हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
देवी माहात्म्यं देवी सूक्तम्
ओं
अ॒हं
रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त
वि॒श्वदे᳚वैः
।
अ॒ह-म्मि॒त्रावरु॑णो॒भा
बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी
अ॒हम॒श्विनो॒भा
॥
1
॥
अ॒हं
सोम॑माह॒नस᳚-म्बिभर्म्य॒ह-न्त्वष्टा᳚रमु॒त
पू॒षण॒-म्भगम्᳚
।
अ॒ह-न्द॑धामि॒
द्रवि॑णं
ह॒विष्म॑ते
सुप्रा॒व्ये॒
ये॑
3
यज॑मानाय
सुन्व॒ते
॥
2
॥
अ॒हं
राष्ट्री᳚
स॒ङ्गम॑नी॒
वसू᳚ना-ञ्चिकि॒तुषी᳚
प्रथ॒मा
य॒ज्ञिया᳚नाम्
।
ता-म्मा᳚
दे॒वा
व्य॑दधुः
पुरु॒त्रा
भूरि॑स्थात्रा॒-म्भू~र्या᳚वे॒शयन्ती᳚म्
॥
3
॥
मया॒
सो
अन्न॑मत्ति
यो
वि॒पश्य॑ति॒
यः
प्राणि॑ति॒
य
ईं᳚
शृ॒णोत्यु॒क्तम्
।
अ॒म॒न्त॒वो॒मान्त
उप॑क्षियन्ति॒
श्रु॒धि
श्रु॑तं
श्रद्धि॒व-न्ते᳚
वदामि
॥
4
॥
अ॒हमे॒व
स्व॒यमि॒दं-वँदा॑मि॒
जुष्ट᳚-न्दे॒वेभि॑रु॒त
मानु॑षेभिः
।
य-ङ्का॒मये॒
त-न्त॑मु॒ग्र-ङ्कृ॑णोमि॒
त-म्ब्र॒ह्माण॒-न्तमृषि॒-न्तं
सु॑मे॒धाम्
॥
5
॥
अ॒हं
रु॒द्राय॒
धनु॒रात॑नोमि
ब्रह्म॒द्विषे॒
शर॑वे
हन्त॒
वा
उ॑
।
अ॒ह-ञ्जना᳚य
स॒मद᳚-ङ्कृणोम्य॒ह-न्द्यावा᳚पृथि॒वी
आवि॑वेश
॥
6
॥
अ॒हं
सु॑वे
पि॒तर॑मस्य
मू॒र्ध-न्मम॒
योनि॑र॒प्स्व॒न्त-स्स॑मु॒द्रे
।
ततो॒
विति॑ष्ठे॒
भुव॒नानु॒
विश्वो॒तामू-न्द्यां-वँ॒र्ष्मणोप॑
स्पृशामि
॥
7
॥
अ॒हमे॒व
वात॑
इव॒
प्रवा᳚म्या॒-रभ॑माणा॒
भुव॑नानि॒
विश्वा᳚
।
प॒रो
दि॒वापर॒
ए॒ना
पृ॑थि॒व्यै-ताव॑ती
महि॒ना
सम्ब॑भूव
॥
8
॥
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
॥ ॥
इति
ऋग्वेदोक्त-न्देवीसूक्तं
समाप्तम्
॥ ॥
त-थ्सत्
॥