अस्य श्रीहरिहरपुत्र सहस्रनाम स्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः, अनुष्टुप्छन्दः, श्रीहरिहरपुत्रो देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीहरिहरपुत्र प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
न्यासः –
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ॥
एवं हृदयादिन्यासः ॥
ध्यानम् –
ध्यायेदुमापतिरमापतिभाग्यपुत्रं
वेत्रोज्ज्वलत्करतलं भसिताभिरामम् ।
विश्वैकवश्यवपुषं मृगयाविनोदं
वाञ्छानुरूपफलदं वरभूतनाथम् ॥ 1 ॥
आश्यामकोमलविशालतनुं विचित्र-
-वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ 2 ॥
स्तोत्रं –
शिवपुत्रो महातेजाः शिवकार्यधुरन्धरः ।
शिवप्रदः शिवज्ञानी शैवधर्मसुरक्षकः ॥ 1 ॥
शङ्खधारी सुराध्यक्षश्चन्द्रमौलिः सुरोत्तमः ।
कामेशः कामतेजस्वी कामादिफलसम्युतः ॥ 2 ॥
कल्याणः कोमलाङ्गश्च कल्याणफलदायकः ।
करुणाब्धिः कर्मदक्षः करुणारससागरः ॥ 3 ॥
जगत्प्रियो जगद्रक्षो जगदानन्ददायकः ।
जयादिशक्तिसंसेव्यो जनाह्लादो जिगीषुकः ॥ 4 ॥
जितेन्द्रियो जितक्रोधो जितदेवारिसङ्घकः ।
जैमिन्यादृषिसंसेव्यो जरामरणनाशकः ॥ 5 ॥
जनार्दनसुतो ज्येष्ठो ज्येष्ठादिगणसेवितः ।
जन्महीनो जितामित्रो जनकेनाभिपूजितः ॥ 6 ॥
परमेष्ठी पशुपतिः पङ्कजासनपूजितः ।
पुरहन्ता पुरत्राता परमैश्वर्यदायकः ॥ 7 ॥
पवनादिसुरैः सेव्यः पञ्चब्रह्मपरायणः ।
पार्वतीतनयो ब्रह्म परानन्दः परात्परः ॥ 8 ॥
ब्रह्मिष्ठो ज्ञाननिरतो गुणागुणनिरूपकः ।
गुणाध्यक्षो गुणनिधिः गोपालेनाभिपुजितः ॥ 9 ॥
गोरक्षको गोधनदो गजारूढो गजप्रियः ।
गजग्रीवो गजस्कन्धो गभस्तिर्गोपतिः प्रभुः ॥ 10 ॥
ग्रामपालो गजाध्यक्षो दिग्गजेनाभिपूजितः ।
गणाध्यक्षो गणपतिर्गवां पतिरहर्पतिः ॥ 11 ॥
जटाधरो जलनिभो जैमिन्यैरभिपूजितः ।
जलन्धरनिहन्ता च शोणाक्षः शोणवासकः ॥ 12 ॥
सुराधिपः शोकहन्ता शोभाक्षः सूर्यतेजसः ।
सुरार्चितः सुरैर्वन्द्यः शोणाङ्गः शाल्मलीपतिः ॥ 13 ॥
सुज्योतिः शरवीरघ्नः शरच्चन्द्रनिभाननः ।
सनकादिमुनिध्येयः सर्वज्ञानप्रदो विभुः ॥ 14 ॥
हलायुधो हंसनिभो हाहाहूहूमुखस्तुतः ।
हरिर्हरप्रियो हंसो हर्यक्षासनतत्परः ॥ 15 ॥
पावनः पावकनिभो भक्तपापविनाशनः ।
भसिताङ्गो भयत्राता भानुमान् भयनाशनः ॥ 16 ॥
त्रिपुण्ड्रकस्त्रिनयनस्त्रिपुण्ड्राङ्कितमस्तकः ।
त्रिपुरघ्नो देववरो देवारिकुलनाशकः ॥ 17 ॥
देवसेनाधिपस्तेजस्तेजोराशिर्दशाननः ।
दारुणो दोषहन्ता च दोर्दण्डो दण्डनायकः ॥ 18 ॥
धनुष्पाणिर्धराध्यक्षो धनिको धर्मवत्सलः ।
धर्मज्ञो धर्मनिरतो धनुः शास्त्रपरायणः ॥ 19 ॥
स्थूलकर्णः स्थूलतनुः स्थूलाक्षः स्थूलबाहुकः ।
तनूत्तमस्तनुत्राणस्तारकस्तेजसां पतिः ॥ 20 ॥
योगीश्वरो योगनिधिर्योगीशो योगसंस्थितः ।
मन्दारवाटिकामत्तो मलयाचलवासभूः ॥ 21 ॥
मन्दारकुसुमप्रख्यो मन्दमारुतसेवितः ।
महाभासो महावक्षा मनोहरमदार्चितः ॥ 22 ॥
महोन्नतो महाकायो महानेत्रो महाहनुः ।
मरुत्पूज्यो मानधनो मोहनो मोक्षदायकः ॥ 23 ॥
मित्रो मेधा महौजस्वी महावर्षप्रदायकः ।
भाषको भाष्यशास्त्रज्ञो भानुमान् भानुतेजसः ॥ 24 ॥
भिषग्भवानिपुत्रश्च भवतारणकारणः ।
नीलाम्बरो नीलनिभो नीलग्रीवो निरञ्जनः ॥ 25 ॥
नेत्रत्रयो निषादज्ञो नानारत्नोपशोभितः ।
रत्नप्रभो रमापुत्रो रमया परितोषितः ॥ 26 ॥
राजसेव्यो राजधनः रणदोर्दण्डमण्डितः ।
रमणो रेणुकासेव्यो रजनीचरदारणः ॥ 27 ॥
ईशान इभराट्सेव्य ईषणात्रयनाशनः ।
इडावासो हेमनिभो हैमप्राकारशोभितः ॥ 28 ॥
हयप्रियो हयग्रीवो हंसो हरिहरात्मजः ।
हाटकस्फटिकप्रख्यो हंसारूढेन सेवितः ॥ 29 ॥
वनवासो वनाध्यक्षो वामदेवो वराननः ।
वैवस्वतपतिर्विष्णुः विराड्रूपो विशां पतिः ॥ 30 ॥
वेणुनादो वरग्रीवो वराभयकरान्वितः ।
वर्चस्वी विपुलग्रीवो विपुलाक्षो विनोदवान् ॥ 31 ॥
वैणवारण्यवासश्च वामदेवेनसेवितः ।
वेत्रहस्तो वेदनिधिर्वंशदेवो वराङ्गकः ॥ 32 ॥
ह्रीङ्कारो ह्रींमना हृष्टो हिरण्यो हेमसम्भवः ।
हुताशो हुतनिष्पन्नो हुङ्काराकृति सुप्रभः ॥ 33 ॥
हव्यवाहो हव्यकरश्चाट्टहासोऽपराहतः ।
अणुरूपो रूपकरश्चाजरोऽतनुरूपकः ॥ 34 ॥
हंसमन्त्रश्च हुतभुक् हेमाम्बरः सुलक्षणः ।
नीपप्रियो नीलवासाः निधिपालो निरातपः ॥ 35 ॥
क्रोडहस्तस्तपस्त्राता तपोरक्षस्तपाह्वयः ।
मूर्धाभिषिक्तो मानी च मन्त्ररूपो मृडो मनुः ॥ 36 ॥
मेधावी मेधसो मुष्णुः मकरो मकरालयः ।
मार्ताण्डो मञ्जुकेशश्च मासपालो महौषधिः ॥ 37 ॥
श्रोत्रियः शोभमानश्च सविता सर्वदेशिकः ।
चन्द्रहासः शमः शक्तः शशिभासः शमाधिकः ॥ 38 ॥
सुदन्तः सुकपोलश्च षड्वर्णः सम्पदोऽधिपः ।
गरलः कालकण्ठश्च गोनेता गोमुखप्रभुः ॥ 39 ॥
कौशिकः कालदेवश्च क्रोशकः क्रौञ्चभेदकः ।
क्रियाकरः कृपालुश्च करवीरकरेरुहः ॥ 40 ॥
कन्दर्पदर्पहारी च कामदाता कपालकः ।
कैलासवासो वरदो विरोचनो विभावसुः ॥ 41 ॥
बभ्रुवाहो बलाध्यक्षः फणामणिविभूषणः ।
सुन्दरः सुमुखः स्वच्छः सभासश्च सभाकरः ॥ 42 ॥
शरानिवृत्तः शक्राप्तः शरणागतपालकः ।
तीक्ष्णदंष्ट्रो दीर्घजिह्वः पिङ्गलाक्षः पिशाचहा ॥ 43 ॥
अभेद्यश्चाङ्गदार्ढ्यश्च भोजपालोऽथ भूपतिः ।
गृध्रनासोऽविषह्यश्च दिग्देहो दैन्यदाहकः ॥ 44 ॥
बडबापूरितमुखो व्यापको विषमोचकः ।
हसन्तः समरक्रुद्धः पुङ्गवः पङ्कजासनः ॥ 45 ॥
विश्वदर्पो निश्चिताज्ञो नागाभरणभूषितः ।
भरतो भैरवाकारो भरणो वामनक्रियः ॥ 46 ॥
सिंहास्यः सिंहरूपश्च सेनापतिः सकारकः ।
सनातनः सिद्धरूपी सिद्धधर्मपरायणः ॥ 47 ॥
आदित्यरूपश्चापद्घ्नश्चामृताब्धिनिवासभूः ।
युवराजो योगिवर्य उषस्तेजा उडुप्रभः ॥ 48 ॥
देवादिदेवो दैवज्ञस्ताम्रोष्ठस्ताम्रलोचनः ।
पिङ्गलाक्षः पिञ्छचूडः फणामणिविभूषितः ॥ 49 ॥
भुजङ्गभूषणो भोगो भोगानन्दकरोऽव्ययः ।
पञ्चहस्तेन सम्पूज्यः पञ्चबाणेन सेवितः ॥ 50 ॥
भवः शर्वो भानुमयः प्राजापत्यस्वरूपकः ।
स्वच्छन्दश्छन्दःशास्त्रज्ञो दान्तो देवमनुप्रभुः ॥ 51 ॥
दशभुक्च दशाध्यक्षो दानवानां विनाशनः ।
सहस्राक्षः शरोत्पन्नः शतानन्दसमागमः ॥ 52 ॥
गृध्राद्रिवासो गम्भीरो गन्धग्राहो गणेश्वरः ।
गोमेधो गण्डकावासो गोकुलैः परिवारितः ॥ 53 ॥
परिवेषः पदज्ञानी प्रियङ्गुद्रुमवासकः ।
गुहावासो गुरुवरो वन्दनीयो वदान्यकः ॥ 54 ॥
वृत्ताकारो वेणुपाणिर्वीणादण्डधरो हरः ।
हैमीड्यो होतृसुभगो हौत्रज्ञश्चौजसां पतिः ॥ 55 ॥
पवमानः प्रजातन्तुप्रदो दण्डविनाशनः ।
निमीड्यो निमिषार्धज्ञो निमिषाकारकारणः ॥ 56 ॥
लिगुडाभो लिडाकारो लक्ष्मीवन्द्यो वरप्रभुः ।
इडाज्ञः पिङ्गलावासः सुषुम्नामध्यसम्भवः ॥ 57 ॥
भिक्षाटनो भीमवर्चा वरकीर्तिः सभेश्वरः ।
वाचातीतो वरनिधिः परिवेत्ता प्रमाणकः ॥ 58 ॥
अप्रमेयोऽनिरुद्धश्चाप्यनन्तादित्यसुप्रभः ।
वेषप्रियो विषग्राहो वरदानकरोत्तमः ॥ 59 ॥
विपिनो वेदसारश्च वेदान्तैः परितोषितः ।
वक्रागमो वर्चवचा बलदाता विमानवान् ॥ 60 ॥
वज्रकान्तो वंशकरो वटुरक्षाविशारदः ।
वप्रक्रीडो विप्रपूज्यो वेलाराशिश्चलालकः ॥ 61 ॥
कोलाहलः क्रोडनेत्रः क्रोडास्यश्च कपालभृत् ।
कुञ्जरेड्यो मञ्जुवासाः क्रियमाणः क्रियाप्रदः ॥ 62 ॥
क्रीडानाथः कीलहस्तः क्रोशमानो बलाधिकः ।
कनको होतृभागी च खवासः खचरः खगः ॥ 63 ॥
गणको गुणनिर्दुष्टो गुणत्यागी कुशाधिपः ।
पाटलः पत्रधारी च पलाशः पुत्रवर्धनः ॥ 64 ॥
पितृसच्चरितः प्रेष्ठः पापभस्मा पुनः शुचिः ।
फालनेत्रः फुल्लकेशः फुल्लकल्हारभूषितः ॥ 65 ॥
फणिसेव्यः पट्टभद्रः पटुर्वाग्मी वयोऽधिकः ।
चोरनाट्यश्चोरवेषश्चोरघ्नश्चौर्यवर्धनः ॥ 66 ॥
चञ्चलाक्षश्चामरको मरीचिर्मदगामिकः ।
मृडाभो मेषवाहश्च मैथिल्यो मोचको मनुः ॥ 67 ॥
मनुरूपो मन्त्रदेवो मन्त्रराशिर्महादृढः ।
स्थूपिज्ञो धनदाता च देववन्द्यश्च तारणः ॥ 68 ॥
यज्ञप्रियो यमाध्यक्ष इभक्रीड इभेक्षणः ।
दधिप्रियो दुराधर्षो दारुपालो दनूजहा ॥ 69 ॥
दामोदरो दामधरो दक्षिणामूर्तिरूपकः ।
शचीपूज्यः शङ्खकर्णश्चन्द्रचूडो मनुप्रियः ॥ 70 ॥
गुडरूपो गुडाकेशः कुलधर्मपरायणः ।
कालकण्ठो गाढगात्रो गोत्ररूपः कुलेश्वरः ॥ 71 ॥
आनन्दभैरवाराध्यो हयमेधफलप्रदः ।
दध्यन्नासक्तहृदयो गुडान्नप्रीतमानसः ॥ 72 ॥
घृतान्नासक्तहृदयो गौराङ्गो गर्वभञ्जकः ।
गणेशपूज्यो गगनः गणानां पतिरूर्जितः ॥ 73 ॥
छद्महीनः शशिरदः शत्रूणां पतिरङ्गिराः ।
चराचरमयः शान्तः शरभेशः शतातपः ॥ 74 ॥
वीराराध्यो वक्रगमो वेदाङ्गो वेदपारगः ।
पर्वतारोहणः पूषा परमेशः प्रजापतिः ॥ 75 ॥
भावज्ञो भवरोगघ्नो भवसागरतारणः ।
चिदग्निदेहश्चिद्रूपश्चिदानन्दश्चिदाकृतिः ॥ 76 ॥
नाट्यप्रियो नरपतिर्नरनारायणार्चितः ।
निषादराजो नीहारो नेष्टा निष्ठुरभाषणः ॥ 77 ॥
निम्नप्रियो नीलनेत्रो नीलाङ्गो नीलकेशकः ।
सिंहाक्षः सर्वविघ्नेशः सामवेदपरायणः ॥ 78 ॥
सनकादिमुनिध्येयः शर्वरीशः षडाननः ।
सुरूपः सुलभः स्वर्गः शचीनाथेन पूजितः ॥ 79 ॥
काकिनः कामदहनो दग्धपापो धराधिपः ।
दामग्रन्थी शतस्त्रीशस्तन्त्रीपालश्च तारकः ॥ 80 ॥
ताम्राक्षस्तीक्ष्णदंष्ट्रश्च तिलभोज्यस्तिलोदरः ।
माण्डुकर्णो मृडाधीशो मेरुवर्णो महोदरः ॥ 81 ॥
मार्ताण्डभैरवाराध्यो मणिरूपो मरुद्वहः ।
माषप्रियो मधुपानो मृणालो मोहिनीपतिः ॥ 82 ॥
महाकामेशतनयो माधवो मदगर्वितः ।
मूलाधाराम्बुजावासो मूलविद्यास्वरूपकः ॥ 83 ॥
स्वाधिष्ठानमयः स्वस्थः स्वस्तिवाक्यः स्रुवायुधः ।
मणिपूराब्जनिलयो महाभैरवपूजितः ॥ 84 ॥
अनाहताब्जरसिको ह्रीङ्काररसपेशलः ।
भ्रूमध्यवासो भ्रूकान्तो भरद्वाजप्रपूजितः ॥ 85 ॥
सहस्राराम्बुजावासः सविता सामवाचकः ।
मुकुन्दश्च गुणातीतो गुणपूज्यो गुणाश्रयः ॥ 86 ॥
धन्यश्च धनभृद्दाहो धनदानकराम्बुजः ।
महाशयो महातीतो मायाहीनो मदार्चितः ॥ 87 ॥
माठरो मोक्षफलदः सद्वैरिकुलनाशनः ।
पिङ्गलः पिञ्छचूडश्च पिशिताशपवित्रकः ॥ 88 ॥
पायसान्नप्रियः पर्वपक्षमासविभाजकः ।
वज्रभूषो वज्रकायो विरिञ्चो वरवक्षणः ॥ 89 ॥
विज्ञानकलिकाबृन्दो विश्वरूपप्रदर्शकः ।
डम्भघ्नो दमघोषघ्नो दासपालस्तपौजसः ॥ 90 ॥
द्रोणकुम्भाभिषिक्तश्च द्रोहिनाशस्तपातुरः ।
महावीरेन्द्रवरदो महासंसारनाशनः ॥ 91 ॥
लाकिनीहाकिनीलब्धो लवणाम्भोधितारणः ।
काकिलः कालपाशघ्नः कर्मबन्धविमोचकः ॥ 92 ॥
मोचको मोहनिर्भिन्नो भगाराध्यो बृहत्तनुः ।
अक्षयोऽक्रूरवरदो वक्रागमविनाशनः ॥ 93 ॥
डाकिनः सूर्यतेजस्वी सर्पभूषश्च सद्गुरुः ।
स्वतन्त्रः सर्वतन्त्रेशो दक्षिणादिगधीश्वरः ॥ 94 ॥
सच्चिदानन्दकलिकः प्रेमरूपः प्रियङ्करः ।
मिथ्याजगदधिष्ठानो मुक्तिदो मुक्तिरूपकः ॥ 95 ॥
मुमुक्षुः कर्मफलदो मार्गदक्षोऽथ कर्मठः ।
महाबुद्धो महाशुद्धः शुकवर्णः शुकप्रियः ॥ 96 ॥
सोमप्रियः स्वरप्रीतः पर्वाराधनतत्परः ।
अजपो जनहंसश्च हलपाणिप्रपूजितः ॥ 97 ॥
अर्चितो वर्धनो वाग्मी वीरवेषो विधुप्रियः ।
लास्यप्रियो लयकरो लाभालाभविवर्जितः ॥ 98 ॥
पञ्चाननः पञ्चगूढः पञ्चयज्ञफलप्रदः ।
पाशहस्तः पावकेशः पर्जन्यसमगर्जनः ॥ 99 ॥
पापारिः परमोदारः प्रजेशः पङ्कनाशनः ।
नष्टकर्मा नष्टवैर इष्टसिद्धिप्रदायकः ॥ 100 ॥
नागाधीशो नष्टपाप इष्टनामविधायकः ।
सामरस्यश्चाप्रमेयः पाषण्डी पर्वतप्रियः ॥ 101 ॥
पञ्चकृत्यपरः पाता पञ्चपञ्चातिशायिकः ।
पद्माक्षः पद्मवदनः पावकाभः प्रियङ्करः ॥ 102 ॥
कार्तस्वराङ्गो गौराङ्गो गौरीपुत्रो धनेश्वरः ।
गणेशाश्लिष्टदेहश्च शीतांशुः शुभदीधितिः ॥ 103 ॥
दक्षध्वंसो दक्षकरो वरः कात्यायनीसुतः ।
सुमुखो मार्गणो गर्भो गर्वभङ्गः कुशासनः ॥ 104 ॥
कुलपालपतिः श्रेष्ठो पवमानः प्रजाधिपः ।
दर्शप्रियो निर्विकारो दीर्घकायो दिवाकरः ॥ 105 ॥
भेरीनादप्रियो बृन्दो बृहत्सेनः सुपालकः ।
सुब्रह्मा ब्रह्मरसिको रसज्ञो रजताद्रिभाः ॥ 106 ॥
तिमिरघ्नो मिहिराभो महानीलसमप्रभः ।
श्रीचन्दनविलिप्ताङ्गः श्रीपुत्रः श्रीतरुप्रियः ॥ 107 ॥
लाक्षावर्णो लसत्कर्णो रजनीध्वंसिसन्निभः ।
बिन्दुप्रियोऽम्बिकापुत्रो बैन्दवो बलनायकः ॥ 108 ॥
आपन्नतारकस्तप्तस्तप्तकृच्छ्रफलप्रदः ।
मरुद्वृधो महाखर्वश्चीरवासाः शिखिप्रियः ॥ 109 ॥
आयुष्माननघो दूत आयुर्वेदपरायणः ।
हंसः परमहंसश्चाप्यवधूताश्रमप्रियः ॥ 110 ॥
आशुवेगोऽश्वहृदयो हयधैर्यफलप्रदः ।
सुमुखो दुर्मुखोऽविघ्नो निर्विघ्नो विघ्ननाशनः ॥ 111 ॥
आर्यो नाथोऽर्यमाभासः फल्गुणः फाललोचनः ।
अरातिघ्नो घनग्रीवो ग्रीष्मसूर्यसमप्रभः ॥ 112 ॥
किरीटी कल्पशास्त्रज्ञः कल्पानलविधायकः ।
ज्ञानविज्ञानफलदो विरिञ्चारिविनाशनः ॥ 113 ॥
वीरमार्ताण्डवरदो वीरबाहुश्च पूर्वजः ।
वीरसिंहासनो विज्ञो वीरकार्योऽस्तदानवः ॥ 114 ॥
नरवीरसुहृद्भ्राता नागरत्नविभूषितः ।
वाचस्पतिः पुरारातिः संवर्तः समरेश्वरः ॥ 115 ॥
उरुवाग्मी ह्युमापुत्र उडुलोकसुरक्षकः ।
शृङ्गाररससम्पूर्णः सिन्दूरतिलकाङ्कितः ॥ 116 ॥
कुङ्कुमाङ्कितसर्वाङ्गः कालकेयविनाशनः ।
मत्तनागप्रियो नेता नागगन्धर्वपूजितः ॥ 117 ॥
सुस्वप्नबोधको बोधो गौरीदुःस्वप्ननाशनः ।
चिन्ताराशिपरिध्वंसी चिन्तामणिविभूषितः ॥ 118 ॥
चराचरजगत्स्रष्टा चलत्कुण्डलकर्णयुक् ।
मुकुरास्यो मूलनिधिर्निधिद्वयनिषेवितः ॥ 119 ॥
नीराजनप्रीतमनाः नीलनेत्रो नयप्रदः ।
केदारेशः किरातश्च कालात्मा कल्पविग्रहः ॥ 120 ॥
कल्पान्तभैरवाराध्यः काकपत्रशरायुधः ।
कलाकाष्ठास्वरूपश्च ऋतुवर्षादिमासवान् ॥ 121 ॥
दिनेशमण्डलावासो वासवादिप्रपूजितः ।
बहुलस्तम्बकर्मज्ञः पञ्चाशद्वर्णरूपकः ॥ 122 ॥
चिन्ताहीनश्चिदाक्रान्तः चारुपालो हलायुधः ।
बन्धूककुसुमप्रख्यः परगर्वविभञ्जनः ॥ 123 ॥
विद्वत्तमो विराधघ्नः सचित्रश्चित्रकर्मकः ।
सङ्गीतलोलुपमनाः स्निग्धगम्भीरगर्जितः ॥ 124 ॥
तुङ्गवक्त्रः स्तवरसश्चाभ्राभो भ्रमरेक्षणः ।
लीलाकमलहस्ताब्जो बालकुन्दविभूषितः ॥ 125 ॥
लोध्रप्रसवशुद्धाभः शिरीषकुसुमप्रियः ।
त्रासत्राणकरस्तत्त्वं तत्त्ववाक्यार्थबोधकः ॥ 126 ॥
वर्षीयांश्च विधिस्तुत्यो वेदान्तप्रतिपादकः ।
मूलभूतो मूलतत्त्वं मूलकारणविग्रहः ॥ 127 ॥
आदिनाथोऽक्षयफलपाणिर्जन्माऽपराजितः ।
गानप्रियो गानलोलो महेशो विज्ञमानसः ॥ 128 ॥
गिरिजास्तन्यरसिको गिरिराजवरस्तुतः ।
पीयूषकुम्भहस्ताब्जः पाशत्यागी चिरन्तनः ॥ 129 ॥
सुधालालसवक्त्राब्जः सुरद्रुमफलेप्सितः ।
रत्नहाटकभूषाङ्गो रावणादिप्रपूजितः ॥ 130 ॥
कनत्कालेशसुप्रीतः क्रौञ्चगर्वविनाशनः ।
अशेषजनसम्मोह आयुर्विद्याफलप्रदः ॥ 131 ॥
अवबद्धदुकूलाङ्गो हारालङ्कृतकन्धरः ।
केतकीकुसुमप्रीतः कलभैः परिवारितः ॥ 132 ॥
केकाप्रियः कार्तिकेयः सारङ्गनिनदप्रियः ।
