हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री ललितोपनिषत्
श्रीललितात्रिपुरसुन्दर्यै
नमः
।
ओं
परमकारणभूता
शक्तिः
केन
नवचक्ररूपो
देहः
।
नवचक्रशक्तिमयं
श्रीचक्रम्
वाराहीपितृरूपा
कुरुकुल्ला
बलिदेवता
माता
। ।
पुरुषार्थाः
सागराः
।
देहो
नवरत्ने
द्वीपः
।
आधारनवकमुद्राः
शक्तयः
।
त्वगादिसप्तधातुभिरनेकैः
सम्युक्ताः
सङ्कल्पाः
कल्पतरवः
।
तेजः
कल्पकोद्यानम्
॥
रसनया
भासमाना
मधुराम्लतिक्तकटुकषायलवणरसाः
षड्रसाः
।
क्रियाशक्तिः
पीठं
कुण्डलिनी
ज्ञानशक्तिरहमिच्छाशक्तिः
।
महात्रिपुरसुन्दरी
ज्ञाता
होता
।
ज्ञानमर्ध्यं
ज्ञेयं
हविः
ज्ञातृज्ञानज्ञेयानां
नमोभेदभावनं
श्रीचक्रपूजनम्
॥
नियतिसहितशृङ्गारादयो
नवरसाः
।
अणिमादयः
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया
ब्राह्म्यादयोऽष्टशक्तयः
।
आधारनवकमुद्रा
शक्तयः
।
पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा-प्राणवाक्पाणिपादपायूपस्थमनोविकाराः
षोडशशक्तयः
।
वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा-बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ
।
अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी-
गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना
चेति
चतुर्दशनाडयः
सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः
॥
प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया
दशवायवः
सर्वसिद्धिप्रदादि
बहिर्दशारदेवताः
।
एतद्वायुदशकसंसर्गोपाधिभेदेन
रेचकपूरकपोषकदाहकाल्पावकामृतमिति
प्राणः
सङ्ख्यत्वेन
पञ्चविधोऽस्ति
।
जठराग्निर्मनुष्याणां
मोहको
भक्ष्यभोज्यलेह्यचोष्यात्मकं
चतुर्विधमन्नं
पाचयति
।
तदा
काशवान्सकलाः
सर्वज्ञत्वाद्यन्तर्दशारदेवताः
॥
शीतोष्णसुखदुःखेच्छासत्वरजस्तमोगुणादय
वशिन्यादिशक्तयोऽष्टौ
।
शब्दस्पर्शरूपरसगन्धाः
पञ्चतन्मात्राः
पञ्चपुष्पबाणा
मन
इक्षुधनुर्वल्यो
बाणो
रागः
पाशो
द्वेषोऽङ्कुशः
।
अव्यक्तमहत्तत्त्वाहङ्कारकामेश्वरीवज्रेश्वरी-भगमालिन्योऽन्तस्त्रिकोणाग्रदेवताः
॥
पञ्चदशतिथिरूपेण
कालस्य
परिणामावलोकनपञ्चदशनित्याः
शुद्धानुरुपाधिदेवताः
।
निरुपाधिसार्वदेवकामेश्वरी
सदाऽऽनन्दपूर्णा
।
स्वात्म्यैक्यरूपललिताकामेश्वरी
सदाऽऽनन्दघनपूर्णा
स्वात्मैक्यरूपा
देवता
ललितामिति
॥
साहित्यकरणं
सत्त्वम्
।
कर्त्तव्यमकर्त्तव्यमिति
भावनामुक्ता
उपचाराः
।
अहं
त्वमस्ति
नास्ति
कर्त्तव्याकर्त्तव्यमुपासितव्यानुपासितव्यमिति
विकल्पना
।
मनोविलापनं
होमः
॥
बाह्याभ्यन्तरकरणानां
रूपग्रहणयोग्यतास्तीत्यावाहनम्
।
तस्य
बाह्याभ्यन्तरकरणानामेकरूपविषयग्रहणमासनम्
।
रक्तशुक्लपदैकीकरणं
पाद्यम्
।
उज्ज्वलदामोदाऽऽनन्दात्सानन्दनमर्घ्यम्
।
स्वच्छास्वतः
शक्तिरित्याचमनम्
।
चिच्चन्द्रमयीस्मरणं
स्नानम्
।
चिदग्निस्वरूपपरमानन्दशक्तिस्मरणं
वस्त्रम्
।
प्रत्येकं
सप्तविंशतिधाभिन्नत्वेन
इच्छाक्रियात्मकब्रह्मग्रन्थिमयी
सतन्तुब्रह्मनाडी
ब्रह्मसूत्रं
सव्यातिरिक्तवस्त्रम्
।
सङ्गरहितं
स्मरणं
विभूषणम्
।
स्वच्छन्दपरिपूर्णस्मरणं
गन्धः
।
समस्तविषयाणां
मनःस्थैर्येणानुसन्धानं
कुसुमम्
।
तेषामेव
सर्वदा
स्वीकरणं
धूपः
।
पवनाच्छिन्नोर्ध्वज्वालासच्चिदाह्लादाकाशदेहो
दीपः
।
समस्तयातायातवर्जनं
नैवेद्यम्
।
अवस्थात्रयैकीकरणं
ताम्बूलम्
।
मूलाधारादाब्रह्मरन्ध्रपर्यन्तं
ब्रह्मरन्ध्रादामूलाधारपर्यन्तं
गतागतरूपेण
प्रादक्षिण्यम्
।
तुरीयावस्थानं
संस्कारदेहशून्यं
प्रमादितावतिमज्जनं
बलिहरणम्
।
सत्त्वमस्ति
कर्त्तव्यमकर्त्तव्यमौदासीन्यमात्मविलापनं
होमः
।
भावनाविषयाणामभेदभावना
तर्पणम्
।
स्वयं
तत्पादुकानिमज्जनं
परिपूर्णध्यानम्
॥
एवं
मूर्तित्रयं
भावनया
युक्तो
मुक्तो
भवति
।
तस्य
देवतात्मैक्यसिद्धिश्चितिकार्याण्यप्रयत्नेन
सिध्यन्ति
स
एव
शिवयोगीति
कथ्यते
॥
इति
श्रीललितोपनिषत्सम्पूर्णा
।