Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

आदित्य कवचम्

अस्य श्री आदित्यकवचस्तोत्रमहामन्त्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छन्दः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम् –
जपाकुसुमसङ्काशं द्विभुजं पद्महस्तकम्
सिन्दूराम्बरमाल्यं च रक्तगन्धानुलेपनम्
माणिक्यरत्नखचितसर्वाभरणभूषितम्
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥ 1 ॥
देवासुरवरैर्वन्द्यं घृणिभिः परिसेवितम् ।
ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा ॥ 2 ॥
अथ कवचं –
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥ 3 ॥
घ्राणं पातु सदा भानुः मुखं पातु सदा रविः ।
जिह्वां पातु जगन्नेत्रः कण्ठं पातु विभावसुः ॥ 4 ॥
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥ 5 ॥
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः ॥ 6 ॥
जङ्घे मे पातु मार्ताण्डो गुल्फौ पातु त्विषां पतिः ।
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥ 7 ॥
आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥ 8 ॥
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् ॥ 9 ॥
आदित्य मण्डल स्तुतिः –
अनेकरत्नसम्युक्तं स्वर्णमाणिक्यभूषणम् ।
कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् ॥ 10 ॥
सिन्दूरवर्णाय सुमण्डलाय
सुवर्णरत्नाभरणाय तुभ्यम् ।
पद्मादिनेत्रे च सुपङ्कजाय
ब्रह्मेन्द्र-नारायण-शङ्कराय ॥ 11 ॥
संरक्तचूर्णं ससुवर्णतोयं
सकुङ्कुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे
प्रशस्तनादं भगवन् प्रसीद ॥ 12 ॥
इति श्री आदित्य कवचम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits