Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सुब्रह्मण्य त्रिशती नामावली

ओं श्रीं सौं शरवणभवाय नमः ओं शरच्चन्द्रायुतप्रभाय नमः ओं शशाङ्कशेखरसुताय नमः ओं शचीमाङ्गल्यरक्षकाय नमः ओं शतायुष्यप्रदात्रे नमः ओं शतकोटिरविप्रभाय नमः ओं शचीवल्लभसुप्रीताय नमः ओं शचीनायकपूजिताय नमः ओं शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ओं शचीशार्तिहराय नमः 10 ओं शम्भवे नमः ओं शम्भूपदेशकाय नमः ओं शङ्कराय नमः ओं शङ्करप्रीताय नमः ओं शम्याककुसुमप्रियाय नमः ओं शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः ओं शचीनाथसुताप्राणनायकाय नमः ओं शक्तिपाणिमते नमः ओं शङ्खपाणिप्रियाय नमः ओं शङ्खोपमषड्गलसुप्रभाय नमः 20 ओं शङ्खघोषप्रियाय नमः ओं शङ्खचक्रशूलादिकायुधाय नमः ओं शङ्खधाराभिषेकादिप्रियाय नमः ओं शङ्करवल्लभाय नमः ओं शब्दब्रह्ममयाय नमः ओं शब्दमूलान्तरात्मकाय नमः ओं शब्दप्रियाय नमः ओं शब्दरूपाय नमः ओं शब्दानन्दाय नमः ओं शचीस्तुताय नमः 30 ओं शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः ओं शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः ओं शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः ओं शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः ओं शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः ओं शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ओं शङ्खपाणिविधिभ्यां पार्श्वयोरुपसेविताय नमः ओं शङ्खपद्मनिधीनां कोटिभिः परिसेविताय नमः ओं शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेविताय नमः ओं शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः 40 ओं शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः ओं शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ओं शतपत्रद्वयकराय नमः ओं शतपत्रार्चनप्रियाय नमः ओं शतपत्रसमासीनाय नमः ओं शतपत्रासनस्तुताय नमः ओं शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः ओं शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः ओं शशाङ्कार्धजटाजूटाय नमः ओं शरणागतवत्सलाय नमः 50 ओं रकाररूपाय नमः ओं रमणाय नमः ओं राजीवाक्षाय नमः ओं रहोगताय नमः ओं रतीशकोटिसौन्दर्याय नमः ओं रविकोट्युदयप्रभाय नमः ओं रागस्वरूपाय नमः ओं रागघ्नाय नमः ओं रक्ताब्जप्रियाय नमः ओं राजराजेश्वरीपुत्राय नमः 60 ओं राजेन्द्रविभवप्रदाय नमः ओं रत्नप्रभाकिरीटाग्राय नमः ओं रविचन्द्राग्निलोचनाय नमः ओं रत्नाङ्गदमहाबाहवे नमः ओं रत्नताटङ्कभूषणाय नमः ओं रत्नकेयूरभूषाढ्याय नमः ओं रत्नहारविराजिताय नमः ओं रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः ओं रवसम्युक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः ओं रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः 70 ओं रत्नसिंहासनासीनाय नमः ओं रत्नशोभितमन्दिराय नमः ओं राकेन्दुमुखषट्काय नमः ओं रमावाण्यादिपूजिताय नमः ओं राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ओं रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः ओं राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः ओं राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः ओं रवयुक्तधनुर्हस्ताय नमः ओं रत्नकुक्कुटधारणाय नमः 80 ओं रणरङ्गजयाय नमः ओं रामास्तोत्रश्रवणकौतुकाय नमः ओं रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः ओं रक्तपीताम्बरधराय नमः ओं रक्तगन्धानुलेपनाय नमः ओं रक्तद्वादशपद्माक्षाय नमः ओं रक्तमाल्यविभूषिताय नमः ओं रविप्रियाय नमः ओं रावणेशस्तोत्रसाममनोहराय नमः ओं राज्यप्रदाय नमः 90 ओं रन्ध्रगुह्याय नमः ओं रतिवल्लभसुप्रियाय नमः ओं रणानुबन्धनिर्मुक्ताय नमः ओं राक्षसानीकनाशकाय नमः ओं राजीवसम्भवद्वेषिणे नमः ओं राजीवासनपूजिताय नमः ओं रमणीयमहाचित्रमयूरारूढसुन्दराय नमः ओं रमानाथस्तुताय नमः ओं रामाय नमः ओं रकाराकर्षणक्रियाय नमः 100 ओं वकाररूपाय नमः ओं वरदाय नमः ओं वज्रशक्त्यभयान्विताय नमः ओं वामदेवादिसम्पूज्याय नमः ओं वज्रपाणिमनोहराय नमः ओं वाणीस्तुताय नमः ओं वासवेशाय नमः ओं वल्लीकल्याणसुन्दराय नमः ओं वल्लीवदनपद्मार्काय नमः ओं वल्लीनेत्रोत्पलोडुपाय नमः 110 ओं वल्लीद्विनयनानन्दाय नमः ओं वल्लीचित्ततटामृताय नमः ओं वल्लीकल्पलतावृक्षाय नमः ओं वल्लीप्रियमनोहराय नमः ओं वल्लीकुमुदहास्येन्दवे नमः ओं वल्लीभाषितसुप्रियाय नमः ओं वल्लीमनोहृत्सौन्दर्याय नमः ओं वल्लीविद्युल्लताघनाय नमः ओं वल्लीमङ्गलवेषाढ्याय नमः ओं वल्लीमुखवशङ्कराय नमः 120 ओं वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः ओं वल्लीशाय नमः ओं वल्लभाय नमः ओं वायुसारथये नमः ओं वरुणस्तुताय नमः ओं वक्रतुण्डानुजाय नमः ओं वत्साय नमः ओं वत्सलाय नमः ओं वत्सरक्षकाय नमः ओं वत्सप्रियाय नमः 130 ओं वत्सनाथाय नमः ओं वत्सवीरगणावृताय नमः ओं वारणाननदैत्यघ्नाय नमः ओं वातापिघ्नोपदेशकाय नमः ओं वर्णगात्रमयूरस्थाय नमः ओं वर्णरूपाय नमः ओं वरप्रभवे नमः ओं वर्णस्थाय नमः ओं वारणारूढाय नमः ओं वज्रशक्त्यायुधप्रियाय नमः 140 ओं वामाङ्गाय नमः ओं वामनयनाय नमः ओं वचद्भुवे नमः ओं वामनप्रियाय नमः ओं वरवेषधराय नमः ओं वामाय नमः ओं वाचस्पतिसमर्चिताय नमः ओं वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः ओं वन्दनप्रियाय नमः ओं वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः 150 ओं णकाररूपाय नमः ओं नादान्ताय नमः ओं नारदादिमुनिस्तुताय नमः ओं णकारपीठमध्यस्थाय नमः ओं नगभेदिने नमः ओं नगेश्वराय नमः ओं णकारनादसन्तुष्टाय नमः ओं नागाशनरथस्थिताय नमः ओं णकारजपसुप्रीताय नमः ओं नानावेषाय नमः 160 ओं नगप्रियाय नमः ओं णकारबिन्दुनिलयाय नमः ओं नवग्रहसुरूपकाय नमः ओं णकारपठनानन्दाय नमः ओं नन्दिकेश्वरवन्दिताय नमः ओं णकारघण्टानिनदाय नमः ओं नारायणमनोहराय नमः ओं णकारनादश्रवणाय नमः ओं नलिनोद्भवशिक्षकाय नमः ओं णकारपङ्कजादित्याय नमः 170 ओं नववीराधिनायकाय नमः ओं णकारपुष्पभ्रमराय नमः ओं नवरत्नविभूषणाय नमः ओं णकारानर्घशयनाय नमः ओं नवशक्तिसमावृताय नमः ओं णकारवृक्षकुसुमाय नमः ओं नाट्यसङ्गीतसुप्रियाय नमः ओं णकारबिन्दुनादज्ञाय नमः ओं नयज्ञाय नमः ओं नयनोद्भवाय नमः 180 ओं णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः ओं णकारपेटकमणये नमः ओं नागपर्वतमन्दिराय नमः ओं णकारकरुणानन्दाय नमः ओं नादात्मने नमः ओं नागभूषणाय नमः ओं णकारकिङ्किणीभूषाय नमः ओं नयनादृश्यदर्शनाय नमः ओं णकारवृषभावासाय नमः ओं नामपारायणप्रियाय नमः 190 ओं णकारकमलारूढाय नमः ओं नामानन्तसमन्विताय नमः ओं णकारतुरगारूढाय नमः ओं नवरत्नादिदायकाय नमः ओं णकारमकुटज्वालामणये नमः ओं नवनिधिप्रदाय नमः ओं णकारमूलमन्त्रार्थाय नमः ओं नवसिद्धादिपूजिताय नमः ओं णकारमूलनादान्ताय नमः ओं णकारस्तम्भनक्रियाय नमः 200 ओं भकाररूपाय नमः ओं भक्तार्थाय नमः ओं भवाय नमः ओं भर्गाय नमः ओं भयापहाय नमः ओं भक्तप्रियाय नमः ओं भक्तवन्द्याय नमः ओं भगवते नमः ओं भक्तवत्सलाय नमः ओं भक्तार्तिभञ्जनाय नमः 210 ओं भद्राय नमः ओं भक्तसौभाग्यदायकाय नमः ओं भक्तमङ्गलदात्रे नमः ओं भक्तकल्याणदर्शनाय नमः ओं भक्तदर्शनसन्तुष्टाय नमः ओं भक्तसङ्घसुपूजिताय नमः ओं भक्तस्तोत्रप्रियानन्दाय नमः ओं भक्ताभीष्टप्रदायकाय नमः ओं भक्तसम्पूर्णफलदाय नमः ओं भक्तसाम्राज्यभोगदाय नमः 220 ओं भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः ओं भवौषधये नमः ओं भवघ्नाय नमः ओं भवारण्यदवानलाय नमः ओं भवान्धकारमार्ताण्डाय नमः ओं भववैद्याय नमः ओं भवायुधाय नमः ओं भवशैलमहावज्राय नमः ओं भवसागरनाविकाय नमः ओं भवमृत्युभयध्वंसिने नमः 230 ओं भावनातीतविग्रहाय नमः ओं भयभूतपिशाचघ्नाय नमः ओं भास्वराय नमः ओं भारतीप्रियाय नमः ओं भाषितध्वनिमूलान्ताय नमः ओं भावाभावविवर्जिताय नमः ओं भानुकोपपितृध्वंसिने नमः ओं भारतीशोपदेशकाय नमः ओं भार्गवीनायकश्रीमद्भागिनेयाय नमः ओं भवोद्भवाय नमः 240 ओं भारक्रौञ्चासुरद्वेषाय नमः ओं भार्गवीनाथवल्लभाय नमः ओं भटवीरनमस्कृत्याय नमः ओं भटवीरसमावृताय नमः ओं भटतारागणोड्वीशाय नमः ओं भटवीरगणस्तुताय नमः ओं भागीरथेयाय नमः ओं भाषार्थाय नमः ओं भावनाशबरीप्रियाय नमः ओं भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः 250 ओं वकारसुकलासंस्थाय नमः ओं वरिष्ठाय नमः ओं वसुदायकाय नमः ओं वकारकुमुदेन्दवे नमः ओं वकाराब्धिसुधामयाय नमः ओं वकारामृतमाधुर्याय नमः ओं वकारामृतदायकाय नमः ओं दक्षे वज्राभीतियुताय नमः ओं वामे शक्तिवरान्विताय नमः ओं वकारोदधिपूर्णेन्दवे नमः 260 ओं वकारोदधिमौक्तिकाय नमः ओं वकारमेघसलिलाय नमः ओं वासवात्मजरक्षकाय नमः ओं वकारफलसारज्ञाय नमः ओं वकारकलशामृताय नमः ओं वकारपङ्कजरसाय नमः ओं वसवे नमः ओं वंशविवर्धनाय नमः ओं वकारदिव्यकमलभ्रमराय नमः ओं वायुवन्दिताय नमः 270 ओं वकारशशिसङ्काशाय नमः ओं वज्रपाणिसुताप्रियाय नमः ओं वकारपुष्पसद्गन्धाय नमः ओं वकारतटपङ्कजाय नमः ओं वकारभ्रमरध्वानाय नमः ओं वयस्तेजोबलप्रदाय नमः ओं वकारवनितानाथाय नमः ओं वश्याद्यष्टक्रियाप्रदाय नमः ओं वकारफलसत्काराय नमः ओं वकाराज्यहुताशनाय नमः 280 ओं वर्चस्विने नमः ओं वाङ्मनोऽतीताय नमः ओं वाताप्यरिकृतप्रियाय नमः ओं वकारवटमूलस्थाय नमः ओं वकारजलधेस्तटाय नमः ओं वकारगङ्गावेगाब्धये नमः ओं वज्रमाणिक्यभूषणाय नमः ओं वातरोगहराय नमः ओं वाणीगीतश्रवणकौतुकाय नमः ओं वकारमकरारूढाय नमः 290 ओं वकारजलधेः पतये नमः ओं वकारामलमन्त्रार्थाय नमः ओं वकारगृहमङ्गलाय नमः ओं वकारस्वर्गमाहेन्द्राय नमः ओं वकारारण्यवारणाय नमः ओं वकारपञ्जरशुकाय नमः ओं वलारितनयास्तुताय नमः ओं वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः ओं वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः ओं वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः 300 ओं वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः ओं वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः ओं वासनागन्धलिप्ताङ्गाय नमः ओं वषट्काराय नमः ओं वशीकराय नमः ओं वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः ओं वल्लभानाथसुप्रीताय नमः ओं वरपूर्णामृतोदधये नमः 308

Recite with devotion and pure heart

Regular practice brings spiritual benefits