Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

दक्षिणामूर्ति कवचम्

पार्वत्युवाच नमस्तेऽस्तु त्रयीनाथ परमानन्दकारक कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो 1 ईश्वर उवाच वक्ष्येऽहं देवदेवेशि दक्षिणामूर्तिरव्ययम् कवचं सर्वपापघ्नं वेदान्तज्ञानगोचरम् 2 अणिमादि महासिद्धिविधानचतुरं शुभम् वेदशास्त्रपुराणानि कविता तर्क एव 3 बहुधा देवि जायन्ते कवचस्य प्रभावतः ऋषिर्ब्रह्मा समुद्दिष्टश्छन्दोऽनुष्टुबुदाहृतम् 4 देवता दक्षिणामूर्तिः परमात्मा सदाशिवः बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते 5 ध्यानम् अद्वन्द्वनेत्रममलेन्दुकलावतंसं हंसावलम्बित समान जटाकलापम् आनीलकण्ठमुपकण्ठमुनिप्रवीरान् अध्यापयन्तमवलोकय लोकनाथम् कवचम् ओम् शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः दृशौ पातु महादेवः श्रवणे चन्द्रशेखरः 1 कपोलौ पातु मे रुद्रो नासां पातु जगद्गुरुः मुखं गौरीपतिः पातु रसनां वेदरूपधृत् 2 दशनां त्रिपुरध्वंसी चोष्ठं पन्नगभूषणः अधरं पातु विश्वात्मा हनू पातु जगन्मयः 3 चुबुकं देवदेवस्तु पातु कण्ठं जटाधरः स्कन्धौ मे पातु शुद्धात्मा करौ पातु यमान्तकः 4 कुचाग्रं करमध्यं नखरान् शङ्करः स्वयम् हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः 5 मध्यमं पातु शर्वो मे नाभिं नारायणप्रियः कटिं पातु जगद्भर्ता सक्थिनी क्ष्च मृडः स्वयम् 6 कृत्तिवासाः स्वयं गुह्यामूरू पातु पिनाकधृत् जानुनी त्र्यम्बकः पातु जङ्घे पातु सदाशिवः 7 स्मरारिः पातु मे पादौ पातु सर्वाङ्गमीश्वरः इतीदं कवचं देवि परमानन्ददायकम् 8 ज्ञानवागर्थदं वीर्यमणिमादिविभूतिदम् आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् 9 प्रातः काले शुचिर्भूत्वा त्रिवारं सर्वदा जपेत् नित्यं पूजासमायुक्तः संवत्सरमतन्द्रितः 10 जपेत् त्रिसन्ध्यं यो विद्वान् वेदशास्त्रार्थपारगः गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि निर्गच्छन्ति मुखाम्भोजात्सत्यमेतन्न संशयः 11 इति रुद्रयामले उमामहेश्वरसंवादे श्री दक्षिणामूर्ति कवचम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits