हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सुब्रह्मण्य त्रिशती स्तोत्रम्
श्रीं
सौं
शरवणभवः
शरच्चन्द्रायुतप्रभः
।
शशाङ्कशेखरसुतः
शचीमाङ्गल्यरक्षकः
॥
1
॥
शतायुष्यप्रदाता
च
शतकोटिरविप्रभः
।
शचीवल्लभसुप्रीतः
शचीनायकपूजितः
॥
2
॥
शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः
।
शचीशार्तिहरश्चैव
शम्भुः
शम्भूपदेशकः
॥
3
॥
शङ्करः
शङ्करप्रीतः
शम्याककुसुमप्रियः
।
शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दितः
॥
4
॥
शचीनाथसुताप्राणनायकः
शक्तिपाणिमान्
।
शङ्खपाणिप्रियः
शङ्खोपमषड्गलसुप्रभः
॥
5
॥
शङ्खघोषप्रियः
शङ्खचक्रशूलादिकायुधः
।
शङ्खधाराभिषेकादिप्रियः
शङ्करवल्लभः
॥
6
॥
शब्दब्रह्ममयश्चैव
शब्दमूलान्तरात्मकः
।
शब्दप्रियः
शब्दरूपः
शब्दानन्दः
शचीस्तुतः
॥
7
॥
शतकोटिप्रविस्तारयोजनायतमन्दिरः
।
शतकोटिरविप्रख्यरत्नसिंहासनान्वितः
॥
8
॥
शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः
।
शतकोटिसुरस्त्रीणां
नृत्तसङ्गीतकौतुकः
॥
9
॥
शतकोटीन्द्रदिक्पालहस्तचामरसेवितः
।
शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकः
॥
10
॥
शङ्खपाणिविधिभ्यां
च
पार्श्वयोरुपसेवितः
।
शङ्खपद्मनिधीनां
च
कोटिभिः
परिसेवितः
॥
11
॥
शशाङ्कादित्यकोटीभिः
सव्यदक्षिणसेवितः
।
शङ्खपालाद्यष्टनागकोटीभिः
परिसेवितः
॥
12
॥
शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः
।
शशिभास्करभौमादिग्रहदोषार्तिभञ्जनः
॥
13
॥
शतपत्रद्वयकरः
शतपत्रार्चनप्रियः
।
शतपत्रसमासीनः
शतपत्रासनस्तुतः
॥
14
॥
शारीरब्रह्ममूलादिषडाधारनिवासकः
।
शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनः
॥
15
॥
शशाङ्कार्धजटाजूटः
शरणागतवत्सलः
।
रकाररूपो
रमणो
राजीवाक्षो
रहोगतः
॥
16
॥
रतीशकोटिसौन्दर्यो
रविकोट्युदयप्रभः
।
रागस्वरूपो
रागघ्नो
रक्ताब्जप्रिय
एव
च
॥
17
॥
राजराजेश्वरीपुत्रो
राजेन्द्रविभवप्रदः
।
रत्नप्रभाकिरीटाग्रो
रविचन्द्राग्निलोचनः
॥
18
॥
रत्नाङ्गदमहाबाहू
रत्नताटङ्कभूषणः
।
रत्नकेयूरभूषाढ्यो
रत्नहारविराजितः
॥
19
॥
रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः
।
रवसम्युक्तरत्नाभनूपुराङ्घ्रिसरोरुहः
॥
20
॥
रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः
।
रत्नसिंहासनासीनो
रत्नशोभितमन्दिरः
॥
21
॥
राकेन्दुमुखषट्कश्च
रमावाण्यादिपूजितः
।
राक्षसामरगन्धर्वकोटिकोट्यभिवन्दितः
॥
22
॥
रणरङ्गे
महादैत्यसङ्ग्रामजयकौतुकः
।
राक्षसानीकसंहारकोपाविष्टायुधान्वितः
॥
23
॥
राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः
।
रवयुक्तधनुर्हस्तो
रत्नकुक्कुटधारणः
॥
24
॥
रणरङ्गजयो
रामास्तोत्रश्रवणकौतुकः
।
रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दितः
॥
25
॥
रक्तपीताम्बरधरो
रक्तगन्धानुलेपनः
।
रक्तद्वादशपद्माक्षो
रक्तमाल्यविभूषितः
॥
26
॥
रविप्रियो
रावणेशस्तोत्रसाममनोहरः
।
राज्यप्रदो
रन्ध्रगुह्यो
रतिवल्लभसुप्रियः
॥
27
॥
रणानुबन्धनिर्मुक्तो
राक्षसानीकनाशकः
।
राजीवसम्भवद्वेषी
राजीवासनपूजितः
॥
28
॥
रमणीयमहाचित्रमयूरारूढसुन्दरः
।
रमानाथस्तुतो
रामो
रकाराकर्षणक्रियः
॥
29
॥
वकाररूपो
वरदो
वज्रशक्त्यभयान्वितः
।
वामदेवादिसम्पूज्यो
वज्रपाणिमनोहरः
॥
30
॥
वाणीस्तुतो
वासवेशो
वल्लीकल्याणसुन्दरः
।
वल्लीवदनपद्मार्को
वल्लीनेत्रोत्पलोडुपः
॥
31
॥
वल्लीद्विनयनानन्दो
वल्लीचित्ततटामृतम्
।
वल्लीकल्पलतावृक्षो
वल्लीप्रियमनोहरः
॥
32
॥
वल्लीकुमुदहास्येन्दुः
वल्लीभाषितसुप्रियः
।
वल्लीमनोहृत्सौन्दर्यो
वल्लीविद्युल्लताघनः
॥
33
॥
वल्लीमङ्गलवेषाढ्यो
वल्लीमुखवशङ्करः
।
वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकः
॥
34
॥
वल्लीशो
वल्लभो
वायुसारथिर्वरुणस्तुतः
।
वक्रतुण्डानुजो
वत्सो
वत्सलो
वत्सरक्षकः
॥
35
॥
वत्सप्रियो
वत्सनाथो
वत्सवीरगणावृतः
।
वारणाननदैत्यघ्नो
वातापिघ्नोपदेशकः
॥
36
॥
वर्णगात्रमयूरस्थो
वर्णरूपो
वरप्रभुः
।
वर्णस्थो
वारणारूढो
वज्रशक्त्यायुधप्रियः
॥
37
॥
वामाङ्गो
वामनयनो
वचद्भूर्वामनप्रियः
।
वरवेषधरो
वामो
वाचस्पतिसमर्चितः
॥
38
॥
वसिष्ठादिमुनिश्रेष्ठवन्दितो
वन्दनप्रियः
।
वकारनृपदेवस्त्रीचोरभूतारिमोहनः
॥
39
॥
णकाररूपो
नादान्तो
नारदादिमुनिस्तुतः
।
णकारपीठमध्यस्थो
नगभेदी
नगेश्वरः
॥
40
॥
णकारनादसन्तुष्टो
नागाशनरथस्थितः
।
णकारजपसुप्रीतो
नानावेषो
नगप्रियः
॥
41
॥
णकारबिन्दुनिलयो
नवग्रहसुरूपकः
।
णकारपठनानन्दो
नन्दिकेश्वरवन्दितः
॥
42
॥
णकारघण्टानिनदो
नारायणमनोहरः
।
णकारनादश्रवणो
नलिनोद्भवशिक्षकः
॥
43
॥
णकारपङ्कजादित्यो
नववीराधिनायकः
।
णकारपुष्पभ्रमरो
नवरत्नविभूषणः
॥
44
॥
णकारानर्घशयनो
नवशक्तिसमावृतः
।
णकारवृक्षकुसुमो
नाट्यसङ्गीतसुप्रियः
॥
45
॥
णकारबिन्दुनादज्ञो
नयज्ञो
नयनोद्भवः
।
णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणिः
॥
46
॥
णकारपेटकमणिर्नागपर्वतमन्दिरः
।
णकारकरुणानन्दो
नादात्मा
नागभूषणः
॥
47
॥
णकारकिङ्किणीभूषो
नयनादृश्यदर्शनः
।
णकारवृषभावासो
नामपारायणप्रियः
॥
48
॥
णकारकमलारूढो
नामानन्तसमन्वितः
।
णकारतुरगारूढो
नवरत्नादिदायकः
॥
49
॥
णकारमकुटज्वालामणिर्नवनिधिप्रदः
।
णकारमूलमन्त्रार्थो
नवसिद्धादिपूजितः
॥
50
॥
णकारमूलनादान्तो
णकारस्तम्भनक्रियः
।
भकाररूपो
भक्तार्थो
भवो
भर्गो
भयापहः
॥
51
॥
भक्तप्रियो
भक्तवन्द्यो
भगवान्भक्तवत्सलः
।
भक्तार्तिभञ्जनो
भद्रो
भक्तसौभाग्यदायकः
॥
52
॥
भक्तमङ्गलदाता
च
भक्तकल्याणदर्शनः
।
भक्तदर्शनसन्तुष्टो
भक्तसङ्घसुपूजितः
॥
53
॥
भक्तस्तोत्रप्रियानन्दो
भक्ताभीष्टप्रदायकः
।
भक्तसम्पूर्णफलदो
भक्तसाम्राज्यभोगदः
॥
54
॥
भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः
।
भवौषधिर्भवघ्नश्च
भवारण्यदवानलः
॥
55
॥
भवान्धकारमार्ताण्डो
भववैद्यो
भवायुधम्
।
भवशैलमहावज्रो
भवसागरनाविकः
॥
56
॥
भवमृत्युभयध्वंसी
भावनातीतविग्रहः
।
भवभूतपिशाचघ्नो
भास्वरो
भारतीप्रियः
॥
57
॥
[भय]
॥
भाषितध्वनिमूलान्तो
भावाभावविवर्जितः
।
भानुकोपपितृध्वंसी
भारतीशोपदेशकः
॥
58
॥
भार्गवीनायकश्रीमद्भागिनेयो
भवोद्भवः
।
भारक्रौञ्चासुरद्वेषो
भार्गवीनाथवल्लभः
॥
59
॥
भटवीरनमस्कृत्यो
भटवीरसमावृतः
।
भटतारागणोड्वीशो
भटवीरगणस्तुतः
॥
60
॥
भागीरथेयो
भाषार्थो
भावनाशबरीप्रियः
।
भकारे
कलिचोरारिभूताद्युच्चाटनोद्यतः
॥
61
॥
वकारसुकलासंस्थो
वरिष्ठो
वसुदायकः
।
वकारकुमुदेन्दुश्च
वकाराब्धिसुधामयः
॥
62
॥
वकारामृतमाधुर्यो
वकारामृतदायकः
।
दक्षे
वज्राभीतियुतो
वामे
शक्तिवरान्वितः
॥
63
॥
वकारोदधिपूर्णेन्दुः
वकारोदधिमौक्तिकम्
।
वकारमेघसलिलो
वासवात्मजरक्षकः
॥
64
॥
वकारफलसारज्ञो
वकारकलशामृतम्
।
वकारपङ्कजरसो
वसुर्वंशविवर्धनः
॥
65
॥
वकारदिव्यकमलभ्रमरो
वायुवन्दितः
।
वकारशशिसङ्काशो
वज्रपाणिसुताप्रियः
॥
66
॥
वकारपुष्पसद्गन्धो
वकारतटपङ्कजम्
।
वकारभ्रमरध्वानो
वयस्तेजोबलप्रदः
॥
67
॥
वकारवनितानाथो
वश्याद्यष्टप्रियाप्रदः
।
वकारफलसत्कारो
वकाराज्यहुताशनः
॥
68
॥
वर्चस्वी
वाङ्मनोऽतीतो
वाताप्यरिकृतप्रियः
।
वकारवटमूलस्थो
वकारजलधेस्तटः
॥
69
॥
वकारगङ्गावेगाब्धिः
वज्रमाणिक्यभूषणः
।
वातरोगहरो
वाणीगीतश्रवणकौतुकः
॥
70
॥
वकारमकरारूढो
वकारजलधेः
पतिः
।
वकारामलमन्त्रार्थो
वकारगृहमङ्गलम्
॥
71
॥
वकारस्वर्गमाहेन्द्रो
वकारारण्यवारणः
।
वकारपञ्जरशुको
वलारितनयास्तुतः
॥
72
॥
वकारमन्त्रमलयसानुमन्मन्दमारुतः
।
वाद्यन्तभान्त
षट्क्रम्य
जपान्ते
शत्रुभञ्जनः
॥
73
॥
वज्रहस्तसुतावल्लीवामदक्षिणसेवितः
।
वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृतः
॥
74
॥
वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः
।
वासनागन्धलिप्ताङ्गो
वषट्कारो
वशीकरः
॥
75
॥
वासनायुक्तताम्बूलपूरिताननसुन्दरः
।
वल्लभानाथसुप्रीतो
वरपूर्णामृतोदधिः
॥
76
॥
इति
श्री
सुब्रह्मण्य
त्रिशती
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits