हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
किराताष्टकम्
अस्य
श्रीकिरातशस्तुर्महामन्त्रस्य
रेमन्त
ऋषिः
देवी
गायत्री
छन्दः
श्री
किरात
शास्ता
देवता,
ह्रां
बीजं,
ह्रीं
शक्तिः,
ह्रूं
कीलकं,
श्री
किरात
शस्तु
प्रसाद
सिद्ध्यर्थे
जपे
विनियोगः
।
करन्यासः
–
ओं
ह्रां
अङ्गुष्ठाभ्यां
नमः
।
ओं
ह्रीं
तर्जनीभ्यां
नमः
।
ओं
ह्रूं
मध्यमाभ्यां
नमः
।
ओं
ह्रैं
अनामिकाभ्यां
नमः
।
ओं
ह्रौं
कनिष्ठिकाभ्यां
नमः
।
ओं
ह्रः
करतल
करपृष्ठाभ्यां
नमः
।
अङ्गन्यासः
–
ओं
ह्रां
हृदयाय
नमः
।
ओं
ह्रीं
शिरसे
स्वाहा
।
ओं
ह्रूं
शिखायै
वषट्
।
ओं
ह्रैं
कवचाय
हुम्
।
ओं
ह्रौं
नेत्रत्रयाय
वौषट्
।
ओं
ह्रः
अस्त्राय
फट्
।
भूर्भुवस्सुवरोमिति
दिग्बन्धः
।
ध्यानम्
।
कोदण्डं
सशरं
भुजेन
भुजगेन्द्रभोगा
भासावहन्
वामेनच्छुरिकां
विभक्षलने
पक्षेण
दक्षेण
च
।
कान्त्या
निर्जित
नीरदः
पुरभिदः
क्रीडन्किराताकृते
पुत्रोस्माकमनल्प
निर्मलया
च
निर्मातु
शर्मानिशम्
॥
स्तोत्रम्
।
प्रत्यर्थिव्रातवक्षःस्थलरुधिरसुरापानमत्ता
पृषत्कं
चापे
सन्धाय
तिष्ठन्
हृदयसरसिजे
मामके
तापहं
तम्
।
पिञ्छोत्तंसः
शरण्यः
पशुपतितनयो
नीरदाभः
प्रसन्नो
देवः
पायादपायाच्छबरवपुरसौ
सावधानः
सदा
नः
॥
1
॥
आखेटाय
वनेचरस्य
गिरिजासक्तस्य
शम्भोः
सुतः
त्रातुं
यो
भुवनं
पुरा
समजनि
ख्यातः
किराताकृतिः
।
कोदण्डक्षुरिकाधरो
घनरवः
पिञ्छावतंसोज्ज्वलः
स
त्वं
मामव
सर्वदा
रिपुगणत्रस्तं
दयावारिधे
॥
2
॥
यो
मां
पीडयति
प्रसह्य
सततं
देहीत्यनन्याश्रयं
भित्वा
तस्य
रिपोरुरः
क्षुरिकया
शाताग्रया
दुर्मतेः
।
देव
त्वत्करपङ्कजोल्लसितया
श्रीमत्किराताकृतेः
तत्प्राणान्वितरान्तकाय
भगवन्
कालारिपुत्राञ्जसा
॥
3
॥
विद्धो
मर्मसु
दुर्वचोभिरसतां
सन्तप्तशल्योपमैः
दृप्तानां
द्विषतामशान्तमनसां
खिन्नोऽस्मि
यावद्भृशम्
।
तावत्त्वं
क्षुरिकाशरासनधरश्चित्ते
ममाविर्भवन्
स्वामिन्
देव
किरातरूप
शमय
प्रत्यर्थिगर्वं
क्षणात्
॥
4
॥
हर्तुं
वित्तमधर्मतो
मम
रताश्चोराश्च
ये
दुर्जना-
-स्तेषां
मर्मसु
ताडयाशु
विशिखैस्त्वत्कार्मुकान्निःसृतैः
॥
शास्तारं
द्विषतां
किरातवपुषं
सर्वार्थदं
त्वामृते
पश्याम्यत्र
पुरारिपुत्र
शरणं
नान्यं
प्रपन्नोऽस्म्यहम्
॥
5
॥
यक्षः
प्रेतपिशाचभूतनिवहाः
दुःखप्रदा
भीषणाः
बाधन्ते
नरशोणितोत्सुकधियो
ये
मां
रिपुप्रेरिताः
।
चापज्यानिनदैस्त्वमीश
सकलान्
संहृत्य
दुष्टग्रहान्
गौरीशात्मज
दैवतेश्वर
किराताकार
संरक्ष
माम्
॥
6
॥
दोग्धुं
ये
निरतास्त्वमद्य
पदपद्मैकान्तभक्ताय
मे
मायाच्छन्नकलेबराश्रुविषदानाद्यैः
सदा
कर्मभिः
।
वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन्
दुष्टान्
संहर
देवदेव
शबराकार
त्रिलोकेश्वर
॥
7
॥
तन्वा
वा
मनसा
गिरापि
सततं
दोषं
चिकीर्षत्यलं
त्वत्पादप्रणतस्य
निरपराधस्यापि
ये
मानवाः
।
सर्वान्
संहर
तान्
गिरीशसुत
मे
तापत्रयौघानपि
त्वामेकं
शबराकृते
भयहरं
नाथं
प्रपन्नोऽस्म्यहम्
॥
8
॥
क्लिष्टो
राजभटैस्तदापि
परिभूतोऽहं
कुलैर्वैरिभि-
-श्चान्यैर्घोरतरैर्विपज्जलनिधौ
मग्नोऽस्मि
दुःखातुरम्
।
हा
हा
किङ्करवै
विभो
शबरवेषं
त्वामभीष्टार्थदं
वन्देऽहं
परदैवतं
कुरु
कृपानाथार्तबन्धो
मयि
॥
9
॥
स्तोत्रं
यः
प्रजपेत्
प्रशान्तकरणैर्नित्यं
किराताष्टकं
स
क्षिप्रं
वशगान्
करोति
नृपतीनाबद्धवैरानपि
।
संहृत्यात्मविरोधिनः
खिलजनान्
दुष्टग्रहानप्यसौ
यात्यन्ते
यमदूतभीतिरहितो
दिव्यां
गतिं
शाश्वतीम्
॥
10
॥
इति
श्री
किराताष्टकम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits