्ञाय नमः । ओं प्रधानपुरुषेश्वराय नमः । 580 ओं चिन्तामणये नमः । ओं सुरगुरवे नमः । ओं ध्येयाय नमः । ओं नीराजनप्रियाय नमः । ओं गोविन्दाय नमः । ओं राजराजेशाय नमः । ओं बहुपुष्पार्चनप्रियाय नमः । ओं सर्वानन्दाय नमः । ओं दयारूपिणे नमः । ओं शैलजासुमनोहराय नमः । ओं सुविक्रमाय नमः । ओं सर्वगताय नमः । ओं हेतुसाधनवर्जिताय नमः । ओं वृषाङ्काय नमः । ओं रमणीयाङ्गाय नमः । ओं सदङ्घ्रये नमः । ओं सामपारगाय नमः । ओं मन्त्रात्मने नमः । ओं कोटिकन्दर्पसौन्दर्यरसवारिधये नमः । ओं यज्ञेशाय नमः । 600 ओं यज्ञपुरुषाय नमः । ओं सृष्टिस्थित्यन्तकारणाय नमः । ओं परहंसैकजिज्ञास्याय नमः । ओं स्वप्रकाशस्वरूपवते नमः । ओं मुनिमृग्याय नमः । ओं देवमृग्याय नमः । ओं मृगहस्ताय नमः । ओं मृगेश्वराय नमः । ओं मृगेन्द्रचर्मवसनाय नमः । ओं नरसिंहनिपातनाय नमः । ओं मुनिवन्द्याय नमः । ओं मुनिश्रेष्ठाय नमः । ओं मुनिबृन्दनिषेविताय नमः । ओं दुष्टमृत्यवे नमः । ओं अदुष्टेहाय नमः । ओं मृत्युघ्ने नमः । ओं मृत्युपूजिताय नमः । ओं अव्यक्ताय नमः । ओं अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः । ओं लिङ्गमूर्तये नमः । 620 ओं अलिङ्गात्मने नमः । ओं लिङ्गात्मने नमः । ओं लिङ्गविग्रहाय नमः । ओं यजुर्मूर्तये नमः । ओं साममूर्तये नमः । ओं ऋङ्मूर्तये नमः । ओं मूर्तिवर्जिताय नमः । ओं विश्वेशाय नमः । ओं गजचर्मैकचेलाञ्चितकटीतटाय नमः । ओं पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः । ओं अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः । ओं चिन्ताशोकप्रशमनाय नमः । ओं सर्वविद्याविशारदाय नमः । ओं भक्तविज्ञप्तिसन्धात्रे नमः । ओं कर्त्रे नमः । ओं गिरिवराकृतये नमः । ओं ज्ञानप्रदाय नमः । ओं मनोवासाय नमः । ओं क्षेम्याय नमः । ओं मोहविनाशनाय नमः । 640 ओं सुरोत्तमाय नमः । ओं चित्रभानवे नमः । ओं सदावैभवतत्पराय नमः । ओं सुहृदग्रेसराय नमः । ओं सिद्धज्ञानमुद्राय नमः । ओं गणाधिपाय नमः । ओं आगमाय नमः । ओं चर्मवसनाय नमः । ओं वाञ्छितार्थफलप्रदाय नमः । ओं अन्तर्हिताय नमः । ओं असमानाय नमः । ओं देवसिंहासनाधिपाय नमः । ओं विवादहन्त्रे नमः । ओं सर्वात्मने नमः । ओं कालाय नमः । ओं कालविवर्जिताय नमः । ओं विश्वातीताय नमः । ओं विश्वकर्त्रे नमः । ओं विश्वेशाय नमः । ओं विश्वकारणाय नमः । 660 ओं योगिध्येयाय नमः । ओं योगनिष्ठाय नमः । ओं योगात्मने नमः । ओं योगवित्तमाय नमः । ओं ओङ्काररूपाय नमः । ओं भगवते नमः । ओं बिन्दुनादमयाय शिवाय नमः । ओं चतुर्मुखादिसंस्तुत्याय नमः । ओं चतुर्वर्गफलप्रदाय नमः । ओं सह्याचलगुहावासिने नमः । ओं साक्षान्मोक्षरसामृताय नमः । ओं दक्षाध्वरसमुच्छेत्त्रे नमः । ओं पक्षपातविवर्जिताय नमः । ओं ओङ्कारवाचकाय नमः । ओं शम्भवे नमः । ओं शङ्कराय नमः । ओं शशिशीतलाय नमः । ओं पङ्कजासनसंसेव्याय नमः । ओं किङ्करामरवत्सलाय नमः । ओं नतदौर्भाग्यतूलाग्नये नमः । 680 ओं कृतकौतुकमङ्गलाय नमः । ओं त्रिलोकमोहनाय नमः । ओं श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः । ओं क्रौञ्चारिजनकाय नमः । ओं श्रीमद्गणनाथसुतान्विताय नमः । ओं अद्भुतानन्तवरदाय नमः । ओं अपरिच्छिनात्मवैभवाय नमः । ओं इष्टापूर्तप्रियाय नमः । ओं शर्वाय नमः । ओं एकवीराय नमः । ओं प्रियंवदाय नमः । ओं ऊहापोहविनिर्मुक्ताय नमः । ओं ओङ्कारेश्वरपूजिताय नमः । ओं रुद्राक्षवक्षसे नमः । ओं रुद्राक्षरूपाय नमः । ओं रुद्राक्षपक्षकाय नमः । ओं भुजगेन्द्रलसत्कण्ठाय नमः । ओं भुजङ्गाभरणप्रियाय नमः । ओं कल्याणरूपाय नमः । ओं कल्याणाय नमः । 700 ओं कल्याणगुणसंश्रयाय नमः । ओं सुन्दरभ्रुवे नमः । ओं सुनयनाय नमः । ओं सुललाटाय नमः । ओं सुकन्धराय नमः । ओं विद्वज्जनाश्रयाय नमः । ओं विद्वज्जनस्तव्यपराक्रमाय नमः । ओं विनीतवत्सलाय नमः । ओं नीतिस्वरूपाय नमः । ओं नीतिसंश्रयाय नमः । ओं अतिरागिणे नमः । ओं वीतरागिणे नमः । ओं रागहेतवे नमः । ओं विरागविदे नमः । ओं रागघ्ने नमः । ओं रागशमनाय नमः । ओं रागदाय नमः । ओं रागिरागविदे नमः । ओं मनोन्मनाय नमः । ओं मनोरूपाय नमः । 720 ओं बलप्रमथनाय नमः । ओं बलाय नमः । ओं विद्याकराय नमः । ओं महाविद्याय नमः । ओं विद्याविद्याविशारदाय नमः । ओं वसन्तकृते नमः । ओं वसन्तात्मने नमः । ओं वसन्तेशाय नमः । ओं वसन्तदाय नमः । ओं प्रावृट्कृते नमः । ओं प्रावृडाकाराय नमः । ओं प्रावृट्कालप्रवर्तकाय नमः । ओं शरन्नाथाय नमः । ओं शरत्कालनाशकाय नमः । ओं शरदाश्रयाय नमः । ओं कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः । ओं दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय नमः । ओं देवासुरगुरुस्तव्याय नमः । ओं देवासुरनमस्कृताय नमः । ओं वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः । 740 ओं कीर्त्याधाराय नमः । ओं कीर्तिकराय नमः । ओं कीर्तिहेतवे नमः । ओं अहेतुकाय नमः । ओं शरणागतदीनार्तपरित्राणपरायणाय नमः । ओं महाप्रेतासनासीनाय नमः । ओं जितसर्वपितामहाय नमः । ओं मुक्तादामपरीताङ्गाय नमः । ओं नानागानविशारदाय नमः । ओं विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः । ओं नानादेशैकनायकाय नमः । ओं धीरोदात्ताय नमः । ओं महाधीराय नमः । ओं धैर्यदाय नमः । ओं धैर्यवर्धकाय नमः । ओं विज्ञानमयाय नमः । ओं आनन्दमयाय नमः । ओं प्राणमयाय नमः । ओं अन्नदाय नमः । ओं भवाब्धितरणोपायाय नमः । 760 ओं कवये नमः । ओं दुःस्वप्ननाशनाय नमः । ओं गौरीविलाससदनाय नमः । ओं पिशचानुचरावृताय नमः । ओं दक्षिणाप्रेमसन्तुष्टाय नमः । ओं दारिद्र्यवडवानलाय नमः । ओं अद्भुतानन्तसङ्ग्रामाय नमः । ओं ढक्कावादनतत्पराय नमः । ओं प्राच्यात्मने नमः । ओं दक्षिणाकाराय नमः । ओं प्रतीच्यात्मने नमः । ओं उत्तराकृतये नमः । ओं ऊर्ध्वाद्यन्यदिगाकाराय नमः । ओं मर्मज्ञाय नमः । ओं सर्वशिक्षकाय नमः । ओं युगावहाय नमः । ओं युगाधीशाय नमः । ओं युगात्मने नमः । ओं युगनायकाय नमः । ओं जङ्गमाय नमः । 780 ओं स्थावराकाराय नमः । ओं कैलासशिखरप्रियाय नमः । ओं हस्तराजत्पुण्डरीकाय नमः । ओं पुण्डरीकनिभेक्षणाय नमः । ओं लीलाविडम्बितवपुषे नमः । ओं भक्तमानसमण्डिताय नमः । ओं बृन्दारकप्रियतमाय नमः । ओं बृन्दारकवरार्चिताय नमः । ओं नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः । ओं निःसीममहिम्ने नमः । ओं नित्यलीलाविग्रहरूपधृते नमः । ओं चन्दनद्रवदिग्धाङ्गाय नमः । ओं चाम्पेयकुसुमार्चिताय नमः । ओं समस्तभक्तसुखदाय नमः । ओं परमाणवे नमः । ओं महाह्रदाय नमः । ओं अलौकिकाय नमः । ओं दुष्प्रधर्षाय नमः । ओं कपिलाय नमः । ओं कालकन्धराय नमः । 800 ओं कर्पूरगौराय नमः । ओं कुशलाय नमः । ओं सत्यसन्धाय नमः । ओं जितेन्द्रियाय नमः । ओं शाश्वतैश्वर्यविभवाय नमः । ओं पोषकाय नमः । ओं सुसमाहिताय नमः । ओं महर्षिनाथिताय नमः । ओं ब्रह्मयोनये नमः । ओं सर्वोत्तमोत्तमाय नमः । ओं भूमिभारार्तिसंहर्त्रे नमः । ओं षडूर्मिरहिताय नमः । ओं मृडाय नमः । ओं त्रिविष्टपेश्वराय नमः । ओं सर्वहृदयाम्बुजमध्यगाय नमः । ओं सहस्रदलपद्मस्थाय नमः । ओं सर्ववर्णोपशोभिताय नमः । ओं पुण्यमूर्तये नमः । ओं पुण्यलभ्याय नमः । ओं पुण्यश्रवणकीर्तनाय नमः । 820 ओं सूर्यमण्डलमध्यस्थाय नमः । ओं चन्द्रमण्डलमध्यगाय नमः । ओं सद्भक्तध्याननिगलाय नमः । ओं शरणागतपालकाय नमः । ओं श्वेतातपत्ररुचिराय नमः । ओं श्वेतचामरवीजिताय नमः । ओं सर्वावयवसम्पूर्णाय नमः । ओं सर्वलक्षणलक्षिताय नमः । ओं सर्वमङ्गलमाङ्गल्याय नमः । ओं सर्वकारणकारणाय नमः । ओं आमोदाय नमः । ओं मोदजनकाय नमः । ओं सर्पराजोत्तरीयकाय नमः । ओं कपालिने नमः । ओं कोविदाय नमः । ओं सिद्धकान्तिसंवलिताननाय नमः । ओं सर्वसद्गुरुसंसेव्याय नमः । ओं दिव्यचन्दनचर्चिताय नमः । ओं विलासिनीकृतोल्लासाय नमः । ओं इच्छाशक्तिनिषेविताय नमः । 840 ओं अनन्तानन्दसुखदाय नमः । ओं नन्दनाय नमः । ओं श्रीनिकेतनाय नमः । ओं अमृताब्धिकृतावासाय नमः । ओं नित्यक्लीबाय नमः । ओं निरामयाय नमः । ओं अनपायाय नमः । ओं अनन्तदृष्टये नमः । ओं अप्रमेयाय नमः । ओं अजराय नमः । ओं अमराय नमः । ओं तमोमोहप्रतिहतये नमः । ओं अप्रतर्क्याय नमः । ओं अमृताय नमः । ओं अक्षराय नमः । ओं अमोघबुद्धये नमः । ओं आधाराय नमः । ओं आधाराधेयवर्जिताय नमः । ओं ईषणात्रयनिर्मुक्ताय नमः । ओं इहामुत्रविवर्जिताय नमः । 860 ओं ऋग्यजुःसामनयनाय नमः । ओं बुद्धिसिद्धिसमृद्धिदाय नमः । ओं औदार्यनिधये नमः । ओं आपूर्णाय नमः । ओं ऐहिकामुष्मिकप्रदाय नमः । ओं शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहाय नमः । ओं दर्शनप्रथमाभासाय नमः । ओं दृष्टिदृश्यविवर्जिताय नमः । ओं अग्रगण्याय नमः । ओं अचिन्त्यरूपाय नमः । ओं कलिकल्मषनाशनाय नमः । ओं विमर्शरूपाय नमः । ओं विमलाय नमः । ओं नित्यरूपाय नमः । ओं निराश्रयाय नमः । ओं नित्यशुद्धाय नमः । ओं नित्यबुद्धाय नमः । ओं नित्यमुक्ताय नमः । ओं अपराकृताय नमः । ओं मैत्र्यादिवासनालभ्याय नमः । 880 ओं महाप्रलयसंस्थिताय नमः । ओं महाकैलासनिलयाय नमः । ओं प्रज्ञानघनविग्रहाय नमः । ओं श्रीमते नमः । ओं व्याघ्रपुरावासाय नमः । ओं भुक्तिमुक्तिप्रदायकाय नमः । ओं जगद्योनये नमः । ओं जगत्साक्षिणे नमः । ओं जगदीशाय नमः । ओं जगन्मयाय नमः । ओं जपाय नमः । ओं जपपराय नमः । ओं जप्याय नमः । ओं विद्यासिंहासनप्रभवे नमः । ओं तत्त्वानां प्रकृतये नमः । ओं तत्त्वाय नमः । ओं तत्त्वम्पदनिरूपिताय नमः । ओं दिक्कालाद्यनवच्छिन्नाय नमः । ओं सहजानन्दसागराय नमः । ओं प्रकृतये नमः । 900 ओं प्राकृतातीताय नमः । ओं विज्ञानैकरसाकृतये नमः । ओं निःशङ्कमतिदूरस्थाय नमः । ओं चैत्यचेतनचिन्तनाय नमः । ओं तारकानां हृदन्तस्थाय नमः । ओं तारकाय नमः । ओं तारकान्तकाय नमः । ओं ध्यानैकप्रकटाय नमः । ओं ध्येयाय नमः । ओं ध्यानिने नमः । ओं ध्यानविभूषणाय नमः । ओं परस्मै व्योम्ने नमः । ओं परस्मै धाम्ने नमः । ओं परमात्मने नमः । ओं परस्मै पदाय नमः । ओं पूर्णानन्दाय नमः । ओं सदानन्दाय नमः । ओं नादमध्यप्रतिष्ठिताय नमः । ओं प्रमाविपर्ययातीताय नमः । ओं प्रणताज्ञाननाशकाय नमः । 920 ओं बाणार्चिताङ्घ्रये नमः । ओं बहुदाय नमः । ओं बालकेलिकुतूहलिने नमः । ओं ब्रह्मरूपिणे नमः । ओं ब्रह्मपदाय नमः । ओं ब्रह्मविदे नमः । ओं ब्राह्मणप्रियाय नमः । ओं भूक्षेपदत्तलक्ष्मीकाय नमः । ओं भ्रूमध्यध्यानलक्षिताय नमः । ओं यशस्कराय नमः । ओं रत्नगर्भाय नमः । ओं महाराज्यसुखप्रदाय नमः । ओं शब्दब्रह्मणे नमः । ओं शमप्राप्याय नमः । ओं लाभकृते नमः । ओं लोकविश्रुताय नमः । ओं शास्त्रे नमः । ओं शिवाद्रिनिलयाय नमः । ओं शरण्याय नमः । ओं याजकप्रियाय नमः । 940 ओं संसारवैद्याय नमः । ओं सर्वज्ञाय नमः । ओं सभेषजविभेषजाय नमः । ओं मनोवचोभिरग्राह्याय नमः । ओं पञ्चकोशविलक्षणाय नमः । ओं अवस्थात्रयनिर्मुक्ताय नमः । ओं अवस्थासाक्षितुर्यकाय नमः । ओं पञ्चभूतादिदूरस्थाय नमः । ओं प्रत्यगेकरसाय नमः । ओं अव्ययाय नमः । ओं षट्चक्रान्तर्गतोल्लासिने नमः । ओं षड्विकारविवर्जिताय नमः । ओं विज्ञानघनसम्पूर्णाय नमः । ओं वीणावादनतत्पराय नमः । ओं नीहाराकारगौराङ्गाय नमः । ओं महालावण्यवारिधये नमः । ओं पराभिचारशमनाय नमः । ओं षडध्वोपरिसंस्थिताय नमः । ओं सुषुम्नामार्गसञ्चारिणे नमः । ओं बिसतन्तुनिभाकृतये नमः । 960 ओं पिनाकिने नमः । ओं लिङ्गरूपश्रिये नमः । ओं मङ्गलावयवोज्ज्वलाय नमः । ओं क्षेत्राधिपाय नमः । ओं सुसंवेद्याय नमः । ओं श्रीप्रदाय नमः । ओं विभवप्रदाय नमः । ओं सर्ववश्यकराय नमः । ओं सर्वदोषघ्ने नमः । ओं पुत्रपौत्रदाय नमः । ओं तैलदीपप्रियाय नमः । ओं तैलपक्वान्नप्रीतमानसाय नमः । ओं तैलाभिषेकसन्तुष्टाय नमः । ओं तिलभक्षणतत्पराय नमः । ओं आपादकणिकामुक्ताभूषाशतमनोहराय नमः । ओं शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः । ओं मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः । ओं अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः । ओं कन्दर्पतूणाभजङ्घाय नमः । ओं गुल्फोदञ्चितनूपुराय नमः । 980 ओं करिहस्तोपमेयोरवे नमः । ओं आदर्शोज्ज्वलजानुभृते नमः । ओं विशङ्कटकटिन्यस्तवाचालमणिमेखलाय नमः । ओं आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः । ओं मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः । ओं वीरासनसमासीनाय नमः । ओं वीणापुस्तोल्लसत्कराय नमः । ओं अक्षमालालसत्पाणये नमः । ओं चिन्मुद्रितकराम्बुजाय नमः । ओं माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः । ओं अनर्घरत्नग्रैवेयविलसत्कम्बुकन्धराय नमः । ओं अनाकलितसादृश्यचिबुकश्रीविराजिताय नमः । ओं मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः । ओं चारुचाम्पेयपुष्पाभनासिकापुटरञ्जिताय नमः । ओं वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः । ओं कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः । ओं करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः । ओं अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः । ओं चारुचामीकराकारजटाचर्चितचन्दनाय नमः । ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । 1000 इति श्री दक्षिणामूर्ति सहस्रनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits