Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

देव्यथर्वशीर्षम्

ओं सर्वे वै देवा देवीमुपतस्थुः कासि त्व-म्महादेवीति 1 सा-ऽब्रवीदह-म्ब्रह्मस्वरूपिणी मत्तः प्रकृतिपुरुषात्मक-ञ्जगत् शून्य-ञ्चाशून्य-ञ्च 2 अहमानन्दानानन्दौ अहं-विँज्ञानाविज्ञाने अह-म्ब्रह्माब्रह्मणि वेदितव्ये अह-म्पञ्चभूतान्यपञ्चभूतानि अहमखिल-ञ्जगत् 3 वेदो-ऽहमवेदो-ऽहम् विद्या-ऽहमविद्या-ऽहम् अजा-ऽहमनजा-ऽहम् अधश्चोर्ध्व-ञ्च तिर्यक्चाहम् 4 अहं रुद्रेभिर्वसुभिश्चरामि अहमादित्यैरुत विश्वदेवैः अह-म्मित्रावरुणावुभौ बिभर्मि अहमिन्द्राग्नी अहमश्विनावुभौ 5 अहं सोम-न्त्वष्टार-म्पूषण-म्भग-न्दधामि अहं-विँष्णुमुरुक्रम-म्ब्रह्माणमुत प्रजापति-न्दधामि 6 अ॒ह-न्द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒3 यज॑मानाय सुन्व॒ते अ॒हं राष्ट्री॑ स॒ङ्गम॑नी॒ वसू॑ना-ञ्चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्त-स्स॑मु॒द्रे एवं-वेँद देवीं सम्पदमाप्नोति 7 ते देवा अब्रुवन् नमो देव्यै महादेव्यै शिवायै सतत-न्नमः नमः प्रकृत्यै भद्रायै नियताः प्रणता-स्स्म ताम् 8 ताम॒ग्निव॑र्णा॒-न्तप॑सा ज्वल॒न्तीं-वैँ॑रोच॒नी-ङ्क॑र्मफ॒लेषु॒ जुष्टा᳚म् दु॒र्गा-न्दे॒वीं शर॑ण-म्प्रप॑द्यामहे-ऽसुरान्नाशयित्र्यै ते नमः 9 (ऋ.वे.8.100.11) दे॒वीं-वाँच॑मजनयन्त दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदन्ति सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ 10 कालरात्री-म्ब्रह्मस्तुतां-वैँष्णवीं स्कन्दमातरम् सरस्वतीमदिति-न्दक्षदुहितर-न्नमामः पावनां शिवाम् 11 महालक्ष्म्यै विद्महे सर्वशक्त्यै धीमहि तन्नो देवी प्रचोदयात् 12 अदितिर्​ह्यजनिष्ट दक्ष या दुहिता तव ता-न्देवा अन्वजायन्त भद्रा अमृतबन्धवः 13 कामो योनिः कमला वज्रपाणि- र्गुहा हसा मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया पुरूच्यैषा विश्वमातादिविद्योम् 14 एषा-ऽऽत्मशक्तिः एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा एषा श्रीमहाविद्या एवं-वेँद शोक-न्तरति 15 नमस्ते अस्तु भगवति मातरस्मान्पाहि सर्वतः 16 सैषाष्टौ वसवः सैषैकादश रुद्राः सैषा द्वादशादित्याः सैषा विश्वेदेवा-स्सोमपा असोमपाश्च सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः सैषा सत्त्वरजस्तमांसि सैषा ब्रह्मविष्णुरुद्ररूपिणी सैषा प्रजापतीन्द्रमनवः सैषा ग्रहनक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी तामह-म्प्रणौमि नित्यम् पापापहारिणी-न्देवी-म्भुक्तिमुक्तिप्रदायिनीम् अनन्तां-विँजयां शुद्धां शरण्यां शिवदां शिवाम् 17 वियदीकारसं​युँक्तं-वीँतिहोत्रसमन्वितम् अर्धेन्दुलसित-न्देव्या बीजं सर्वार्थसाधकम् 18 एवमेकाक्षर-म्ब्रह्म यतय-श्शुद्धचेतसः ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः 19 वाङ्माया ब्रह्मसूस्तस्मा-थ्षष्ठं-वँक्त्रसमन्वितम् सूर्यो-ऽवामश्रोत्रबिन्दुसं​युँक्तष्टात्तृतीयकः नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः विच्चे नवार्णको-ऽर्ण-स्स्यान्महदानन्ददायकः 20 हृत्पुण्डरीकमध्यस्था-म्प्रातस्सूर्यसमप्रभाम् पाशाङ्कुशधरां सौम्यां-वँरदाभयहस्तकाम् त्रिनेत्रां रक्तवसना-म्भक्तकामदुघा-म्भजे 21 नमामि त्वा-म्महादेवी-म्महाभयविनाशिनीम् महादुर्गप्रशमनी-म्महाकारुण्यरूपिणीम् 22 यस्या-स्स्वरूप-म्ब्रह्मादयो जानन्ति तस्मादुच्यते अज्ञेया यस्या अन्तो लभ्यते तस्मादुच्यते अनन्ता यस्या लक्ष्य-न्नोपलक्ष्यते तस्मादुच्यते अलक्ष्या यस्या जनन-न्नोपलभ्यते तस्मादुच्यते अजा एकैव सर्वत्र वर्तते तस्मादुच्यते एका एकैव विश्वरूपिणी तस्मादुच्यते नैका अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति 23 मन्त्राणा-म्मातृका देवी शब्दाना-ञ्ज्ञानरूपिणी ज्ञानाना-ञ्चिन्मयातीता शून्यानां शून्यसाक्षिणी यस्याः परतर-न्नास्ति सैषा दुर्गा प्रकीर्तिता 24 ता-न्दुर्गा-न्दुर्गमा-न्देवी-न्दुराचारविघातिनीम् नमामि भवभीतो-ऽहं संसारार्णवतारिणीम् 25 इदमथर्वशीर्​षं-योँ-ऽधीते पञ्चाथर्वशीर्​षजपफलमाप्नोति इदमथर्वशीर्​षमज्ञात्वा यो-ऽर्चां स्थापयति शतलक्ष-म्प्रजप्त्वा-ऽपि सो-ऽर्चासिद्धि-न्न विन्दति शतमष्टोत्तर-ञ्चास्य पुरश्चर्याविधि-स्स्मृतः दशवार-म्पठेद्यस्तु सद्यः पापैः प्रमुच्यते महादुर्गाणि तरति महादेव्याः प्रसादतः 26 सायमधीयानो दिवसकृत-म्पाप-न्नाशयति प्रातरधीयानो रात्रिकृत-म्पाप-न्नाशयति साय-म्प्रातः प्रयुञ्जानो अपापो भवति निशीथे तुरीयसन्ध्याया-ञ्जप्त्वा वाक्सिद्धिर्भवति नूतनाया-म्प्रतिमाया-ञ्जप्त्वा देवतासान्निध्य-म्भवति प्राणप्रतिष्ठाया-ञ्जप्त्वा प्राणाना-म्प्रतिष्ठा भवति भौमाश्विन्या-म्महादेवीसन्निधौ जप्त्वा महामृत्यु-न्तरति महामृत्यु-न्तरति एवं-वेँद इत्युपनिषत् 27 इति देव्यथर्वशीर्​षम्