हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गणपत्यथर्वशीर्षोपनिषत्
ओं
भ॒द्रं
कर्णे॑भिः
शृणु॒याम॑
देवाः
।
भ॒द्रं
प॑श्येमा॒क्षभि॒र्यज॑त्राः
।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं
स॑स्त॒नूभि॑:
।
व्यशे॑म
दे॒वहि॑तं॒
यदायु॑:
।
स्व॒स्ति
न॒
इन्द्रो॑
वृ॒द्धश्र॑वाः
।
स्व॒स्ति
न॑:
पू॒षा
वि॒श्ववे॑दाः
।
स्व॒स्ति
न॒स्तार्क्ष्यो॒
अरि॑ष्टनेमिः
।
स्व॒स्ति
नो॒
बृह॒स्पति॑र्दधातु
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
ओं
नम॑स्ते
ग॒णप॑तये
।
त्वमे॒व
प्र॒त्यक्षं॒
तत्त्व॑मसि
।
त्वमे॒व
के॒वलं॒
कर्ता॑ऽसि
।
त्वमे॒व
के॒वलं॒
धर्ता॑ऽसि
।
त्वमे॒व
के॒वलं॒
हर्ता॑ऽसि
।
त्वमेव
सर्वं
खल्विदं॑
ब्रह्मा॒सि
।
त्वं
साक्षादात्मा॑ऽसि
नि॒त्यम्
॥
1
॥
ऋ॑तं
व॒च्मि
।
स॑त्यं
व॒च्मि
॥
2
॥
अव॑
त्वं॒
माम्
।
अव॑
व॒क्तारम्᳚
।
अव॑
श्रो॒तारम्᳚
।
अव॑
दा॒तारम्᳚
।
अव॑
धा॒तारम्᳚
।
अवानूचानम॑व
शि॒ष्यम्
।
अव॑
प॒श्चात्ता᳚त्
।
अव॑
पु॒रस्ता᳚त्
।
अवोत्त॒रात्ता᳚त्
।
अव॑
दक्षि॒णात्ता᳚त्
।
अव॑
चो॒र्ध्वात्ता᳚त्
।
अवाध॒रात्ता᳚त्
।
सर्वतो
मां
पाहि
पाहि॑
सम॒न्तात्
॥
3
॥
त्वं
वाङ्मय॑स्त्वं
चिन्म॒यः
।
त्वमानन्दमय॑स्त्वं
ब्रह्म॒मयः
।
त्वं
सच्चिदानन्दाद्वि॑तीयो॒ऽसि
।
त्वं
प्र॒त्यक्षं॒
ब्रह्मा॑सि
।
त्वं
ज्ञानमयो
विज्ञान॑मयो॒ऽसि
॥
4
॥
सर्वं
जगदिदं
त्व॑त्तो
जा॒यते
।
सर्वं
जगदिदं
त्व॑त्तस्ति॒ष्ठति
।
सर्वं
जगदिदं
त्वयि
लय॑मेष्य॒ति
।
सर्वं
जगदिदं
त्वयि॑
प्रत्ये॒ति
।
त्वं
भूमिरापोऽनलोऽनि॑लो
न॒भः
।
त्वं
चत्वारि
वा᳚क्पदा॒नि
॥
5
॥
त्वं
गु॒णत्र॑याती॒तः
।
त्वमवस्थात्र॑याती॒तः
।
त्वं
दे॒हत्र॑याती॒तः
।
त्वं
का॒लत्र॑याती॒तः
।
त्वं
मूलाधारस्थितो॑ऽसि
नि॒त्यम्
।
त्वं
शक्तित्र॑यात्म॒कः
।
त्वां
योगिनो
ध्याय॑न्ति
नि॒त्यम्
।
त्वं
ब्रह्मा
त्वं
विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं
सूर्यस्त्वं
चन्द्रमास्त्वं
ब्रह्म॒
भूर्भुव॒:
स्व॒रोम्
॥
6
॥
ग॒णादिं᳚
पूर्व॑मुच्चा॒र्य॒
व॒र्णादीं᳚स्तदन॒न्त॑रम्
।
अनुस्वारः
प॑रत॒रः
।
अर्धे᳚न्दुल॒सितम्
।
तारे॑ण
ऋ॒द्धम्
।
एतत्तव
मनु॑स्वरू॒पम्
।
गकारः
पू᳚र्वरू॒पम्
।
अकारो
मध्य॑मरू॒पम्
।
अनुस्वारश्चा᳚न्त्यरू॒पम्
।
बिन्दुरुत्त॑ररू॒पम्
।
नाद॑:
सन्धा॒नम्
।
सग्ंहि॑ता
स॒न्धिः
।
सैषा
गणे॑शवि॒द्या
।
गण॑क
ऋ॒षिः
।
निचृद्गाय॑त्रीच्छ॒न्दः
।
गणपति॑र्देव॒ता
।
ओं
गं
ग॒णप॑तये
नमः
॥
7
॥
एकद॒न्ताय॑
वि॒द्महे॑
वक्रतु॒ण्डाय॑
धीमहि
।
तन्नो॑
दन्तिः
प्रचो॒दया᳚त्
