हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रिपुरोपनिषत्
ओं
वाङ्मे
मनसि
प्रतिष्ठिता
।
मनो
मे
वाचि
प्रतिष्ठितम्
।
आविरावीर्म
एधि
।
वेदस्य
म
आणीस्थः
।
श्रुतं
मे
मा
प्रहासिः
।
अनेनाधीतेनाहोरात्रान्
संदधामि
।
ऋतं
वदिष्यामि
।
सत्यं
वदिष्यामि
।
तन्मामवतु
।
तद्वक्तारमवतु
।
अवतु
माम्
।
अवतु
वक्तारम्
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥
तिस्रः
पुरास्त्रिपथा
विश्वचर्षणा
अत्राकथा
अक्षराः
सन्निविष्टाः
।
अधिष्ठायैनामजरा
पुराणी
महत्तरा
महिमा
देवतानाम्
॥
1
॥
नवयोनीर्नवचक्राणि
दीधिरे
नवैवयोगा
नवयोगिन्यश्च
।
नवानां
चक्रे
अधिनाथाः
स्योना
नव
मुद्रा
नव
भद्रा
महीनाम्
॥
2
॥
एका
सा
आसीत्
प्रथमा
सा
नवासीदासोन
विंशदासोनत्रिंशत्
।
चत्वारिंशदथ
तिस्रः
समिधा
उशतीरिव
मातरो
मा
विशन्तु
॥
3
॥
ऊर्ध्वज्वलज्ज्वलनं
ज्योतिरग्रे
तमो
वै
तिरश्चीनमजरं
तद्रजोऽभूत्
।
आनन्दनं
मोदनं
ज्योतिरिन्द्रो
रेता
उ
वै
मण्डला
मण्डयन्ति
॥
4
॥
तिस्रश्च
रेखाः
सदनानि
भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः
।
एतत्पुरं
पूरकं
पूरकाणामत्र
प्रथते
मदनो
मदन्या
॥
5
॥
मदन्तिका
मानिनी
मंगला
च
सुभगा
च
सा
सुन्दरी
सिद्धिमत्ता
।
लज्जा
मतिस्तुष्टिरिष्टा
च
पुष्टा
लक्ष्मीरुमा
ललिता
लालपन्ती
॥
6
॥
इमां
विज्ञाय
सुधया
मदन्ति
परिस्रुता
तर्पयन्तः
स्वपीठम्
।
नाकस्य
पृष्ठे
महतो
वसन्ति
परं
धाम
त्रैपुरं
चाविशन्ति
॥
7
॥
कामो
योनिः
कमला
वज्रपाणिर्गुहा
हसा
मातरिश्वाभ्रमिन्द्रः
।
पुनर्गुहा
सकला
मायया
च
पुरुच्येषा
विश्वमातादिविद्या
॥
8
॥
षष्ठं
सप्तममथ
वह्निसारथिमस्या
मूलत्रिक्रमादेशयन्तः
।
कथ्यं
कविं
कल्पकं
काममीशं
तुष्टुवांसो
अमृतत्वं
भजन्ते
॥
9
॥
त्रिविष्टपं
त्रिमुखं
विश्वमातुर्नवरेखाः
स्वरमध्यं
तदीले
।
बृहत्तिथीर्दशपञ्चादिनित्या
सा
षोडशी
पुरमध्यं
बिभर्ति
॥
10
॥
द्वा
मण्डलाद्वा
स्तना
बिंबमेकं
मुखं
चाधस्त्रीणि
गुहा
सदनानि
।
कामीं
कलां
काम्यरूपां
विदित्वा
नरो
जायते
कामरूपश्च
काम्यः
॥
11
॥
परिस्रुतं
झषमाद्यं
पलं
च
भक्तानि
योनीः
सुपरिष्कृतानि
।
निवेदयन्
देवतायै
महत्यै
स्वात्मीकृत्य
सुकृती
सिद्धिमेति
॥
12
॥
सृण्येव
सितया
विश्वचर्षणिः
पाशेन
प्रतिबध्नात्यभीकान्
।
इषुभिः
पञ्चभिर्धनुषा
विध्यत्यादिशक्तिररुणा
विश्वजन्या
॥
13
॥
भगः
शक्तिर्भगवान्काम
ईश
उभा
दाताराविह
सौभगानाम्
।
समप्रधानौ
समसत्त्वौ
समोजौ
तयोः
शक्तिरजरा
विश्वयोनिः
॥
14
॥
परिस्रुता
हविषा
पावितेन
प्रंसकोचे
गलिते
वैमनस्कः
।
शर्वः
सर्वस्य
जगतो
विधाता
धर्ता
हर्ता
विश्वरूपत्वमेति
॥
15
॥
इयं
महोपनिषत्
त्रिपुराया
यामक्षरं
परमे
गीर्भिरीट्टे
।
एषर्ग्यजुः
परमेतच्च
सामेवायमथर्वेयमन्या
च
विद्याम्
॥
16
॥
ओं
ह्रीं
ओं
ह्रीं
इत्युपनिषत्
॥
ओं
वाङ्मे
मनसि
प्रतिष्ठिता
।
मनो
मे
वाचि
प्रतिष्ठितम्
।
आविरावीर्म
एधि
।
वेदस्य
म
आणीस्थः
।
श्रुतं
मे
मा
प्रहासिः
।
अनेनाधीतेनाहोरात्रान्
संदधामि
।
ऋतं
वदिष्यामि
।
सत्यं
वदिष्यामि
।
तन्मामवतु
।
तद्वक्तारमवतु
।
अवतु
माम्
।
अवतु
वक्तारम्
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥
इति
त्रिपुरोपनिषत्
।