Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अरुण प्रश्नः

(तै100) ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: व्यशे॑म दे॒वहि॑तं॒ यदायु॑: स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ओं शान्ति॒: शान्ति॒: शान्ति॑: 1-0-0 ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: व्यशे॑म दे॒वहि॑तं॒ यदायु॑: स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु आप॑मापाम॒पः सर्वा᳚: अ॒स्माद॒स्मादि॒तोऽमुत॑: 1 1-1-1 अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च स॒ह स॑ञ्चरस्क॒रर्द्धि॑या वा॒य्वश्वा॑ रश्मि॒पत॑यः मरी᳚च्यात्मानो॒ अद्रु॑हः दे॒वीर्भु॑वन॒सूव॑रीः पु॒त्र॒व॒त्वाय॑ मे सुत महानाम्नीर्म॑हामा॒नाः म॒ह॒सो म॑हस॒स्स्व॑: दे॒वीः प॑र्जन्य॒सूव॑रीः पु॒त्र॒व॒त्वाय॑ मे सुत 2 1-1-2 अ॒पाश्न्यु॑ष्णिम॒पा रक्ष॑: अ॒पाश्न्यु॑ष्णिम॒पारघम्᳚ अपा᳚घ्रा॒मप॑ चा॒वर्तिम्᳚ अप॑दे॒वीरि॒तो हि॑त वज्रं॑ दे॒वीरजी॑ताग्‍श्च भुव॑नं देव॒सूव॑रीः आ॒दि॒त्यानदि॑तिं दे॒वीम् योनि॑नोर्ध्वमु॒दीष॑त शि॒वान॒श्शन्त॑मा भवन्तु दि॒व्या आप॒ ओष॑धयः सु॒मृ॒डी॒का सर॑स्वति मा ते॒ व्यो॑म स॒न्दृशि॑ 3 1-1-3 स्मृति॑: प्र॒त्यक्ष॑मैति॒ह्यम्᳚ अनु॑मानश्चतुष्ट॒यम् ए॒तैरादि॑त्यमण्डलम् सर्वै॑रेव॒ विधा᳚स्यते सूर्यो॒ मरी॑चि॒माद॑त्ते सर्वस्मा᳚द्भुव॑नाद॒धि तस्याः पाकवि॑शेषे॒ण स्मृ॒तं का॑लवि॒शेष॑णम् न॒दीव॒ प्रभ॑वात्का॒चित् अ॒क्षय्या᳚त्स्यन्द॒ते य॑था 4 1-2-1 तान्नद्योऽभिस॑माय॒न्ति सो॒रुस्सती॑ नि॒वर्त॑ते ए॒वन्ना॒नास॑मुत्था॒नाः का॒लास्सं॑वत्स॒रग्ग् श्रि॑ताः अणुशश्च म॑हश॒श्च सर्वे॑ समव॒यन्त्रि॑तम् सतै᳚स्स॒र्वैस्स॑मावि॒ष्टः ऊ॒रुस्स॑न्न नि॒वर्त॑ते अधिसंवत्स॑रं वि॒द्यात् तदेव॑ लक्ष॒णे 5 1-2-2 अणुभिश्च म॑हद्भि॒श्च स॒मारू॑ढः प्र॒दृश्य॑ते संवत्सरः प्र॑त्यक्षे॒ण ना॒धिस॑त्वः प्र॒दृश्य॑ते प॒टरो॑ विक्लि॑धः पि॒ङ्गः ए॒तद्व॑रुण॒लक्ष॑णम् यत्रैत॑दुप॒दृश्य॑ते स॒हस्रं॑ तत्र॒ नीय॑ते एकग्ंहि शिरो ना॑ना मु॒खे कृ॒त्स्नं त॑दृतु॒लक्ष॑णम् 6 1-2-3 उभयतस्सप्ते᳚न्द्रिया॒णि ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते शुक्लकृष्णे संव॑त्सर॒स्य दक्षिणवाम॑योः पा॒र्श्वयोः तस्यै॒षा भव॑ति शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि विश्वा॒ हि मा॒या अव॑सि स्वधावः भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ नात्र॒ भुव॑नम् पू॒षा प॒शव॑: नादित्यस्संवत्सर एव प्रत्यक्षेण प्रियत॑मं वि॒द्यात् एतद्वै संवत्सरस्य प्रियत॑मग्ं रू॒पम् योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति इदं पुण्यं कु॑रुष्वे॒ति तमाहर॑णं द॒द्यात् 7 1-2-4 सा॒क॒ञ्जानाग्ं॑ स॒प्तथ॑माहुरेक॒जम् षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः को नु॑ मर्या॒ अमि॑थितः सखा॒ सखा॑यमब्रवीत् जहा॑को अ॒स्मदी॑षते यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑यम् तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति 8 1-3-1 हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ऋ॒तुरृ॑तुना नु॒द्यमा॑नः विन॑नादा॒भिधा॑वः षष्टिश्च त्रिग्ंश॑का व॒ल्गाः शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः व॒स॒न्तो वसु॑भिस्स॒ह सं॒व॒त्स॒रस्य॑ सवि॒तुः प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॑तः अ॒मूना॒दय॑तेत्य॒न्यान् 9 1-3-2 अ॒मूग्‍श्च॑ परि॒रक्ष॑तः ए॒ता वा॒चः प्र॑युज्य॒न्ते यत्रैत॑दुप॒दृश्य॑ते ए॒तदे॒व वि॑जानी॒यात् प्र॒माणं॑ काल॒पर्य॑ये वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः ऋ॒तूनां᳚ तन्नि॒बोध॑त शुक्लवासा॑ रुद्र॒गणः ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह नि॒जह॑न्पृथि॑वीग्ं स॒र्वाम् 10 1-3-3 ज्यो॒तिषा᳚ऽप्रति॒ख्येन॑ सः वि॒श्व॒रू॒पाणि॑ वासा॒ग्ं॒सि आ॒दि॒त्यानां᳚ नि॒बोध॑त संवत्सरीणं॑ कर्म॒फलम् वर्षाभिर्द॑दता॒ग्ं॒ सह अदुःखो॑ दुःखच॑क्षुरि॒व तद्मा॑ पीत इव॒ दृश्य॑ते शीतेना᳚व्यथ॑यन्नि॒व रु॒रुद॑क्ष इव॒ दृश्य॑ते ह्लादयते᳚ ज्वल॑तश्चै॒व शा॒म्यत॑श्चास्य॒ चक्षु॑षी या वै प्रजा भ्र॑ग्ग्‍श्य॒न्ते संवत्सरात्ता भ्र॑ग्ग्‍श्य॒न्ते या॒: प्रति॑तिष्ठ॒न्ति संवत्सरे ताः प्रति॑तिष्ठ॒न्ति व॒र्षाभ्य॑ इत्य॒र्थः 11 1-3-4 अक्षि॑दु॒:खोत्थि॑तस्यै॒व वि॒प्रस॑न्ने क॒नीनि॑के आङ्क्ते चाद्ग॑णं ना॒स्ति ऋ॒भूणां᳚ तन्नि॒बोध॑त क॒न॒का॒भानि॑ वासा॒ग्ं॒सि अ॒हता॑नि नि॒भोद॑त अन्नमश्नीत॑ मृज्मी॒त अ॒हं वो॑ जीव॒नप्र॑दः ए॒ता वा॒चः प्र॑युज्य॒न्ते श॒रद्य॑त्रोप॒दृश्य॑ते 12 1-4-1 अभिधून्वन्तोऽभिघ्न॑न्त इ॒व वा॒तव॑न्तो म॒रुद्ग॑णाः अमुतो जेतुमिषुमु॑खमि॒व सन्नद्धास्सह द॑दृशे॒ अपध्वस्तैर्वस्तिव॑र्णैरि॒व वि॒शि॒खास॑: कप॒र्दिनः अक्रुद्धस्य योत्स्य॑मान॒स्य क्रु॒द्धस्ये॑व॒ लोहि॑नी हेमतश्चक्षु॑षी वि॒द्यात् अ॒क्ष्णयो᳚: क्षिप॒णोरि॑व 13 1-4-2 दुर्भिक्षं देव॑लोके॒षु म॒नूना॑मुद॒कं गृ॑हे ए॒ता वा॒चः प्र॑वद॒न्तीः वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत इ॒ह जी॑वि॒कामप॑रिपश्यन् तस्यै॒षा भव॑ति इ॒हेहव॑स्स्वत॒पसः मरु॑त॒स्सूर्य॑त्वचः शर्म॑ स॒प्रथा॒ आवृ॑णे 14 1-4-3 अति॑ता॒म्राणि॑ वासा॒ग्ं॒सि अ॒ष्टिव॑ज्रिश॒तघ्नि॑ विश्वे देवा विप्र॑हर॒न्ति अ॒ग्निजि॑ह्वा अ॒सश्च॑त नैव देवो॑ म॒र्त्यः राजा व॑रुणो॒ विभुः नाग्निर्नेन्द्रो प॑वमा॒नः मा॒तृक्क॑च्चन॒ विद्य॑ते दि॒व्यस्यैका॒ धनु॑रार्त्निः पृ॒थि॒व्यामप॑रा श्रि॒ता 15 1-5-1 तस्येन्द्रो वम्रि॑रूपे॒ण ध॒नुर्ज्या॑मच्छि॒नथ्स्व॑यम् तदि॑न्द्र॒धनु॑रित्य॒ज्यम् अ॒भ्रव॑र्णेषु॒ चक्ष॑ते एतदेव शम्योर्बार्ह॑स्पत्य॒स्य ए॒तद्रु॑द्रस्य॒ धनुः रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः शिर॒ उत्पि॑पेष प्र॑व॒र्ग्यो॑ऽभवत् तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते रु॒द्रस्य॒ शिर॒: प्रति॑दधाति नैनग्ं॑ रु॒द्र आरु॑को भवति ए॒वं वेद॑ 16 1-5-2 अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् शिशि॑रः प्र॒दृश्य॑ते नैव रूपं न॑ वासा॒ग्ं॒सि चक्षु॑: प्रति॒दृश्य॑ते अ॒न्योन्यं॒ तु न॑ हिग्ग् स्रा॒तः स॒तस्त॑द्देव॒लक्ष॑णम् लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः सू॒र्यस्यो॑दय॒नं प्र॑ति त्वं करोषि॑न्यञ्ज॒लिकाम् त्वं॒ करो॑षि नि॒जानु॑काम् 17 1-6-1 निजानुका मे᳚न्यञ्ज॒लिका अमी वाचमुपास॑तामि॒ति तस्मै सर्व ऋतवो॑ नम॒न्ते मर्यादाकरत्वात्प्र॑पुरो॒धाम् ब्राह्मण॑ आप्नो॒ति ए॑वं वे॒द खलु संवत्सर एतैस्सेनानी॑भिस्स॒ह इन्द्राय सर्वान्कामान॑भिव॒हति द्र॒प्सः तस्यै॒षा भव॑ति 18 1-6-2 अव॑द्र॒प्सो अग्ं॑शु॒मती॑मतिष्ठत् इ॒या॒नः कृ॒ष्णो द॒शभि॑: स॒हस्रै᳚: आव॒र्तमिन्द्र॒: शच्या॒ धम॑न्तम् उपस्नुहि तं नृमणामथ॑द्रामि॒ति एतयैवेन्द्रः सलावृ॑क्या स॒ह असुरान्प॑रिवृ॒श्चति पृथि॑व्य॒ग्ं॒शुम॑ती ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ नैवं विदुषाऽऽचार्या᳚न्तेवा॒सिनौ अन्योन्यस्मै᳚ द्रुह्या॒ताम् यो द्रु॒ह्यति भ्रश्यते स्व॑र्गाल्लो॒कात् इत्यृतुम॑ण्डला॒नि सूर्यमण्डला᳚न्याख्या॒यिकाः अत ऊर्ध्वग्ं स॑निर्व॒चनाः 19 1-6-3 आरोगो भ्राजः पटर॑: पत॒ङ्गः स्वर्णरो ज्योतिषीमान्॑ विभा॒सः ते अस्मै सर्वे दिवमा॑तप॒न्ति ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति कश्य॑पोऽष्ट॒मः महामेरुं न॑ जहा॒ति तस्यै॒षा भव॑ति यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् 20 1-7-1 तस्मिन्राजानमधिविश्रये॑ममि॒ति ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते तान्सोमः कश्यपादधि॑निर्द्ध॒मति भ्रस्ताकर्मकृ॑दिवै॒वम् प्राणो जीवानीन्द्रिय॑जीवा॒नि सप्त शीर्ष॑ण्याः प्रा॒णाः सूर्या इ॑त्याचा॒र्याः अपश्यमहमेतान्त्सप्त सू᳚र्यानि॒ति पञ्चकर्णो॑ वात्स्या॒यनः सप्तकर्ण॑श्च प्ला॒क्षिः 21 1-7-2 [16*33] आनुश्रविक एव नौ कश्य॑प इ॒ति उभौ॑ वेद॒यिते हि शेकुमिव महामे॑रुं ग॒न्तुम् अपश्यमहमेतत्सूर्यमण्डलं परिव॑र्तमा॒नम् गा॒र्ग्यः प्रा॑णत्रा॒तः गच्छन्त म॑हामे॒रुम् एकं॑ चाज॒हतम् भ्राजपटरपत॑ङ्गा नि॒हने तिष्ठन्ना॑तप॒न्ति तस्मा॑दि॒ह तप्त्रि॑तपाः 22 1-7-3 अ॒मुत्रे॒तरे तस्मा॑दि॒हातप्त्रि॑तपाः तेषा॑मेषा॒ भव॑ति स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावान्॑ ते अस्मै सर्वे घृतमा॑तप॒न्ति ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः तेषा॑मेषा॒ भव॑ति स॒प्त दिशो॒ नाना॑सूर्याः 23 1-7-4 स॒प्त होता॑र ऋ॒त्विज॑: देवा आदित्या॑ ये स॒प्त तेभिस्सोमाभीरक्ष॑ण इ॒ति तद॑प्याम्ना॒यः दिग्भ्राजः ऋतू᳚न् करो॒ति एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शम्पा॒यनः तस्यै॒षा भव॑ति यद्द्याव॑ इन्द्र ते श॒तग्ंश॒तं भूमी᳚: उ॒त स्युः नत्वा॑ वज्रिन्स॒हस्र॒ग्ं॒ सूर्या᳚: 24 1-7-5 अनुनजातमष्ट रोद॑सी इ॒ति नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् अष्टौ तु व्यवसि॑ता इ॒ति सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् तेषा॑मेषा॒ भव॑ति चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति 25 1-7-6 क्वेदमभ्र॑न्निवि॒शते क्वायग्ं॑ संवत्स॒रो मि॑थः क्वाहः क्वेयन्दे॑व रा॒त्री क्व मासा ऋ॑तव॒: श्रिताः अर्धमासा॑ मुहू॒र्ताः निमेषास्तु॑टिभि॒स्सह क्वेमा आपो नि॑विश॒न्ते य॒दीतो॑ यान्ति॒ सम्प्र॑ति काला अप्सु नि॑विश॒न्ते आ॒पस्सूर्ये॑ स॒माहि॑ताः 26 1-8-1 अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते वि॒द्युत्सूर्ये॑ स॒माहि॑ता अनवर्णे इ॑मे भू॒मी इ॒यं चा॑सौ च॒ रोद॑सी किग्ग्‍स्विदत्रान्त॑रा भू॒तम् ये॒नेमे वि॑धृते॒ उभे वि॒ष्णुना॑ विधृ॑ते भू॒मी इ॒ति व॑त्सस्य॒ वेद॑ना इरा॑वती धेनु॒मती॒ हि भू॒तम् सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ 27 1-8-2 व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै᳚: किं तद्विष्णोर्ब॑लमा॒हुः का॒ दीप्ति॑: किं प॒राय॑णम् एको॑ य॒द्धार॑यद्दे॒वः रे॒जती॑ रोद॒सी उ॑भे वाताद्विष्णोर्ब॑लमा॒हुः अ॒क्षरा᳚द्दीप्ति॒रुच्य॑ते त्रि॒पदा॒द्धार॑यद्दे॒वः यद्विष्णो॑रेक॒मुत्त॑मम् 28 1-8-3 अ॒ग्नयो॑ वाय॑वश्चै॒व ए॒तद॑स्य प॒राय॑णम् पृच्छामि त्वा प॑रं मृ॒त्युम् अ॒वमं॑ मध्य॒मञ्च॑तुम् लो॒कञ्च॒ पुण्य॑पापा॒नाम् ए॒तत्पृ॑च्छामि॒ सम्प्र॑ति अ॒मुमा॑हुः प॑रं मृ॒त्युम् प॒वमा॑नं तु॒ मध्य॑मम् अ॒ग्निरे॒वाव॑मो मृ॒त्युः च॒न्द्रमा᳚श्चतु॒रुच्य॑ते 29 1-8-4 अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् पा॒पास्स॑म्यन्ति॒ सर्व॑दा आभोगास्त्वेव॑ सम्य॒न्ति य॒त्र पु॑ण्यकृ॒तो ज॑नाः ततो॑ म॒ध्यम॑माय॒न्ति च॒तुम॑ग्निं च॒ सम्प्र॑ति पृच्छामि त्वा॑ पाप॒कृतः य॒त्र या॑तय॒ते य॑मः त्वं नस्तद्ब्रह्म॑न् प्रबू॒हि य॒दि वे᳚त्थाऽस॒तो गृ॑हान् 30 1-8-5 क॒श्यपा॑दुदि॑तास्सू॒र्याः पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा रोदस्योरन्त॑र्देशे॒षु तत्र न्यस्यन्ते॑ वास॒वैः तेऽशरीराः प्र॑पद्य॒न्ते य॒थाऽपु॑ण्यस्य॒ कर्म॑णः अपा᳚ण्य॒पाद॑केशा॒सः त॒त्र ते॑ऽयोनि॒जा ज॑नाः मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते अ॒द्यमा॑नास्स्व॒कर्म॑भिः 31 1-8-6 आशातिकाः क्रिम॑य इ॒व ततः पूयन्ते॑ वास॒वैः अपै॑तं मृ॒त्युं ज॑यति ए॒वं वेद॑ खल्वैवं॑ विद्ब्रा॒ह्मणः दी॒र्घश्रु॑त्तमो॒ भव॑ति कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः तस्यै॒षा भव॑ति यस्मि᳚न्थ्स॒प्त वा॑स॒वाः रोह॑न्ति पू॒र्व्या॑ रुह॑: 32 1-8-7 ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः इन्द्रस्य घर्मो अति॑थिरि॒ति कश्यपः पश्य॑को भ॒वति यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् अथाग्ने॑रष्टपु॑रुष॒स्य तस्यै॒षा भव॑ति अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेन॑: भूयिष्ठान्ते नम उक्तिं वि॑धेमे॒ति 33 1-8-8 अग्निश्च जात॑वेदा॒श्च सहोजा अ॑जिरा॒प्रभुः वैश्वानरो न॑र्यापा॒श्च प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् एतेऽष्टौ वसवः क्षि॑ता इ॒ति यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः नीलार्चिश्च पीतका᳚र्चिश्चे॒ति अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य प्रभ्राजमाना व्य॑वदा॒ताः 34 1-9-1 याश्च वासु॑किवै॒द्युताः रजताः परु॑षाः श्या॒माः कपिला अ॑तिलो॒हिताः ऊर्ध्वा अवप॑तन्ता॒श्च वैद्युत इ॑त्येका॒दश नैनं वैद्युतो॑ हिन॒स्ति ए॑वं वे॒द होवाच व्यासः पा॑राश॒र्यः विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति त्वका॑मग्ं ह॒न्ति 35 1-9-2 ए॑वं वे॒द अथ ग॑न्धर्व॒गणाः स्वान॒भ्राट् अङ्घा॑रि॒र्बम्भा॑रिः हस्त॒स्सुह॑स्तः कृशा॑नुर्वि॒श्वाव॑सुः मूर्धन्वान्थ्सू᳚र्यव॒र्चाः कृतिरित्येकादश ग॑न्धर्व॒गणाः देवाश्च म॑हादे॒वाः रश्मयश्च देवा॑ गर॒गिरः 36 1-9-3 नैनं गरो॑ हिन॒स्ति ए॑वं वे॒द गौ॒रीमि॑माय सलि॒लानि॒ तक्ष॑ती एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी अ॒ष्टापदी॒ नव॑पदी बभू॒वुषी᳚ सहस्राक्षरा परमे व्यो॑मन्नि॒ति वाचो॑ विशे॒षणम् अथ निगद॑व्याख्या॒ताः ताननुक्र॑मिष्या॒मः व॒राहव॑स्सवत॒पसः 37 1-9-4 वि॒द्युन्म॑हसो॒ धूप॑यः श्वापयो गृहमेधा᳚श्चेत्ये॒ते ये॒ चेमेऽशि॑मिवि॒द्विषः पर्जन्यास्सप्त पृथिवीमभिव॑र्ष॒न्ति वृष्टि॑भिरि॒ति एतयैव विभक्तिवि॑परी॒ताः स॒प्तभि॒र्वातै॑रुदी॒रिताः अमूँल्लोकानभिव॑र्ष॒न्ति तेषा॑मेषा॒ भव॑ति स॒मा॒नमे॒तदुद॑कम् 38 1-9-5 उ॒च्चैत्य॑व॒चाह॑भिः भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति दिवं जिन्वन्त्यग्न॑य इ॒ति यदक्ष॑रं भू॒तकृ॑तम् विश्वे॑ देवा उ॒पास॑ते म॒हर्षि॑मस्य गो॒प्तारम्᳚ ज॒मद॑ग्नि॒मकु॑र्वत ज॒मद॑ग्नि॒राप्या॑यते छन्दो॑भिश्चतुरुत्त॒रैः राज्ञ॒स्सोम॑स्य तृ॒प्तास॑: 39 1-9-6 ब्रह्म॑णा वी॒र्या॑वता शि॒वा न॑: प्र॒दिशो॒ दिश॑: तच्छ॒म्योरावृ॑णीमहे गा॒तुं य॒ज्ञाय॑ गा॒तुं य॒ज्ञप॑तये दैवी᳚स्व॒स्तिर॑स्तु नः स्व॒स्तिर्मानु॑षेभ्यः ऊ॒र्ध्वं जि॑गातु भेष॒जम् शन्नो॑ अस्तु द्वि॒पदे᳚ शम् चतु॑ष्पदे सोमपा 3 असोमपा 3 इति निगद॑व्याख्या॒ताः 40 1-9-7 स॒ह॒स्र॒वृदि॑यं भू॒मिः प॒रं व्यो॑म स॒हस्र॑वृत् अ॒श्विना॑ भुज्यू॑ नास॒त्या वि॒श्वस्य॑ जग॒तस्प॑ती जाया भूमिः प॑तिर्व्यो॒म मि॒थुन॑न्ता अ॒तुर्य॑थुः पुत्रो बृहस्प॑ती रु॒द्रः स॒रमा॑ इति॑ स्त्रीपु॒मम् शु॒क्रं वा॑म॒न्यद्य॑ज॒तं वा॑म॒न्यत् विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः 41 1-10-1 विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ भ॒द्रा वां᳚ पूषणावि॒ह रा॒तिर॑स्तु वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ द्यावा॑भूमी च॒रथ॑: स॒ग्ं॒ सखा॑यौ ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे शु॒भ॒स्प॒ती॒ आ॒गतग्ं॑ सू॒र्यया॑ स॒ह त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिन्न कश्चि॑न्ममृ॒वां 2 अवा॑हाः तमू॑हथुर्नौ॒भिरा᳚त्म॒न्वती॑भिः अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः 42 1-10-2 ति॒स्रः क्षप॒स्त्रिरहा॑ऽति॒व्रज॑द्भिः नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भीरथै᳚श्श॒तप॑द्भि॒: षड॑श्वै॒: स॒वि॒तारं॒ वित॑न्वन्तम् अनु॑बध्नाति शाम्ब॒रः आपपूरुषम्ब॑रश्चै॒व स॒विता॑ऽरेप॒सो॑ भवत् त्यग्ं सुतृप्तं वि॑दित्वै॒व ब॒हुसो॑म गि॒रं व॑शी 43 1-10-3 अन्वेति तुग्रो व॑क्रिया॒न्तम् आयसूयान्त्सोम॑तृप्सु॒षु सङ्ग्रामस्तमो᳚द्योऽत्यो॒तः वाचो गाः पि॑पाति॒ तत् तद्गोभिस्स्त्वा᳚ऽत्येत्य॒न्ये र॒क्षसा॑ऽनन्वि॒ताश्च॑ ये अ॒न्वेति॒ परि॑वृत्या॒ऽस्तः ए॒वमे॒तौ स्थो॑ अश्विना ते ए॒ते द्यु॑:पृथि॒व्योः अह॑रह॒र्गर्भ॑न्दधाथे 44 1-10-4 तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे पृ॒थि॒व्या अह॑: दि॒वो रात्रि॑: ता अवि॑सृष्ठौ दम्प॑ती ए॒व भ॑वतः तयो॑रे॒तौ व॒त्सौ अ॒ग्निश्चा॑दित्य॒श्च॑ रा॒त्रेर्व॒त्सः श्वे॒त आ॑दि॒त्यः अह्नो॒ऽग्निः 45 1-10-5 ता॒म्रो अ॑रु॒णः ता अवि॑सृष्टौ दम्प॑ती ए॒व भ॑वतः तयो॑रे॒तौ व॒त्सौ वृ॒त्रश्च॑ वैद्यु॒तश्च॑ अ॒ग्नेर्वृ॒त्रः वै॒द्युत॑ आदि॒त्यस्य॑ ता अवि॑सृष्टौ दम्प॑ती ए॒व भ॑वतः तयो॑रे॒तौ व॒त्सौ 46 1-10-6 उ॒ष्मा च॑ नीहा॒रश्च॑ वृ॒त्रस्यो॒ष्मा वै॒द्यु॒तस्य॑ नीहा॒रः तौ तावे॒व प्रति॑पद्येते सेयग्ं रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति तस्या॒ वा ए॒तदु॒ल्बणम्᳚ यद्रात्रौ॑ र॒श्मय॑: यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बणम्᳚ ए॒वमे॒तस्या॑ उ॒ल्बणम्᳚ प्रजयिष्णुः प्रजया पशुभि॑श्च भ॒वति ए॑वं वे॒द एतमुद्यन्तमपिय॑न्तं चे॒ति आदित्यः पुण्य॑स्य व॒त्सः अथ पवि॑त्राङ्गि॒रसः 47 1-10-7 प॒वित्र॑वन्त॒: परि॒वाज॒मास॑ते पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् म॒हस्स॑मुद्रं वरु॑णस्ति॒रोद॑धे धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभम्᳚ प॒वि॑त्रं ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ब्र॒ह्मा दे॒वाना᳚म् अस॑तस्स॒द्ये तत॑क्षुः 48 1-11-1 ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् सर्वेऽत्रयो अ॑गस्त्य॒श्च नक्ष॑त्रै॒श्शङ्कृ॑तोऽवसन् अथ॑ सवितु॒: श्यावाश्व॒स्याऽवर्ति॑कामस्य अ॒मी ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुहा॑चि॒द्दिवे॑युः अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति तत्स॑वि॒तुर्वरे᳚ण्यम् भर्गो॑ दे॒वस्य॑ धीमहि 49 1-11-2 धियो॒ यो न॑: प्रचो॒दया᳚त् तत्स॑वि॒तुर्वृ॑णीमहे व॒यन्दे॒वस्य॒ भोज॑नम् श्रेष्ठग्ं॑सर्व॒धात॑मम् तुरं॒ भग॑स्य धीमहि अपा॑गूहत सविता॒ तृभीन्॑ सर्वा᳚न्दि॒वो अन्ध॑सः नक्त॒न्यान्य॑भवन्दृ॒शे अस्थ्य॒स्थ्ना सम्भ॑विष्यामः नाम॒ नामै॒व ना॒म मे᳚ 50 1-11-3 नपुग्‍ंस॑कं॒ पुमा॒ग्॒‍ंस्त्र्य॑स्मि स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः य॒जेऽयक्षि॒ यष्टा॒हे च॑ मया॑ भू॒तान्य॑यक्षत प॒शवो॑ मम॑ भूता॒नि अनूबन्ध्योऽस्म्य॑हं वि॒भुः स्त्रिय॑स्स॒तीः ता उ॑ मे पु॒ग्॒‍ंस आ॑हुः पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत 51 1-11-4 यस्ता वि॑जा॒नाथ्स॑वि॒तुः पि॒ता स॑त् अ॒न्धो मणिम॑विन्दत् तम॑नङ्गुलि॒राव॑यत् अ॒ग्री॒वः प्रत्य॑मुञ्चत् तमजि॑ह्वा अ॒सश्च॑त ऊर्ध्वमूलम॑वाक्छा॒खम् वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति जातु जन॑: श्रद्द॒ध्यात् मृ॒त्युर्मा॑ मार॒यादि॑तिः हसितग्‍ं रुदि॑तङ्गी॒तम् 52 1-11-5 वीणा॑पणव॒लासि॑तम् मृ॒तञ्जी॒वं च॑ यत्कि॒ञ्चित् अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् अतृ॑ष्य॒ग्ग्॒स्तृष्य॑ ध्यायत् अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्॑ पुत्रो निरृत्या॑ वैदे॒हः अ॒चेता॑ यश्च॒ चेत॑नः स॒ तं मणिम॑विन्दत् सो॑ऽनङ्गुलि॒राव॑यत् सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् 53 1-11-6 सोऽजि॑ह्वो अ॒सश्च॑त नैतमृषिं विदित्वा नग॑रं प्र॒विशेत् य॑दि प्र॒विशेत् मि॒थौ चरि॑त्वा प्र॒विशेत् तथ्सम्भव॑स्य व्र॒तम् आ॒तम॑ग्ने र॒थन्ति॑ष्ठ एका᳚श्वमेक॒योज॑नम् एकचक्र॑मेक॒धुरम् वा॒तध्रा॑जिग॒तिं वि॑भो न॒ रि॒ष्यति॑ व्य॒थते 54 1-11-7 ना॒स्याक्षो॑ यातु॒ सज्ज॑ति यच्छ्वेता᳚न्रोहि॑ताग्‍ंश्चा॒ग्नेः र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति एकया दशभिश्च॑ स्वभू॒ते द्वाभ्यामिष्टये विग्॑‍ंशत्या॒ तिसृभिश्च वहसे त्रिग्॑‍ंशता॒ नियुद्भिर्वायविहिता॑ विमु॒ञ्च 55 1-11-8 आत॑नुष्व॒ प्रत॑नुष्व उ॒द्धमाऽऽध॑म॒ सन्ध॑म आदित्ये चन्द्र॑वर्णा॒नाम् गर्भ॒माधे॑हि॒ यः पुमान्॑ इ॒तस्सि॒क्तग्‍ं सूर्य॑गतम् च॒न्द्रम॑से॒ रस॑ङ्कृधि वारादञ्जन॑याग्रे॒ऽग्निम् एको॑ रुद्र॒ उच्य॑ते अ॒स॒ङ्ख्या॒तास्स॑हस्रा॒णि स्म॒र्यते॑ च॒ दृश्य॑ते 56 1-12-1 ए॒वमे॒तन्नि॑बोधत आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः या॒हि म॒यूर॑रोमभिः मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः द॒ध॒न्वेव॒ ता इ॑हि मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः या॒मि म॒यूर॑रोमभिः मा मा केचिन्न्येमुरि॑न्न पा॒शिनः नि॒ध॒न्वेव॒ तां 2 इ॑मि अणुभिश्च म॑हद्भि॒श्च 57 1-12-2 नि॒घृष्वै॑रस॒मायु॑तैः कालैर्हरित्व॑माप॒न्नैः इन्द्राया॑हि स॒हस्र॑युक् अ॒ग्निर्वि॒भ्राष्टि॑वसनः वा॒युश्श्वेत॑सिकद्रु॒कः सं॒व॒थ्स॒रो वि॑षू॒वर्णै॑: नित्या॒स्तेऽनुच॑रास्त॒व सुब्रह्मण्योग्‍ं सुब्रह्मण्योग्‍ं सु॑ब्रह्म॒ण्योम् इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः मेष वृषणश्व॑स्य मे॒ने 58 1-12-3 गौरावस्कन्दिन्नहल्या॑यै जा॒र कौशिकब्राह्मण गौतम॑ब्रुवा॒ण अ॒रु॒णाश्वा॑ इ॒हाग॑ताः वस॑वः पृथिवि॒क्षित॑: अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नय॑: अग्निश्च जातवेदा᳚श्चेत्ये॒ते ताम्राश्वा᳚स्ताम्र॒रथाः ताम्रवर्णा᳚स्तथा॒ऽसिताः दण्डहस्ता᳚: खाद॒ग्दतः इतो रुद्रा᳚: परा॒ङ्गताः 59 1-12-4 उक्तग्ग्‍ स्थानं प्रमाणञ्च॑ पुर॒ इत बृह॒स्पति॑श्च सवि॒ता च॑ वि॒श्वरू॑पैरि॒हाग॑ताम् रथे॑नोदक॒वर्त्म॑ना अ॒प्सुषा॑ इति॒ तद्द्व॑योः उक्तो वेषो॑ वासा॒ग्॒‍ंसि कालावयवानामित॑: प्रती॒च्या वासात्या॑ इत्य॒श्विनोः कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति वासिष्ठौ रौहिणो मीमाग्॑‍ंसाञ्च॒क्रे तस्यै॒षा भव॑ति वा॒श्रेव॑ वि॒द्युदिति॑ ब्रह्म॑ण उ॒दर॑णमसि ब्रह्म॑ण उदी॒रण॑मसि ब्रह्म॑ण आ॒स्तर॑णमसि ब्रह्म॑ण उप॒स्तर॑णमसि 60 1-12-5 अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् अ॒ष्टप॑त्नीमि॒मां मही᳚म् अ॒हं वेद॒ मे॑ मृत्युः नचामृ॑त्युर॒घाऽह॑रत् अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम् अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् अ॒हं वेद॒ मे॑ मृत्युः नचामृ॑त्युर॒घाऽह॑रत् अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् अ॒ष्टप॑त्नीम॒मून्दिवम्᳚ 61 1-13-1 अ॒हं वेद॒ मे॑ मृत्युः नचामृ॑त्युर॒घाऽऽह॑रत् सु॒त्रामा॑णं म॒हीमू॒षु अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् अदि॑तिर्मा॒ता पि॒ता पु॒त्रः विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒जना᳚: अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः ये जा॒तास्त॒न्व॑: परि॑ दे॒वां 2 उप॑प्रैत्स॒प्तभि॑: 62 1-13-2 प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् स॒प्तभि॑: पु॒त्रैरदि॑तिः उप॒प्रैत्पू॒र्व्यं॑ युगम्᳚ प्र॒जायै॑ मृ॒त्यवे त॑त् प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ ताननुक्र॑मिष्या॒मः मि॒त्रश्च॒ वरु॑णश्च धा॒ता चा᳚र्या॒मा च॑ अग्‍ंश॑श्च॒ भग॑श्च इन्द्रश्च विवस्वाग्॑‍ंश्चेत्ये॒ते हि॒र॒ण्य॒ग॒र्भो ह॒ग्॒‍ंसश्शु॑चि॒षत् ब्रह्म॑जज्ञा॒नम् तदित्प॒दमिति॑ ग॒र्भः प्रा॑जाप॒त्यः अथ॒ पुरु॑षः स॒प्तपुरु॑षः 63 1-13-3 योऽसौ॑ त॒पन्नु॒देति॑ सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णाना॒दायोद॑गाः अ॒सौ यो᳚ऽस्त॒मेति॑ सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒स्तमेति॑ मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः अ॒सौ आ॒पूर्य॑ति सर्वे॑षां भू॒तानां᳚ प्रा॒णैरा॒पूर्य॑ति 64 1-14-1 मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः अ॒सौ यो॑ऽप॒क्षीय॑ति सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑क्षीयति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑क्षेष्ठाः अ॒मूनि॒ नक्ष॑त्राणि सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत 65 1-14-2 इ॒मे मासा᳚श्चार्धमा॒साश्च॑ सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत इ॒म ऋ॒तव॑: सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत अ॒यग्‍ं सं॑वथ्स॒रः सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति 66 1-14-3 मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प इ॒दमह॑: सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प इ॒यग्‍ंरात्रि॑: सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प ओं भूर्भुव॒स्स्व॑: एतद्वो मिथुनं मानो मिथु॑नग्‍ं री॒ढ्वम् 67 1-14-4 अथादित्यस्याष्टपु॑रुष॒स्य वसूनामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि रुद्राणामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि आदित्यानामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि सताग्॑‍ंसत्या॒नाम् आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि अभिधून्वता॑मभि॒घ्नताम् वातव॑तां म॒रुताम् आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ऋभूणामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि विश्वेषा᳚न्देवा॒नाम् आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि संवथ्सर॑स्य स॒वितुः आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ओं भूर्भुव॒स्स्व॑: रश्मयो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् 68 1-15-1 आरोगस्य स्थाने स्वतेज॑सा भा॒नि भ्राजस्य स्थाने स्वतेज॑सा भा॒नि पटरस्य स्थाने स्वतेज॑सा भा॒नि पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि विभासस्य स्थाने स्वतेज॑सा भा॒नि कश्यपस्य स्थाने स्वतेज॑सा भा॒नि ओं भूर्भुव॒स्स्व॑: आपो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् 69 1-16-1 अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य प्रभ्राजमानानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि व्यवदातानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि वासुकिवैद्युतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि रजतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि परुषाणाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि श्यामानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि कपिलानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि अतिलोहितानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ऊर्ध्वानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि 70 1-17-1 अवपतन्तानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि वैद्युतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि प्रभ्राजमानीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि व्यवदातीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि वासुकिवैद्युतीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि रजतानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि परुषाणाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि श्यामानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि कपिलानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि अतिलोहितीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ऊर्ध्वानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि अवपतन्तीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि वैद्युतीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ओं भूर्भुव॒स्स्व॑: रूपाणि वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् 71 1-17-2 अथाग्ने॑रष्टपु॑रुष॒स्य अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ओं भूर्भुव॒स्स्व॑: दिशो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् 72 1-18-1 दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः तस्मान्नः प॑रिपा॒हि दक्षिणास्यान्दिश्यविस॑र्पी न॒रकः तस्मान्नः प॑रिपा॒हि उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः तस्मान्नः प॑रिपा॒हि उत्तरापरस्यान्दिश्यविषा॑दी न॒रकः तस्मान्नः प॑रिपा॒हि आयस्मिन्थ्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते 73 1-19-1 इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् वि॒श्वक॑र्मा आदि॒त्यैरु॑त्तर॒त उप॑दधताम् त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् सञ्ज्ञानं वः प॑श्चादि॒ति आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् वा॒युर॒न्तरि॑क्षे सूर्यो॑ दि॒वि च॒न्द्रमा॑ दि॒क्षु नक्ष॑त्राणि॒ स्वलो॒के ए॒वा ह्ये॑व ए॒वा ह्य॑ग्ने ए॒वा हि वा॑यो ए॒वा ही᳚न्द्र ए॒वा हि पू॑षन् ए॒वा हि दे॑वाः 74 1-20-1 आप॑मापाम॒पः सर्वा᳚: अ॒स्माद॒स्मादि॒तोऽमुत॑: अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च स॒ह स॑ञ्चस्क॒रर्द्धि॑या वा॒य्वश्वा॑ रश्मि॒पत॑यः मरी᳚च्यात्मानो॒ अद्रु॑हः दे॒वीर्भु॑वन॒सूव॑रीः पु॒त्र॒व॒त्त्वाय॑ मे सुत महानाम्नीर्म॑हामा॒नाः म॒ह॒सो म॑हस॒स्स्व॑: 75 1-21-1 दे॒वीः प॑र्जन्य॒सूव॑रीः पु॒त्र॒व॒त्त्वाय॑ मे सुत अ॒पाऽश्न्यु॑ष्णिम॒पारक्ष॑: अ॒पाऽश्न्यु॑ष्णिम॒पारघम्᳚ अपा᳚घ्रा॒मप॑चा॒ऽवर्तिम्᳚ अप॑दे॒वीरि॒तो हि॑त वज्र॑न्दे॒वीरजी॑ताग्‍ंश्च भुव॑नन्देव॒सूव॑रीः आ॒दि॒त्यानदि॑तिन्दे॒वीम् योनि॑नोर्ध्वमु॒दीष॑त 76 1-21-2 भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: व्यशे॑म दे॒वहि॑तं॒ यदायु॑: स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु के॒तवो॒ अरु॑णासश्च ऋ॒ष॒यो वात॑रश॒नाः प्र॒ति॒ष्ठाग्‍ं श॒तधा॑ हि स॒माहि॑तासो सहस्र॒धाय॑सम् शि॒वा न॒श्शन्त॑मा भवन्तु दि॒व्या आप॒ ओष॑धयः सु॒मृ॒डी॒का सर॑स्वति मा ते॒ व्यो॑म स॒न्दृशि॑ 77 1-21-3 यो॑ऽपां पुष्पं॒ वेद॑ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति अ॒ग्निर्वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ 78 1-22-1 आ॒यत॑नवान् भवति आपो॒ वा अ॒ग्नेरा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति वा॒युर्वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो वा॒योरा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति 79 1-22-2 आपो॒ वै वा॒योरा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् 80 1-22-3 आ॒यत॑नवान् भवति ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् आ॒यत॑नवान् भवति 81 1-22-4 ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् आ॒यत॑नवान् भवति ए॒वं वेद॑ 82 1-22-5 यो॑ऽपामा॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् आ॒यत॑नवान् भवति ए॒वं वेद॑ यो॑ऽपामा॒यत॑नं॒ वेद॑ 83 1-22-6 आ॒यत॑नवान् भवति सं॒व॒थ्स॒रो वा अ॒पामा॒यत॑नम् आ॒यत॑नवान् भवति यस्सं॑वथ्स॒रस्या॒यत॑नं॒ वेद॑ आ॒यत॑नवान् भवति आपो॒ वै सं॑वथ्स॒रस्या॒ऽऽयत॑नम् आ॒यत॑नवान् भवति ए॒वं वेद॑ यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ प्रत्ये॒व ति॑ष्ठति 84 1-22-7 इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः तदे॒षाऽभ्यनू᳚क्ता अ॒पाग्‍ं रस॒मुद॑यग्‍ं सन् सूर्ये॑ शु॒क्रग्‍ं स॒माभृ॑तम् अ॒पाग्‍ं रस॑स्य॒ यो रस॑: तं वो॑ गृह्णाम्युत्त॒ममिति॑ इ॒मे वै लो॒का अ॒पाग्‍ं रस॑: ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् 85 1-22-8 पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सग्ग्‍स्ती॒र्य तस्मि॑न्विहा॒यसे अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚ साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते᳚ अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयो᳚: प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ 86 1-22-9 अथो॑ आहुः सर्वे॑षु यज्ञक्र॒तुष्विति॑ ए॒तद्ध॑ स्म॒ वा आ॑हुश्शण्डि॒लाः कम॒ग्निञ्चि॑नुते स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः सं॒व॒थ्स॒रं प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते 87 1-22-10 ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः प्रा॒णान्प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ब्रह्म॑ प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः शरी॑रं प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः 88 1-22-11 इ॒माँल्लो॒कान्प्र॒त्यक्षे॑ण कम॒ग्निञ्चि॑नुते इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒नः इति॑ ए॒वासौ इ॒तश्चा॒मुत॑श्चाऽव्यतीपा॒ती तमिति॑ यो᳚ऽग्नेर्मि॑थू॒या वेद॑ मि॒थु॒न॒वान्भ॑वति आपो॒ वा अ॒ग्नेर्मि॑थू॒याः मि॒थु॒न॒वान्भ॑वति ए॒वं वेद॑ 89 1-22-12 आपो॒ वा इ॒दमा॑सन्थ्सलि॒लमे॒व प्र॒जाप॑ति॒रेक॑: पुष्करप॒र्णे सम॑भवत् तस्यान्त॒र्मन॑सि काम॒स्सम॑वर्तत इ॒दग्‍ं सृ॑जेय॒मिति॑ तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति तद्वा॒चा व॑दति तत्कर्म॑णा करोति तदे॒षाऽभ्यनू᳚क्ता काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ मन॑सो॒ रेत॑: प्रथ॒मं यदासी᳚त् 90 1-23-1 स॒तो बन्धु॒मस॑ति॒ नि॑रविन्दन् हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ उपै॑न॒न्तदुप॑नमति यत्का॑मो॒ भव॑ति ए॒वं वेद॑ तपो॑ऽतप्यत तप॑स्त॒प्त्वा शरी॑रमधूनुत तस्य॒ यन्मा॒ग्॒‍ंसमासी᳚त् ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् 91 1-23-2 ये नखा᳚: ते वै॑खान॒साः ये वाला᳚: ते वा॑लखि॒ल्याः यो रस॑: सो॑ऽपाम् अ॒न्त॒र॒तः कू॒र्मं भू॒तग्‍ं सर्प॑न्तम् तम॑ब्रवीत् मम॒ वैत्वङ्मा॒ग्॒‍ंसा सम॑भूत् 92 1-23-3 नेत्य॑ब्रवीत् पूर्व॑मे॒वाहमि॒हास॒मिति॑ तत्पुरु॑षस्य पुरुष॒त्वम् स॒हस्र॑शीर्षा॒ पुरु॑षः स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् भू॒त्वोद॑तिष्ठत् तम॑ब्रवीत् त्वं वै पूर्वग्॑‍ं सम॑भूः त्वमि॒दं पूर्व॑: कुरु॒ष्वेति॑ इ॒त आ॒दायाप॑: 93 1-23-4 अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् ए॒वाह्ये॒वेति॑ तत॑ आदि॒त्य उद॑तिष्ठत् सा प्राची॒ दिक् अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् ए॒वाह्यग्न॒ इति॑ ततो॒ वा अ॒ग्निरुद॑तिष्ठत् सा द॑क्षि॒णा दिक् अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ए॒वाहि वायो॒ इति॑ 94 1-23-5 ततो॑ वा॒युरुद॑तिष्ठत् सा प्र॒तीची॒ दिक् अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् ए॒वाहीन्द्रेति॑ ततो॒ वा इन्द्र॒ उद॑तिष्ठत् सोदी॑ची॒ दिक् अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् ए॒वाहि पूष॒न्निति॑ ततो॒ वै पू॒षोद॑तिष्ठत् सेयन्दिक् 95 1-23-6 अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् ए॒वाहि दे॒वा इति॑ ततो॑ देवमनु॒ष्याः पि॒तर॑: ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् सोर्ध्वा दिक् या वि॒प्रुषो॑ वि॒परा॑पतन् ताभ्योऽसु॑रा॒ रक्षाग्॑‍ंसि पिशा॒चाश्चोद॑तिष्ठन् तस्मा॒त्ते परा॑भवन् वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् तदे॒षाऽभ्यनू᳚क्ता 96 1-23-7 आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भा॒मायन्॑ दक्ष॒न्दधा॑ना ज॒नय॑न्तीस्स्वय॒म्भुम् तत॑ इ॒मेऽद्ध्यसृ॑ज्यन्त॒ सर्गा᳚: अद्भ्यो॒ वा इ॒दग्‍ं सम॑भूत् तस्मा॑दि॒दग्‍ं सर्वं॒ ब्रह्म॑ स्वय॒म्भ्विति॑ तस्मा॑दि॒दग्‍ं सर्व॒ग्॒‍ं शिथि॑लमि॒वाद्ध्रुव॑मिवाभवत् प्र॒जाप॑ति॒र्वाव तत् आ॒त्मना॒त्मानं॑ वि॒धाय॑ तदे॒वानु॒प्रावि॑शत् तदे॒षाऽभ्यनू᳚क्ता 97 1-23-8 वि॒धाय॑ लो॒कान्वि॒धाय॑ भू॒तानि॑ वि॒धाय॒ सर्वा᳚: प्र॒दिशो॒ दिश॑श्च प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑ सर्व॑मे॒वेदमा॒प्त्वा सर्व॑मव॒रुद्ध्य॑ तदे॒वानु॒प्रवि॑शति ए॒वं वेद॑ 98 1-23-9 चतु॑ष्टय्य॒ आपो॑ गृह्णाति च॒त्वारि॒ वा अ॒पाग्‍ं रू॒पाणि॑ मेघो॑ वि॒द्युत् स्त॒न॒यि॒त्नुर्वृ॒ष्टिः तान्ये॒वाव॑रुन्धे आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ताः पु॒रस्ता॒दुप॑दधाति ए॒ता वै ब्र॑ह्मवर्च॒स्या आप॑: मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे तस्मा᳚न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः 99 1-24-1 कूप्या॑ गृह्णाति ता द॑क्षिण॒त उप॑दधाति ए॒ता वै ते॑ज॒स्विनी॒राप॑: तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः स्था॒व॒रा गृ॑ह्णाति ताः प॒श्चादुप॑दधाति प्रति॑ष्ठिता॒ वै स्था॑व॒राः प॒श्चादे॒व प्रति॑तिष्ठति वह॑न्तीर्गृह्णाति 100 1-24-2 ता उ॑त्तर॒त उप॑दधाति ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः स॒म्भा॒र्या गृ॑ह्णाति ता मध्य॒ उप॑दधाति इ॒यं वै स॑म्भा॒र्याः अ॒स्यामे॒व प्रति॑तिष्ठति प॒ल्व॒ल्या गृ॑ह्णाति ता उ॒परि॑ष्टादु॒पाद॑धाति 101 1-24-3 अ॒सौ वै प॑ल्व॒ल्याः अ॒मुष्या॑मे॒व प्रति॑तिष्ठति दि॒क्षूप॑दधाति दि॒क्षु वा आप॑: अन्नं॒ वा आप॑: अ॒द्भ्यो वा अन्न॑ञ्जायते यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते तदव॑रुन्धे तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑योऽचिन्वन् तस्मा॑दारुणके॒तुक॑: 102 1-24-4 तदे॒षाऽभ्यनू᳚क्ता के॒तवो॒ अरु॑णासश्च ऋ॒ष॒यो वात॑रश॒नाः प्र॒ति॒ष्ठाग्‍ं श॒तधा॑हि स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति ए॒तम॒ग्निञ्चि॑नुते उ॑चैनमे॒वं वेद॑ 103 1-24-5 जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा अ॒पां पू॑रयति अ॒पाग्‍ं स॑र्व॒त्वाय॑ पु॒ष्क॒र॒प॒र्णग्‍ं रु॒क्मं पुरु॑ष॒मित्युप॑दधाति तपो॒ वै पु॑ष्करप॒र्णम् स॒त्यग्‍ं रु॒क्मः अ॒मृतं॒ पुरु॑षः ए॒ताव॒द्वावा᳚स्ति याव॑दे॒तत् याव॑दे॒वास्ति॑ 104 1-25-1 तदव॑रुन्धे कू॒र्ममुप॑दधाति अ॒पामे॒व मेध॒मव॑रुन्धे अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै आप॑मापाम॒पस्सर्वा᳚: अ॒स्माद॒स्मादि॒तोऽमुत॑: अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ वा॒य्वश्वा॑ रश्मि॒पत॑यः लो॒कं पृ॑णच्छि॒द्रं पृ॑ण 105 1-25-2 यास्ति॒स्रः प॑रम॒जाः इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ पञ्च॒चित॑य॒ उपद॑धाति पाङ्क्तो॒ऽग्निः याव॑ने॒वाग्निः तञ्चि॑नुते लो॒कम्पृ॑णया द्वि॒तीया॒मुप॑दधाति पञ्च॑पदा॒ वै वि॒राट् तस्या॒ वा इ॒यं पाद॑: अ॒न्तरि॑क्षं॒ पाद॑: द्यौः पाद॑: दिश॒: पाद॑: प॒रोर॑जा॒: पाद॑: वि॒राज्ये॒व प्रति॑तिष्ठति ए॒तम॒ग्निञ्चि॑नु॒ते उ॑चैनमे॒वं वेद॑ 106 1-25-3 अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयो᳚: प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ अथो॑ आहुः सर्वे॑षु यज्ञक्र॒तुष्विति॑ अथ॑ हस्माहारु॒णस्स्वा॑य॒म्भुव॑: सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि कम॒ग्निञ्चि॑नुते 107 1-26-1 स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते 108 1-26-2 उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः कम॒ग्निञ्चि॑नुते इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न इति॑ वृषा॒ वा अ॒ग्निः वृषा॑णो॒ सग्ग्‍स्फा॑लयेत् ह॒न्येता᳚स्य य॒ज्ञः तस्मा॒न्नानु॒षज्य॑: सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत उ॒त्त॒र॒वे॒द्याग्‍ं ह्य॑ग्निश्ची॒यते᳚ प्र॒जाका॑मश्चिन्वीत 109 1-26-3 प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः प्रा॒जा॒प॒त्याः प्र॒जाः प्र॒जावा᳚न्भवति ए॒वं वेद॑ प॒शुका॑मश्चिन्वीत स॒ञ्ज्ञानं॒ वा ए॒तत्प॑शू॒नाम् यदाप॑: प॒शू॒नामे॒व स॒ञ्ज्ञाने॒ऽग्निञ्चि॑नुते प॒शु॒मान्भ॑वति ए॒वं वेद॑ 110 1-26-4 वृष्टि॑कामश्चिन्वीत आपो॒ वै वृष्टि॑: प॒र्जन्यो॒ वर्षु॑को भवति ए॒वं वेद॑ आ॒म॒या॒वी चि॑न्वीत आपो॒ वै भे॑ष॒जम् भे॒ष॒जमे॒वास्मै॑ करोति सर्व॒मायु॑रेति अ॒भि॒चरग्ग्॑‍श्चिन्वीत वज्रो॒ वा आप॑: 111 1-26-5 वज्र॑मे॒व भ्रातृ॑व्येभ्य॒: प्रह॑रति स्तृ॒णु॒त ए॑नम् तेज॑स्कामो॒ यश॑स्कामः ब्र॒ह्म॒व॒र्च॒सका॑मस्स्व॒र्गका॑मश्चिन्वीत ए॒ताव॒द्वा वा᳚स्ति याव॑दे॒तत् याव॑दे॒वास्ति॑ तदव॑रुन्धे तस्यै॒तद्व्र॒तम् वर्ष॑ति॒ धा॑वेत् 112 1-26-6 अ॒मृतं॒ वा आप॑: अ॒मृत॒स्यान॑न्तरित्यै नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् निष्ठी॑वेत् वि॒वस॑नस्स्नायात् गुह्यो॒ वा ए॒षो᳚ऽग्निः ए॒तस्या॒ग्नेरन॑तिदाहाय पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे᳚त् ए॒तस्या॒ग्नेरन॑भ्यारोहाय कूर्म॒स्याश्नी॑यात् नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति अ॒घातु॑का॒ आप॑: ए॒तम॒ग्निञ्चि॑नु॒ते उ॑चैनमे॒वं वेद॑ 113 1-26-7 इ॒मानु॑कं॒ भुव॑ना सीषधेम इन्द्र॑श्च॒ विश्वे॑ दे॒वाः य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भि॑: अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म् आप्ल॑वस्व॒ प्रप्ल॑वस्व आ॒ण्डी भ॑व ज॒ मा मु॒हुः सुखादीन्दु॑:खनि॒धनाम् प्रति॑मुञ्चस्व॒ स्वां पु॒रम् 114 1-27-1 मरी॑चयस्स्वायम्भु॒वाः ये श॑री॒राण्य॑कल्पयन् ते ते॑ दे॒हङ्क॑ल्पयन्तु मा च॑ ते॒ ख्या स्म॑ तीरिषत् उत्ति॑ष्ठत॒ मा स्व॑प्त अ॒ग्निमि॑च्छध्वं॒ भार॑ताः राज्ञ॒स्सोम॑स्य तृ॒प्तास॑: सूर्ये॑ण स॒युजो॑षसः युवा॑ सु॒वासा᳚: अ॒ष्टाच॑क्रा॒ नव॑द्वारा 115 1-27-2 दे॒वानां॒ पूर॑यो॒ध्या तस्याग्॑‍ं हिरण्म॑यः को॒शः स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः यो वै तां᳚ ब्रह्म॑णो वे॒द अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः वि॒भ्राज॑माना॒ग्॒‍ं हरि॑णीम् य॒शसा॑ सम्प॒रीवृ॑ताम् पुरग्॑‍ं हिरण्म॑यीं ब्र॒ह्मा 116 1-27-3 वि॒वेशा॑ऽप॒राजि॑ता पराङेत्य॑ज्याम॒यी पराङेत्य॑नाश॒की इ॒ह चा॑मुत्र॑ चान्वे॒ति वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् यत्कु॑मा॒री म॒न्द्रय॑ते य॒द्यो॒षद्यत्प॑ति॒व्रता᳚ अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते᳚ अ॒ग्निस्तदनु॑वेधति अ॒शृता॑सश्शृ॑तास॒श्च 117 1-27-4 य॒ज्वानो॒ येऽप्य॑य॒ज्वन॑: स्व॑र्यन्तो॒ नापे᳚क्षन्ते इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः सिक॑ता इव स॒म्यन्ति॑ र॒श्मिभि॑स्समु॒दीरि॑ताः अ॒स्माल्लो॒काद॑मुष्मा॒च्च ऋ॒षिभि॑रदात्पृ॒श्निभि॑ अपे॑त॒ वीत॒ वि च॑ सर्प॒तात॑: येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् 118 1-27-5 य॒मो द॑दात्वव॒सान॑मस्मै नृ मु॑णन्तु नृ पा॒त्वर्य॑: अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः कु॒मारी॑षु क॒नीनी॑षु जा॒रिणी॑षु च॒ ये हि॒ताः रेत॑: पीता॒ आण्ड॑पीताः अङ्गा॑रेषु च॒ ये हु॒ताः उ॒भया᳚न् पुत्र॑पौत्र॒कान् यु॒वे॒ऽहं य॒मराज॑गान् श॒तमिन्नु श॒रद॑: 119 1-27-6 अदो॒ यद्ब्रह्म॑ विल॒बम् पि॒तृ॒णाञ्च॑ य॒मस्य॑ वरु॑ण॒स्याश्वि॑नोर॒ग्नेः म॒रुता᳚ञ्च वि॒हाय॑साम् का॒म॒प्र॒यव॑णं मे अस्तु ह्ये॑वास्मि॑ स॒नात॑नः इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता 120 1-27-7 विशी᳚र्ष्णीं॒ गृध्र॑शीर्ष्णीञ्च अपेतो॑ निरृ॒तिग्‍ं ह॑थः परिबाधग्ग् श्वे॑तकु॒क्षम् नि॒जङ्घग्॑‍ं शब॒लोद॑रम् स॒ तान्वा॒च्याय॑या स॒ह अग्ने॒ नाश॑य स॒न्दृश॑: ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् म॒न्युं कृ॒त्याञ्च॑ दीधिरे रथे॑न किग्‍ंशु॒काव॑ता अग्ने॒ नाश॑य स॒न्दृश॑: 121 1-28-1 प॒र्जन्या॑य॒ प्रगा॑यत दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ नो॑ य॒वस॑मिच्छतु इ॒दं वच॑: प॒र्जन्या॑य स्व॒राजे᳚ हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयस्सन्त्व॒स्मे सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः यो गर्भ॒मोष॑धीनाम् गवा᳚ङ्कृ॒णोत्यर्व॑ताम् प॒र्जन्य॑: पुरु॒षीणा᳚म् 122 1-29-1 पुन॑र्मामैत्त्विन्द्रि॒यम् पुन॒रायु॒: पुन॒र्भग॑: पुन॒र्ब्राह्म॑णमैतु मा पुन॒र्द्रवि॑णमैतु मा यन्मे॒ऽद्य रेत॑: पृथि॒वीमस्कान्॑ यदोष॑धीर॒प्यस॑र॒द्यदाप॑: इ॒दन्तत्पुन॒राद॑दे दी॒र्घा॒यु॒त्त्वाय॒ वर्च॑से यन्मे॒ रेत॒: प्रसि॑च्यते यन्म॒ आजा॑यते॒ पुन॑: तेन॑ माम॒मृत॑ङ्कुरु तेन॑ सुप्र॒जस॑ङ्कुरु 123 1-30-1 अ॒द्भ्यस्तिरो॒धाऽजा॑यत तव॑ वैश्रव॒णस्स॑दा तिरो॑धेहि सप॒त्नान्न॑: ये अपो॒ऽश्नन्ति॑ केच॒न त्वा॒ष्ट्रीं मा॒यां वै᳚श्रव॒णः रथग्॑‍ं सहस्र॒वन्धु॑रम् पु॒रु॒श्च॒क्रग्‍ं सह॑स्राश्वम् आस्था॒याया॑हि नो ब॒लिम् यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वान्॑ 124 1-31-1 असा॑म सुम॒तौ य॒ज्ञिय॑स्य श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज᳚म् सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ मै॒ना॒गे च॑ म॒हागि॑रौ स॒तद्वा॒ट्‍टार॑गम॒न्ता स॒ग्॒‍ंहार्य॒न्नग॑रं॒ तव॑ इति मन्त्रा᳚: कल्पो॑ऽत ऊ॒र्ध्वम् यदि॒ बलि॒ग्॒‍ं हरे᳚त् हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः 125 1-31-2 सर्वभूतधिपतये न॑म इ॒ति अथ बलिग्‍ं हृत्वोप॑तिष्ठे॒त क्ष॒त्त्रं क्ष॒त्त्रं वै᳚श्रव॒णः ब्राह्मणा॑ वय॒ग्ग्॒‍स्मः नम॑स्ते अस्तु॒ मा मा॑ हिग्‍ंसीः अस्मात्प्रविश्यान्न॑मद्धी॒ति अथ तमग्निमा॑दधी॒त यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ति॒रोधा॒ भूः ति॒रोधा॒ भुव॑: 126 1-31-3 ति॒रोधा॒स्स्व॑: ति॒रोधा॒ भूर्भुव॒स्स्व॑: सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति अथ तमग्नि॑मिन्धी॒त यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ति॒रोधा॒ भूस्स्वाहा᳚ ति॒रोधा॒ भुव॒स्स्वाहा᳚ ति॒रोधा॒ स्व॑स्स्वाहा᳚ ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः 127 1-31-4 अपि ब्राह्मण॑मुखी॒नाः तस्मिन्नह्नः काले प्र॑युञ्जी॒त पर॑स्सु॒प्तज॑नाद्वे॒पि मास्म प्रमाद्यन्त॑माध्या॒पयेत् सर्वार्था᳚: सिद्ध्य॒न्ते ए॑वं वे॒द क्षुध्यन्निद॑मजा॒नताम् सर्वार्था न॑ सिद्ध्य॒न्ते यस्ते॑ वि॒घातु॑को भ्रा॒ता ममान्तर्हृ॑दये॒ श्रितः 128 1-31-5 तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि मे᳚ऽर्था॒न्मा विव॑धीत् मयि॒ स्वाहा᳚ रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु कु॒बे॒राय॑ वैश्रव॒णाय॑ म॒हा॒रा॒जाय॒ नम॑: के॒तवो॒ अरु॑णासश्च ऋ॒ष॒यो वात॑रश॒नाः प्र॒ति॒ष्ठाग्‍ं श॒तधा॑ हि स॒माहि॑तासो सहस्र॒धाय॑सम् शि॒वा न॒श्शन्त॑मा भवन्तु दि॒व्या आप॒ ओष॑धयः सु॒मृ॒डी॒का सर॑स्वति मा ते॒ व्यो॑म स॒न्दृशि॑ 129 1-31-6 संवत्सरमेत॑द्व्रत॒ञ्चरेत् द्वौ॑ वा मा॒सौ नियमस्स॑मासे॒न तस्मिन्नियम॑विशे॒षाः त्रिषवणमुदको॑पस्प॒र्शी चतुर्थकालपान॑भक्त॒स्स्यात् अहरहर्वा भैक्ष॑मश्नी॒यात् औदुम्बरीभिः समिद्भिरग्निं॑ परि॒चरेत् पुनर्मा मैत्त्विन्द्रियमित्येतेनाऽनु॑वाके॒न उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त 130 1-32-1 अ॑सञ्च॒यवान् अग्नये वायवे॑ सूर्या॒य ब्रह्मणे प्र॑जाप॒तये चन्द्रमसे न॑क्षत्रे॒भ्यः ऋतुभ्यस्संव॑थ्सरा॒य वरुणायारुणायेति व्र॑तहो॒माः प्र॒व॒र्ग्यव॑दादे॒शः अरुणाः का᳚ण्डऋ॒षयः अरण्ये॑ऽधीयी॒रन् भद्रं कर्णेभिरिति द्वे॑ जपि॒त्वा 131 1-32-2 महानाम्नीभिरुदकग्‍ं स॑ग्ग्‍स्प॒र्श्य तमाचा᳚र्यो द॒द्यात् शिवा नश्शन्तमेत्योशधी॑राल॒भते सुमृडीके॑ति भू॒मिम् एवम॑पव॒र्गे धे॑नुर्द॒क्षिणा कग्‍ंसं वास॑श्च क्षौ॒मम् अन्य॑द्वाशु॒क्लम् य॑थाश॒क्ति वा एवग्ग्‍ स्वाध्याय॑धर्मे॒ण अरण्ये॑ऽधीयी॒त तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति 132 1-32-3 भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: व्यशे॑म दे॒वहि॑तं॒ यदायु॑: स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ओं शान्ति॒: शान्ति॒: शान्ति॑: