Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

कालभैरव ककार अष्टोत्तर शत नामावलिः

॥ ह्रीं क्रीं हूं ह्रीम् ॥ ओं कालभैरवदेवाय नमः । ओं कालकालाय नमः । ओं कालदण्डधृजे नमः । ओं कालात्मने नमः । ओं काममन्त्रात्मने नमः । ओं काशिकापुरनायकाय नमः । ओं करुणावारिधये नमः । ओं कान्तामिलिताय नमः । ओं कालिकातनवे नमः । ओं कालजाय नमः । 10 ओं कुक्कुरारूढाय नमः । ओं कपालिने नमः । ओं कालनेमिघ्ने नमः । ओं कालकण्ठाय नमः । ओं कटाक्षानुगृहीताखिलसेवकाय नमः । ओं कपालखर्परोत्कृष्टभिक्षापात्रधराय नमः । ओं कवये नमः । ओं कल्पान्तदहनाकाराय नमः । ओं कलानिधिकलाधराय नमः । 20 ओं कपालमालिकाभूषाय नमः । ओं कालीकुलवरप्रदाय नमः । ओं कालीकलावतीदीक्षासंस्कारोपासनप्रियाय नमः । ओं कालिकादक्षपार्श्वस्थाय नमः । ओं कालीविद्यास्वरूपवते नमः । ओं कालीकूर्चसमायुक्तभुवनाकूटभासुराय नमः । ओं कालीध्यानजपासक्तहृदगारनिवासकाय नमः । ओं कालिकावरिवस्यादिप्रदानकल्पपादपाय नमः । ओं काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकाय नमः । 30 ओं कङ्कालमालिकाधारिणे नमः । ओं कमनीयजटाधराय नमः । ओं कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगाय नमः । ओं कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय नमः । ओं कूर्मपीठादिशक्तीशाय नमः । ओं कलाकाष्ठादिपालकाय नमः । ओं कटप्रुवे नमः । ओं कामसञ्चारिणे नमः । ओं कामारये नमः । 40 ओं कामरूपवते नमः । ओं कण्ठादिसर्वचक्रस्थाय नमः । ओं क्रियादिकोटिदीपकाय नमः । ओं कर्णहीनोपवीताभाय नमः । ओं कनकाचलदेहवते नमः । ओं कन्दराकारदहराकाशभासुरमूर्तिमते नमः । ओं कपालमोचनानन्दाय नमः । ओं कालराजाय नमः । ओं क्रियाप्रदाय नमः । 50 ओं करणाधिपतये नमः । ओं कर्मकारकाय नमः । ओं कर्तृनायकाय नमः । ओं कण्ठाद्यखिलदेशाहिभूषणाढ्याय नमः । ओं कलात्मकाय नमः । ओं कर्मकाण्डाधिपाय नमः । ओं किल्बिषमोचिने नमः । ओं कामकोष्ठकाय नमः । ओं कलकण्ठारवानन्दिने नमः । 60 ओं कर्मश्रद्धवरप्रदाय नमः । ओं कुणपाकीर्णकान्तारसञ्चारिणे नमः । ओं कौमुदीस्मिताय नमः । ओं किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजिताय नमः । ओं कल्याणकृत्कलिध्वंसिने नमः । ओं कर्मसाक्षिणे नमः । ओं कृतज्ञपाय नमः । ओं करालदंष्ट्राय नमः । ओं कन्दर्पदर्पघ्नाय नमः । 70 ओं कामभेदनाय नमः । ओं कालागुरुविलिप्ताङ्गाय नमः । ओं कातरार्ताभयप्रदाय नमः । ओं कलन्दिकाप्रदाय नमः । ओं कालीभक्तलोकवरप्रदाय नमः । ओं कामिनीकाञ्चनाबद्धमोचकाय नमः । ओं कमलेक्षणाय नमः । ओं कादम्बरीरसास्वादलोलुपाय नमः । ओं काङ्क्षितार्थदाय नमः । 80 ओं कबन्धनावाय नमः । ओं कामाख्याकाञ्च्यादिक्षेत्रपालकाय नमः । ओं कैवल्यप्रदमन्दाराय नमः । ओं कोटिसूर्यसमप्रभाय नमः । ओं क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय नमः । ओं काम्यादिकर्मसर्वस्वफलदाय नमः । ओं कर्मपोषकाय नमः । ओं कार्यकारणनिर्मात्रे नमः । ओं कारागृहविमोचकाय नमः । 90 ओं कालपर्यायमूलस्थाय नमः । ओं कार्यसिद्धिप्रदायकाय नमः । ओं कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनाय नमः । ओं कालचक्रप्रभेदिने नमः । ओं कालिम्मन्ययोगिनीप्रियाय नमः । ओं काहलादिमहावाद्यतालतांडवलालसाय नमः । ओं कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय नमः । ओं कालरात्रिमहारात्रिशिवारात्र्यादिकारकाय नमः । ओं कोलाहलध्वनये नमः । 100 ओं कोपिने नमः । ओं कौलमार्गप्रवर्तकाय नमः । ओं कर्मकौशल्यसन्तोषिणे नमः । ओं केलिभाषणलालसाय नमः । ओं कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकाय नमः । ओं कालनाथपराय नमः । ओं काराय नमः । ओं कालधर्मप्रवर्तकाय नमः । ओं कुलाचार्याय नमः । 108 इति श्री कालभैरव ककार अष्टोत्तरशतनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits