हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दुर्गा सूक्तम्
ओं
जा॒तवे॑दसे
सुनवाम॒
सोम॑
मरातीय॒तो
निद॑हाति॒
वेद॑:
।
स
न॑:
पर्ष॒दति॑
दु॒र्गाणि॒
विश्वा॑
ना॒वेव॒
सिन्धुं॑
दुरि॒ताऽत्य॒ग्निः
॥
1
ताम॒ग्निव॑र्णां॒
तप॑सा
ज्वल॒न्तीं
वै॑रोच॒नीं
क॑र्मफ॒लेषु॒
जुष्टा᳚म्
।
दु॒र्गां
दे॒वीग्ं
शर॑णम॒हं
प्रप॑द्ये
सु॒तर॑सि
तरसे॒
नम॑:
॥
2
अग्ने॒
त्वं॑
पा॑रया॒
नव्यो॑
अ॒स्मान्
स्व॒स्तिभि॒रति॑
दु॒र्गाणि॒
विश्वा᳚
।
पूश्च॑
पृ॒थ्वी
ब॑हु॒ला
न॑
उ॒र्वी
भवा॑
तो॒काय॒
तन॑याय॒
शम्योः
॥
3
विश्वा॑नि
नो
दु॒र्गहा॑
जातवेद॒:
सिन्धुं॒
न
ना॒वा
दुरि॒ताऽति॑पर्षि
।
अग्ने॑
अत्रि॒वन्मन॑सा
गृणा॒नो᳚ऽस्माकं॑
बोध्यवि॒ता
त॒नूना᳚म्
॥
4
पृ॒त॒ना॒जित॒ग्ं
सह॑मानमु॒ग्रम॒ग्निग्ं
हु॑वेम
पर॒माथ्स॒धस्था᳚त्
।
स
न॑:
पर्ष॒दति॑
दु॒र्गाणि॒
विश्वा॒
क्षाम॑द्देवो॒
अति॑
दुरि॒ताऽत्य॒ग्निः
॥
5
प्र॒त्नोषि॑
क॒मीड्यो॑
अध्व॒रेषु॑
सनाच्च॒
होता॒
नव्य॑श्च॒
सत्सि॑
।
स्वां
चा᳚ऽग्ने
त॒नुवं॑
पि॒प्रय॑स्वा॒स्मभ्यं॑
च॒
सौभ॑ग॒माय॑जस्व
॥
6
गोभि॒र्जुष्ट॑म॒युजो॒
निषि॑क्तं॒
तवे᳚न्द्र
विष्णो॒रनु॒सञ्च॑रेम
।
नाक॑स्य
पृ॒ष्ठमभि
सं॒वसा॑नो॒
वैष्ण॑वीं
लो॒क
इ॒ह
मा॑दयन्ताम्
॥
7
ओं
का॒त्या॒य॒नाय॑
वि॒द्महे॑
कन्यकु॒मारि॑
धीमहि
।
तन्नो॑
दुर्गिः
प्रचो॒दया᳚त्
॥
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
॥