हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
विष्णु अष्टोत्तर शतनाम स्तोत्रम्
अष्टोत्तरशतं
नाम्नां
विष्णोरतुलतेजसः
।
यस्य
श्रवणमात्रेण
नरो
नारायणो
भवेत्
॥
1
॥
विष्णुर्जिष्णुर्वषट्कारो
देवदेवो
वृषाकपिः
।
दामोदरो
दीनबंधुरादिदेवोऽदितेस्तुतः
॥
2
॥
पुंडरीकः
परानंदः
परमात्मा
परात्परः
।
परशुधारी
विश्वात्मा
कृष्णः
कलिमलापहा
॥
3
॥
कौस्तुभोद्भासितोरस्को
नरो
नारायणो
हरिः
।
हरो
हरप्रियः
स्वामी
वैकुंठो
विश्वतोमुखः
॥
4
॥
हृषीकेशोऽप्रमेयात्मा
वराहो
धरणीधरः
।
वामनो
वेदवक्ता
च
वासुदेवः
सनातनः
॥
5
॥
रामो
विरामो
विरजो
रावणारी
रमापतिः
।
वैकुंठवासी
वसुमान्
धनदो
धरणीधरः
॥
6
॥
धर्मेशो
धरणीनाथो
ध्येयो
धर्मभृतांवरः
।
सहस्रशीर्षा
पुरुषः
सहस्राक्षः
सहस्रपात्
॥
7
॥
सर्वगः
सर्ववित्सर्वः
शरण्यः
साधुवल्लभः
।
कौसल्यानंदनः
श्रीमान्
राक्षसःकुलनाशकः
॥
8
॥
जगत्कर्ता
जगद्धर्ता
जगज्जेता
जनार्तिहा
।
जानकीवल्लभो
देवो
जयरूपो
जलेश्वरः
॥
9
॥
क्षीराब्धिवासी
क्षीराब्धितनयावल्लभस्तथा
।
शेषशायी
पन्नगारिवाहनो
विष्टरश्रवः
॥
10
॥
माधवो
मथुरानाथो
मुकुंदो
मोहनाशनः
।
दैत्यारिः
पुंडरीकाक्षो
ह्यच्युतो
मधुसूदनः
॥
11
॥
सोमसूर्याग्निनयनो
नृसिंहो
भक्तवत्सलः
।
नित्यो
निरामयश्शुद्धो
वरदेवो
जगत्प्रभुः
॥
12
॥
हयग्रीवो
जितरिपुरुपेंद्रो
रुक्मिणीपतिः
।
सर्वदेवमयः
श्रीशः
सर्वाधारः
सनातनः
॥
13
॥
सौम्यः
सौम्यप्रदः
स्रष्टा
विष्वक्सेनो
जनार्दनः
।
यशोदातनयो
योगी
योगशास्त्रपरायणः
॥
14
॥
रुद्रात्मको
रुद्रमूर्तिः
राघवो
मधुसूधनः
।
इति
ते
कथितं
दिव्यं
नाम्नामष्टोत्तरं
शतम्
॥
15
॥
सर्वपापहरं
पुण्यं
दिव्योरतुलतेजसः
।
दुःखदारिद्र्यदौर्भाग्यनाशनं
सुखवर्धनम्
॥
16
॥
सर्वसंपत्करं
सौम्यं
महापातकनाशनम्
।
प्रातरुत्थाय
विपेंद्र
पठेदेकाग्रमानसः
॥
17
॥
तस्य
नश्यंति
विपदां
राशयः
सिद्धिमाप्नुयात्
॥
18
॥
इति
श्री
विष्णोः
अष्टोत्तरशतनाम
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits