Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सुब्रह्मण्य षडक्षराष्टोत्तर शतनामावली

ओं शरण्याय नमः ओं शर्वतनयाय नमः ओं शर्वाणीप्रियनन्दनाय नमः ओं शरकाननसम्भूताय नमः ओं शर्वरीशमुखाय नमः ओं शमाय नमः ओं शङ्कराय नमः ओं शरणत्रात्रे नमः ओं शशाङ्कमुकुटोज्ज्वलाय नमः ओं शर्मदाय नमः 10 ओं शङ्खकण्ठाय नमः ओं शरकार्मुकहेतिभृते नमः ओं शक्तिधारिणे नमः ओं शक्तिकराय नमः ओं शतकोट्यर्कपाटलाय नमः ओं शमदाय नमः ओं शतरुद्रस्थाय नमः ओं शतमन्मथविग्रहाय नमः ओं रणाग्रण्ये नमः ओं रक्षणकृते नमः 20 ओं रक्षोबलविमर्दनाय नमः ओं रहस्यज्ञाय नमः ओं रतिकराय नमः ओं रक्तचन्दनलेपनाय नमः ओं रत्नधारिणे नमः ओं रत्नभूषाय नमः ओं रत्नकुण्डलमण्डिताय नमः ओं रक्ताम्बराय नमः ओं रम्यमुखाय नमः ओं रविचन्द्राग्निलोचनाय नमः 30 ओं रमाकलत्रजामात्रे नमः ओं रहस्याय नमः ओं रघुपूजिताय नमः ओं रसकोणान्तरालस्थाय नमः ओं रजोमूर्तये नमः ओं रतिप्रदाय नमः ओं वसुदाय नमः ओं वटुरूपाय नमः ओं वसन्तऋतुपूजिताय नमः ओं वलवैरिसुतानाथाय नमः 40 ओं वनजाक्षाय नमः ओं वराकृतये नमः ओं वक्रतुण्डानुजाय नमः ओं वत्साय नमः ओं वरदाभयहस्तकाय नमः ओं वत्सलाय नमः ओं वर्षकाराय नमः ओं वसिष्ठादिप्रपूजिताय नमः ओं वणिग्रूपाय नमः ओं वरेण्याय नमः 50 ओं वर्णाश्रमविधायकाय नमः ओं वरदाय नमः ओं वज्रभृद्वन्द्याय नमः ओं वन्दारुजनवत्सलाय नमः ओं नकाररूपाय नमः ओं नलिनाय नमः ओं नकारयुतमन्त्रकाय नमः ओं नकारवर्णनिलयाय नमः ओं नन्दनाय नमः ओं नन्दिवन्दिताय नमः 60 ओं नटेशपुत्राय नमः ओं नम्रभ्रुवे नमः ओं नक्षत्रग्रहनायकाय नमः ओं नगाग्रनिलयाय नमः ओं नम्याय नमः ओं नमद्भक्तफलप्रदाय नमः ओं नवनागाय नमः ओं नगहराय नमः ओं नवग्रहसुवन्दिताय नमः ओं नववीराग्रजाय नमः 70 ओं नव्याय नमः ओं नमस्कारस्तुतिप्रियाय नमः ओं भद्रप्रदाय नमः ओं भगवते नमः ओं भवारण्यदवानलाय नमः ओं भवोद्भवाय नमः ओं भद्रमूर्तये नमः ओं भर्त्सितासुरमण्डलाय नमः ओं भयापहाय नमः ओं भर्गरूपाय नमः 80 ओं भक्ताभीष्टफलप्रदाय नमः ओं भक्तिगम्याय नमः ओं भक्तनिधये नमः ओं भयक्लेशविमोचनाय नमः ओं भरतागमसुप्रीताय नमः ओं भक्ताय नमः ओं भक्तार्तिभञ्जनाय नमः ओं भयकृते नमः ओं भरताराध्याय नमः ओं भरद्वाजऋषिस्तुताय नमः 90 ओं वरुणाय नमः ओं वरुणाराध्याय नमः ओं वलारातिमुखस्तुताय नमः ओं वज्रशक्त्यायुधोपेताय नमः ओं वराय नमः ओं वक्षःस्थलोज्ज्वलाय नमः ओं वस्तुरूपाय नमः ओं वशिध्येयाय नमः ओं वलित्रयविराजिताय नमः ओं वक्रालकाय नमः 100 ओं वलयधृते नमः ओं वलत्पीताम्बरोज्ज्वलाय नमः ओं वचोरूपाय नमः ओं वचनदाय नमः ओं वचोऽतीतचरित्रकाय नमः ओं वरदाय नमः ओं वश्यफलदाय नमः ओं वल्लीदेवीमनोहराय नमः 108 इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामावली

Recite with devotion and pure heart

Regular practice brings spiritual benefits