॥
8
॥
एकद॒न्तं
च॑तुर्ह॒स्तं॒
पा॒शम॑ङ्कुश॒
धारि॑णम्
।
रदं॑
च॒
वर॑दं
ह॒स्तै॒र्बि॒भ्राणं॑
मूष॒कध्व॑जम्
।
रक्तं॑
लं॒बोद॑रं
शू॒र्प॒क॒र्णकं॑
रक्त॒वास॑सम्
।
रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒
र॒क्तपु॑ष्पैः
सु॒पूजि॑तम्
।
भक्ता॑नु॒कम्पि॑नं
दे॒वं॒
ज॒गत्का॑रण॒मच्यु॑तम्
।
आवि॑र्भू॒तं
च॑
सृ॒ष्ट्या॒दौ॒
प्र॒कृते᳚:
पुरु॒षात्प॑रम्
।
एवं॑
ध्या॒यति॑
यो
नि॒त्यं॒
स॒
योगी॑
योगि॒नां
व॑रः
॥
9
॥
नमो
व्रातपतये
।
नमो
गणपतये
।
नमः
प्रमथपतये
।
नमस्तेऽस्तु
लंबोदरायैकदन्ताय
विघ्ननाशिने
शिवसुताय
वरदमूर्तये॒
नम॑:
॥
10
॥
एतदथर्वशीर्षं॑
योऽधी॒ते
।
स
ब्रह्मभूया॑य
क॒ल्पते
।
स
सर्वविघ्नै᳚र्न
बा॒ध्यते
।
स
सर्वत्र
सुख॑मेध॒ते
।
स
पञ्चमहापापा᳚त्
प्रमु॒च्यते
।
सा॒यम॑धीया॒नो॒
दिवसकृतं
पापं॑
नाश॒यति
।
प्रा॒तर॑धीया॒नो॒
रात्रिकृतं
पापं॑
नाश॒यति
।
सायं
प्रातः
प्र॑युञ्जा॒नो॒
पापोऽपा॑पो
भ॒वति
।
सर्वत्राधीयानोऽपवि॑घ्नो
भ॒वति
।
धर्मार्थकाममोक्षं॑
च
वि॒न्दति
।
इदमथर्वशीर्षमशिष्याय॑
न
दे॒यम्
।
यो
यदि
मो॑हाद्दा॒स्यति
।
स
पापी॑यान्
भ॒वति
।
सहस्रावर्तनाद्यं
यं
काम॑मधी॒ते
।
तं
तमने॑न
सा॒धयेत्
॥
11
॥
अनेन
गणपतिम॑भिषि॒ञ्चति
।
स
वा॑ग्मी
भ॒वति
।
चतुर्थ्यामन॑श्नन्
ज॒पति
स
विद्या॑वान्
भ॒वति
।
इत्यथर्व॑ण
वा॒क्यम्
।
ब्रह्माद्या॒वर॑णं
वि॒द्यान्न
बिभेति
कदा॑चने॒ति
॥
12
॥
यो
दूर्वाङ्कु॑रैर्य॒जति
स
वैश्रवणोप॑मो
भ॒वति
।
यो
ला॑जैर्य॒जति
स
यशो॑वान्
भ॒वति
।
स
मेधा॑वान्
भ॒वति
।
यो
मोदकसहस्रे॑ण
य॒जति
स
वाञ्छित
फलम॑वाप्नो॒ति
।
यः
साज्य
समि॑द्भिर्य॒जति
स
सर्वं
लभते
स
स॑र्वं
ल॒भते
॥
13
॥
अष्टौ
ब्राह्मणान्
सम्यग्
ग्रा॑हयि॒त्वा
सूर्यवर्च॑स्वी
भ॒वति
।
सूर्यग्रहे
म॑हान॒द्यां
प्रतिमा
सन्निधौ
वा
ज॒प्त्वा
सिद्धम॑न्त्रो
भ॒वति
।
महाविघ्ना᳚त्
प्रमु॒च्यते
।
महादोषा᳚त्
प्रमु॒च्यते
।
महाप्रत्यवाया᳚त्
प्रमु॒च्यते
।
स
सर्वविद्भवति
स
सर्व॑विद्भ॒वति
।
य
ए॑वं
वे॒द
।
इत्यु॑प॒निष॑त्
॥
14
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥
ओं
भ॒द्रं
कर्णे॑भिः
शृणु॒याम॑
देवाः
।
भ॒द्रं
प॑श्येमा॒क्षभि॒र्यज॑त्राः
।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं
स॑स्त॒नूभि॑:
।
व्यशे॑म
दे॒वहि॑तं॒
यदायु॑:
।
स्व॒स्ति
न॒
इन्द्रो॑
वृ॒द्धश्र॑वाः
।
स्व॒स्ति
न॑:
पू॒षा
वि॒श्ववे॑दाः
।
स्व॒स्ति
न॒स्तार्क्ष्यो॒
अरि॑ष्टनेमिः
।
स्व॒स्ति
नो॒
बृह॒स्पति॑र्दधातु
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