अर्कपत्र स्नान श्लोकाः ।
सप्तसप्तिप्रिये देवि सप्तलोकैकदीपिके ।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम् ॥ 1 ॥
यन्मयात्र कृतं पापं पूर्वं सप्तसु जन्मसु ।
तत्सर्वं शोकमोहौ च माकरी हन्तु सप्तमी ॥ 2 ॥
नमामि सप्तमीं देवीं सर्वपापप्रणाशिनीम् ।
सप्तार्कपत्रस्नानेन मम पापं व्यापोहतु ॥ 3 ॥
अर्घ्य श्लोकम् ।
सप्त सप्ति वहप्रीत सप्तलोक प्रदीपन ।
सप्तमी सहितो देव गृहाणार्घ्यं दिवाकर ॥ 1 ॥
अन्य पाठः –
यदा जन्मकृतं पापं मया जन्मसु जन्मसु ।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ॥ 1
एतज्जन्म कृतं पापं यच्च जन्मान्तरार्जितम् ।
मनो वाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥ 2
इति सप्तविधं पापं स्नानान्मे सप्त सप्तिके ।
सप्तव्याधि समायुक्तं हर माकरि सप्तमी ॥ 3
सप्त सप्त महासप्त सप्त द्वीपा वसुन्धरा ।
श्वेतार्क पर्णमादाय सप्तमी रथ सप्तमी ॥ 4