Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दक्षिणामूर्ति मन्त्रार्णाष्टोत्तर शत नामावलिः

ओं ओङ्काराचलसिंहेन्द्राय नमः ।
ओं ओङ्कारोद्यानकोकिलाय नमः ।
ओं ओङ्कारनीडशुकराजे नमः ।
ओं ओङ्कारारण्यकुञ्जराय नमः ।
ओं नगराजसुताजानये नमः ।
ओं नगराजनिजालयाय नमः ।
ओं नवमाणिक्यमालाढ्याय नमः ।
ओं नवचन्द्रशिखामणये नमः ।
ओं नन्दिताशेषमौनीन्द्राय नमः ।
ओं नन्दीशादिमदेशिकाय नमः । 10
ओं मोहानलसुधाधाराय नमः ।
ओं मोहाम्बुजसुधाकराय नमः ।
ओं मोहान्धकारतरणये नमः ।
ओं मोहोत्पलनभोमणये नमः ।
ओं भक्तज्ञानाब्धिशीतांशवे नमः ।
ओं भक्ताज्ञानतृणानलाय नमः ।
ओं भक्ताम्भोजसहस्रांशवे नमः ।
ओं भक्तकेकिघनाघनाय नमः ।
ओं भक्तकैरवराकेन्दवे नमः ।
ओं भक्तकोकदिवाकराय नमः । 20
ओं गजाननादिसम्पूज्याय नमः ।
ओं गजचर्मोज्ज्वलाकृतये नमः ।
ओं गङ्गाधवलदिव्याङ्गाय नमः ।
ओं गङ्गाभङ्गलसज्जटाय नमः ।
ओं गगनाम्बरसंवीताय नमः ।
ओं गगनामुक्तमूर्धजाय नमः ।
ओं वदनाब्जजितश्रिये नमः ।
ओं वदनेन्दुस्फुरद्दिशाय नमः ।
ओं वरदानैकनिपुणाय नमः ।
ओं वरवीणोज्ज्वलत्कराय नमः । 30
ओं वनवाससमुल्लासिने नमः ।
ओं वनलीलैकलोलुपाय नमः ।
ओं तेजःपुञ्जघनाकाराय नमः ।
ओं तेजसामविभासकाय नमः ।
ओं विधेयानां तेजःप्रदाय नमः ।
ओं तेजोमयनिजाश्रमाय नमः ।
ओं दमितानङ्गसङ्ग्रामाय नमः ।
ओं दरहासोज्ज्वलन्मुखाय नमः ।
ओं दयारससुधासिन्धवे नमः ।
ओं दरिद्रधनशेवधये नमः । 40
ओं क्षीरेन्दुस्फटिकाकाराय नमः ।
ओं क्षितीन्द्रमकुटोज्ज्वलाय नमः ।
ओं क्षीरोपहाररसिकाय नमः ।
ओं क्षिप्रैश्वर्यफलप्रदाय नमः ।
ओं नानाभरणमुक्ताङ्गाय नमः ।
ओं नारीसम्मोहनाकृतये नमः ।
ओं नादब्रह्मरसास्वादिने नमः ।
ओं नागभूषणभूषिताय नमः ।
ओं मूर्तिनिन्दितकन्दर्पाय नमः ।
ओं मूर्तामूर्तजगद्वपुषे नमः । 50
ओं मूकाज्ञानतमोभानवे नमः ।
ओं मूर्तिमत्कल्पपादपाय नमः ।
ओं तरुणादित्यसङ्काशाय नमः ।
ओं तन्त्रीवादनतत्पराय नमः ।
ओं तरुमूलैकनिलयाय नमः ।
ओं तप्तजाम्बूनदप्रभाय नमः ।
ओं तत्त्वपुस्तोल्लसत्पाणये नमः ।
ओं तपनोडुपलोचनाय नमः ।
ओं यमसन्नुतसत्कीर्तये नमः ।
ओं यमसम्यमसम्युताय नमः । 60
ओं यतिरूपधराय नमः ।
ओं मौनमुनीन्द्रोपास्यविग्रहाय नमः ।
ओं मन्दारहाररुचिराय नमः ।
ओं मदनायुतसुन्दराय नमः ।
ओं मन्दस्मितलसद्वक्त्राय नमः ।
ओं मधुराधरपल्लवाय नमः ।
ओं मञ्जीरमञ्जुपादाब्जाय नमः ।
ओं मणिपट्टोलसत्कटये नमः ।
ओं हस्ताङ्कुरितचिन्मुद्राय नमः ।
ओं हंसयोगपटूत्तमाय नमः । 70
ओं हंसजप्याक्षमालाढ्याय नमः ।
ओं हंसेन्द्राराध्यपादुकाय नमः ।
ओं मेरुशृङ्गसमुल्लासिने नमः ।
ओं मेघश्याममनोहराय नमः ।
ओं मेघाङ्गुरालवालाग्र्याय नमः ।
ओं मेधापक्वफलद्रुमाय नमः ।
ओं धार्मिकान्तकृतावासाय नमः ।
ओं धर्ममार्गप्रवर्तकाय नमः ।
ओं धामत्रयनिजारामाय नमः ।
ओं धरोत्तममहारथाय नमः । 80
ओं प्रबोधोदारदीपश्रिये नमः ।
ओं प्रकाशितजगत्त्रयाय नमः ।
ओं प्रज्ञाचन्द्रशिलाचन्द्राय नमः ।
ओं प्रज्ञामणिलसत्कराय नमः ।
ओं ज्ञानिहृद्भासमानात्मने नमः ।
ओं ज्ञातॄणामविदूरगाय नमः ।
ओं ज्ञानायादृतदिव्याङ्गाय नमः ।
ओं ज्ञातिजातिकुलातिगाय नमः ।
ओं प्रपन्नपारिजाताग्र्याय नमः ।
ओं प्रणतार्त्यब्धिबाडबाय नमः । 90
ओं भूतानां प्रमाणभूताय नमः ।
ओं प्रपञ्चहितकारकाय नमः ।
ओं यमिसत्तमसंसेव्याय नमः ।
ओं यक्षगेयात्मवैभवाय नमः ।
ओं यज्ञाधिदेवतामूर्तये नमः ।
ओं यजमानवपुर्धराय नमः ।
ओं छत्राधिपदिगीशाय नमः ।
ओं छत्रचामरसेविताय नमः ।
ओं छन्दः शास्त्रादिनिपुणाय नमः ।
ओं छलजात्यादिदूरगाय नमः । 100
ओं स्वाभाविकसुखैकात्मने नमः ।
ओं स्वानुभूतिरसोदधये नमः ।
ओं स्वाराज्यसम्पदध्यक्षाय नमः ।
ओं स्वात्माराममहामतये नमः ।
ओं हाटकाभजटाजूटाय नमः ।
ओं हासोदस्तारिमण्डलाय नमः ।
ओं हालाहलोज्ज्वलगलाय नमः ।
ओं हारायितभुजङ्गमाय नमः । 108
इति श्री दक्षिणामूर्ति मन्त्रार्णाष्टोत्तरशतनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits