Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

चाक्षुषोपनिषत्

अथातश्चाक्षुषीं पठित सिद्धविद्यां चक्षूरोगहरां व्याख्यास्यामः यच्चक्षूरोगाः सर्वतो नश्यन्ति चक्षुषी दीप्तिर्भविष्यतीति विनियोगः तस्याश्चाक्षुषीविद्यायाः अहिर्बुध्न्य ऋषिः गायत्री छन्दः सूर्यो देवता चक्षूरोगनिवृत्तये जपे विनियोगः मन्त्राः- ओं चक्षुश्चक्षुश्चक्षुस्तेजः स्थिरो भव मां पाहि पाहि त्वरितं चक्षूरोगान् शमय शमय मम जातरूपं तेजो दर्शय दर्शय यथाहं अन्धो स्यां तथा कल्पय कल्पय कल्याणं कुरु कुरु यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ओं नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय ओं नमः करुणाकरायाऽमृताय ओं नमः सूर्याय ओं नमो भगवते सूर्यायाक्षितेजसे नमः खेचराय नमः महते नमः रजसे नमः तमसे नमः असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमय उष्णो भगवान् शुचिरूपः हंसो भगवान् शुचिरप्रतिरूपः फलशृतिः इमां चक्षुष्मतीं विद्यां ब्राह्मणो नित्यमधीते तस्याक्षिरोगो भवति तस्य कुले अन्धो भवति अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति सूर्यस्मरण ओं विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतीरूपं तपन्तम् विश्वस्य योनिं प्रतपन्तमुग्रं पुरः प्रजानामुदयत्येष सूर्यः ओं नमो भगवते आदित्याय अक्षितेजसे अहोवाहिन्यहोवाहिनी स्वाहा ओं वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः अपध्वान्तमूर्णूहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् पुण्डरीकाक्षाय नमः पुष्करेक्षणाय नमः अमलेक्षणाय नमः कमलेक्षणाय नमः विश्वरूपाय नमः महाविष्णवे नमः पाठान्तरं ओं नमो भगवते आदित्याय सूर्यायाहोवाहिन्यहोवाहिनी स्वाहा इति चाक्षुषोपनिषत्