चातकालापसन्तुष्टश्चमरीमृगसेवितः ॥ 133 ॥
आम्रकूटाद्रिसञ्चारी चाम्नायफलदायकः ।
धृताक्षसूत्रपाणिश्चाप्यक्षिरोगविनाशनः ॥ 134 ॥
मुकुन्दपूज्यो मोहाङ्गो मुनिमानसतोषितः ।
तैलाभिषिक्तसुशिरास्तर्जनीमुद्रिकायुतः ॥ 135 ॥
तटातकामनः प्रीतस्तमोगुणविनाशनः ।
अनामयोऽप्यनादर्शश्चार्जुनाभो हुतप्रियः ॥ 136 ॥
षाड्गुण्यपरिसम्पूर्णः सप्ताश्वादिग्रहैः स्तुतः ।
वीतशोकः प्रसादज्ञः सप्तप्राणवरप्रदः ॥ 137 ॥
सप्तार्चिश्च त्रिनयनस्त्रिवेणीफलदायकः ।
कृष्णवर्त्मा वेदमुखो दारुमण्डलमध्यगः ॥ 138 ॥
वीरनूपुरपादाब्जो वीरकङ्कणपाणिमान् ।
विश्वमूर्तिः शुद्धमुखः शुद्धभस्मानुलेपनः ॥ 139 ॥
शुम्भध्वंसिनीसम्पूज्यो रक्तबीजकुलान्तकः ।
निषादादिस्वरप्रीतः नमस्कारफलप्रदः ॥ 140 ॥
भक्तारिपञ्चतादायी सज्जीकृतशरायुधः ।
अभयङ्करमन्त्रज्ञः कुब्जिकामन्त्रविग्रहः ॥ 141 ॥
धूम्रास्त्रश्चोग्रतेजस्वी दशकण्ठविनाशनः ।
आशुगायुधहस्ताब्जो गदायुधकराम्बुजः ॥ 142 ॥
पाशायुधसुपाणिश्च कपालायुधसद्भुजः ।
सहस्रशीर्षवदनः सहस्रद्वयलोचनः ॥ 143 ॥
नानाहेतिर्धनुष्पाणिः नानास्रग्भूषणप्रियः ।
आश्यामकोमलतनुरारक्तापाङ्गलोचनः ॥ 144 ॥
द्वादशाहक्रतुप्रीतः पौण्डरीकफलप्रदः ।
आप्तोर्यामक्रतुमयश्चयनादिफलप्रदः ॥ 145 ॥
पशुबन्धस्यफलदो वाजपेयात्मदैवतः ।
आब्रह्मकीटजननावनात्मा चम्पकप्रियः ॥ 146 ॥
पशुपाशविभागज्ञः परिज्ञानप्रदायकः ।
कल्पेश्वरः कल्पवर्यो जातवेदा प्रभाकरः ॥ 147 ॥
कुम्भीश्वरः कुम्भपाणिः कुङ्कुमाक्तललाटकः ।
शिलीध्रपत्रसङ्काशः सिंहवक्त्रप्रमर्दनः ॥ 148 ॥
कोकिलक्वणनाकर्णी कालनाशनतत्परः ।
नैय्यायिकमतघ्नश्च बौद्धसङ्घविनाशनः ॥ 149 ॥
धृतहेमाब्जपाणिश्च होमसन्तुष्टमानसः ।
पितृयज्ञस्यफलदः पितृवज्जनरक्षकः ॥ 150 ॥
पदातिकर्मनिरतः पृषदाज्यप्रदायकः ।
महासुरवधोद्युक्तः स्वास्त्रप्रत्यस्त्रवर्षकः ॥ 151 ॥
महावर्षतिरोधानः नागाधृतकराम्बुजः ।
नमः स्वाहा वषट् वौषट् पल्लवप्रतिपादकः ॥ 152 ॥
महिरसदृशग्रीवो महिरसदृशस्तवः ।
तन्त्रीवादनहस्ताग्रः सङ्गीतप्रीतमानसः ॥ 153 ॥
चिदंशमुकुरावासो मणिकूटाद्रिसञ्चरः ।
लीलासञ्चारतनुको लिङ्गशास्त्रप्रवर्तकः ॥ 154 ॥
राकेन्दुद्युतिसम्पन्नो यागकर्मफलप्रदः ।
मैनाकगिरिसञ्चारी मधुवंशविनाशनः ।
तालखण्डपुरावासः तमालनिभतैजसः ॥ 155 ॥
इति श्री हरिहरपुत्र सहस्रनाम स्तोत्रम् ॥