हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सुब्रह्मण्य सहस्र नामावलि
ओं
अचिन्त्यशक्तये
नमः
।
ओं
अनघाय
नमः
।
ओं
अक्षोभ्याय
नमः
।
ओं
अपराजिताय
नमः
।
ओं
अनाथवत्सलाय
नमः
।
ओं
अमोघाय
नमः
।
ओं
अशोकाय
नमः
।
ओं
अजराय
नमः
।
ओं
अभयाय
नमः
।
ओं
अत्युदाराय
नमः
।
ओं
अघहराय
नमः
।
ओं
अग्रगण्याय
नमः
।
ओं
अद्रिजासुताय
नमः
।
ओं
अनन्तमहिम्ने
नमः
।
ओं
अपाराय
नमः
।
ओं
अनन्तसौख्यप्रदाय
नमः
।
ओं
अव्ययाय
नमः
।
ओं
अनन्तमोक्षदाय
नमः
।
ओं
अनादये
नमः
।
ओं
अप्रमेयाय
नमः
।
20
ओं
अक्षराय
नमः
।
ओं
अच्युताय
नमः
।
ओं
अकल्मषाय
नमः
।
ओं
अभिरामाय
नमः
।
ओं
अग्रधुर्याय
नमः
।
ओं
अमितविक्रमाय
नमः
।
ओं
अनाथनाथाय
नमः
।
ओं
अमलाय
नमः
।
ओं
अप्रमत्ताय
नमः
।
ओं
अमरप्रभवे
नमः
।
ओं
अरिन्दमाय
नमः
।
ओं
अखिलाधाराय
नमः
।
ओं
अणिमादिगुणाय
नमः
।
ओं
अग्रण्ये
नमः
।
ओं
अचञ्चलाय
नमः
।
ओं
अमरस्तुत्याय
नमः
।
ओं
अकलङ्काय
नमः
।
ओं
अमिताशनाय
नमः
।
ओं
अग्निभुवे
नमः
।
ओं
अनवद्याङ्गाय
नमः
।
40
ओं
अद्भुताय
नमः
।
ओं
अभीष्टदायकाय
नमः
।
ओं
अतीन्द्रियाय
नमः
।
ओं
अप्रमेयात्मने
नमः
।
ओं
अदृश्याय
नमः
।
ओं
अव्यक्तलक्षणाय
नमः
।
ओं
आपद्विनाशकाय
नमः
।
ओं
आर्याय
नमः
।
ओं
आढ्याय
नमः
।
ओं
आगमसंस्तुताय
नमः
।
ओं
आर्तसंरक्षणाय
नमः
।
ओं
आद्याय
नमः
।
ओं
आनन्दाय
नमः
।
ओं
आर्यसेविताय
नमः
।
ओं
आश्रितेष्टार्थवरदाय
नमः
।
ओं
आनन्दिने
नमः
।
ओं
आर्तफलप्रदाय
नमः
।
ओं
आश्चर्यरूपाय
नमः
।
ओं
आनन्दाय
नमः
।
ओं
आपन्नार्तिविनाशनाय
नमः
।
60
ओं
इभवक्त्रानुजाय
नमः
।
ओं
इष्टाय
नमः
।
ओं
इभासुरहरात्मजाय
नमः
।
ओं
इतिहासश्रुतिस्तुत्याय
नमः
।
ओं
इन्द्रभोगफलप्रदाय
नमः
।
ओं
इष्टापूर्तफलप्राप्तये
नमः
।
ओं
इष्टेष्टवरदायकाय
नमः
।
ओं
इहामुत्रेष्टफलदाय
नमः
।
ओं
इष्टदाय
नमः
।
ओं
इन्द्रवन्दिताय
नमः
।
ओं
ईडनीयाय
नमः
।
ओं
ईशपुत्राय
नमः
।
ओं
ईप्सितार्थप्रदायकाय
नमः
।
ओं
ईतिभीतिहराय
नमः
।
ओं
ईड्याय
नमः
।
ओं
ईषणात्रयवर्जिताय
नमः
।
ओं
उदारकीर्तये
नमः
।
ओं
उद्योगिने
नमः
।
ओं
उत्कृष्टोरुपराक्रमाय
नमः
।
ओं
उत्कृष्टशक्तये
नमः
।
80
ओं
उत्साहाय
नमः
।
ओं
उदाराय
नमः
।
ओं
उत्सवप्रियाय
नमः
।
ओं
उज्जृम्भाय
नमः
।
ओं
उद्भवाय
नमः
।
ओं
उग्राय
नमः
।
ओं
उदग्राय
नमः
।
ओं
उग्रलोचनाय
नमः
।
ओं
उन्मत्ताय
नमः
।
ओं
उग्रशमनाय
नमः
।
ओं
उद्वेगघ्नोरगेश्वराय
नमः
।
ओं
उरुप्रभावाय
नमः
।
ओं
उदीर्णाय
नमः
।
ओं
उमापुत्राय
नमः
।
ओं
उदारधिये
नमः
।
ओं
ऊर्ध्वरेतःसुताय
नमः
।
ओं
ऊर्ध्वगतिदाय
नमः
।
ओं
ऊर्जपालकाय
नमः
।
ओं
ऊर्जिताय
नमः
।
ओं
ऊर्ध्वगाय
नमः
।
100
ओं
ऊर्ध्वाय
नमः
।
ओं
ऊर्ध्वलोकैकनायकाय
नमः
।
ओं
ऊर्जावते
नमः
।
ओं
ऊर्जितोदाराय
नमः
।
ओं
ऊर्जितोर्जितशासनाय
नमः
।
ओं
ऋषिदेवगणस्तुत्याय
नमः
।
ओं
ऋणत्रयविमोचनाय
नमः
।
ओं
ऋजुरूपाय
नमः
।
ओं
ऋजुकराय
नमः
।
ओं
ऋजुमार्गप्रदर्शनाय
नमः
।
ओं
ऋतम्भराय
नमः
।
ओं
ऋजुप्रीताय
नमः
।
ओं
ऋषभाय
नमः
।
ओं
ऋद्धिदाय
नमः
।
ओं
ऋताय
नमः
।
ओं
लुलितोद्धारकाय
नमः
।
ओं
लूतभवपाशप्रभञ्जनाय
नमः
।
ओं
एणाङ्कधरसत्पुत्राय
नमः
।
ओं
एकस्मै
नमः
।
ओं
एनोविनाशनाय
नमः
।
120
ओं
ऐश्वर्यदाय
नमः
।
ओं
ऐन्द्रभोगिने
नमः
।
ओं
ऐतिह्याय
नमः
।
ओं
ऐन्द्रवन्दिताय
नमः
।
ओं
ओजस्विने
नमः
।
ओं
ओषधिस्थानाय
नमः
।
ओं
ओजोदाय
नमः
।
ओं
ओदनप्रदाय
नमः
।
ओं
औदार्यशीलाय
नमः
।
ओं
औमेयाय
नमः
।
ओं
औग्राय
नमः
।
ओं
औन्नत्यदायकाय
नमः
।
ओं
औदार्याय
नमः
।
ओं
औषधकराय
नमः
।
ओं
औषधाय
नमः
।
ओं
औषधाकराय
नमः
।
ओं
अंशुमते
नमः
।
ओं
अंशुमालीड्याय
नमः
।
ओं
अम्बिकातनयाय
नमः
।
ओं
अन्नदाय
नमः
।
140
ओं
अन्धकारिसुताय
नमः
।
ओं
अन्धत्वहारिणे
नमः
।
ओं
अम्बुजलोचनाय
नमः
।
ओं
अस्तमायाय
नमः
।
ओं
अमराधीशाय
नमः
।
ओं
अस्पष्टाय
नमः
।
ओं
अस्तोकपुण्यदाय
नमः
।
ओं
अस्तामित्राय
नमः
।
ओं
अस्तरूपाय
नमः
।
ओं
अस्खलत्सुगतिदायकाय
नमः
।
ओं
कार्तिकेयाय
नमः
।
ओं
कामरूपाय
नमः
।
ओं
कुमाराय
नमः
।
ओं
क्रौञ्चदारणाय
नमः
।
ओं
कामदाय
नमः
।
ओं
कारणाय
नमः
।
ओं
काम्याय
नमः
।
ओं
कमनीयाय
नमः
।
ओं
कृपाकराय
नमः
।
ओं
काञ्चनाभाय
नमः
।
160
ओं
कान्तियुक्ताय
नमः
।
ओं
कामिने
नमः
।
ओं
कामप्रदाय
नमः
।
ओं
कवये
नमः
।
ओं
कीर्तिकृते
नमः
।
ओं
कुक्कुटधराय
नमः
।
ओं
कूटस्थाय
नमः
।
ओं
कुवलेक्षणाय
नमः
।
ओं
कुङ्कुमाङ्गाय
नमः
।
ओं
क्लमहराय
नमः
।
ओं
कुशलाय
नमः
।
ओं
कुक्कुटध्वजाय
नमः
।
ओं
कुशानुसम्भवाय
नमः
।
ओं
क्रूराय
नमः
।
ओं
क्रूरघ्नाय
नमः
।
ओं
कलितापहृते
नमः
।
ओं
कामरूपाय
नमः
।
ओं
कल्पतरवे
नमः
।
ओं
कान्ताय
नमः
।
ओं
कामितदायकाय
नमः
।
180
ओं
कल्याणकृते
नमः
।
ओं
क्लेशनाशाय
नमः
।
ओं
कृपालवे
नमः
।
ओं
करुणाकराय
नमः
।
ओं
कलुषघ्नाय
नमः
।
ओं
क्रियाशक्तये
नमः
।
ओं
कठोराय
नमः
।
ओं
कवचिने
नमः
।
ओं
कृतिने
नमः
।
ओं
कोमलाङ्गाय
नमः
।
ओं
कुशप्रीताय
नमः
।
ओं
कुत्सितघ्नाय
नमः
।
ओं
कलाधराय
नमः
।
ओं
ख्याताय
नमः
।
ओं
खेटधराय
नमः
।
ओं
खड्गिने
नमः
।
ओं
खट्वाङ्गिने
नमः
।
ओं
खलनिग्रहाय
नमः
।
ओं
ख्यातिप्रदाय
नमः
।
ओं
खेचरेशाय
नमः
।
200
ओं
ख्यातेहाय
नमः
।
ओं
खेचरस्तुताय
नमः
।
ओं
खरतापहराय
नमः
।
ओं
खस्थाय
नमः
।
ओं
खेचराय
नमः
।
ओं
खेचराश्रयाय
नमः
।
ओं
खण्डेन्दुमौलितनयाय
नमः
।
ओं
खेलाय
नमः
।
ओं
खेचरपालकाय
नमः
।
ओं
खस्थलाय
नमः
।
ओं
खण्डितार्काय
नमः
।
ओं
खेचरीजनपूजिताय
नमः
।
ओं
गाङ्गेयाय
नमः
।
ओं
गिरिजापुत्राय
नमः
।
ओं
गणनाथानुजाय
नमः
।
ओं
गुहाय
नमः
।
ओं
गोप्त्रे
नमः
।
ओं
गीर्वाणसंसेव्याय
नमः
।
ओं
गुणातीताय
नमः
।
ओं
गुहाश्रयाय
नमः
।
220
ओं
गतिप्रदाय
नमः
।
ओं
गुणनिधये
नमः
।
ओं
गम्भीराय
नमः
।
ओं
गिरिजात्मजाय
नमः
।
ओं
गूढरूपाय
नमः
।
ओं
गदहराय
नमः
।
ओं
गुणाधीशाय
नमः
।
ओं
गुणाग्रण्ये
नमः
।
ओं
गोधराय
नमः
।
ओं
गहनाय
नमः
।
ओं
गुप्ताय
नमः
।
ओं
गर्वघ्नाय
नमः
।
ओं
गुणवर्धनाय
नमः
।
ओं
गुह्याय
नमः
।
ओं
गुणज्ञाय
नमः
।
ओं
गीतिज्ञाय
नमः
।
ओं
गतातङ्काय
नमः
।
ओं
गुणाश्रयाय
नमः
।
ओं
गद्यपद्यप्रियाय
नमः
।
ओं
गुण्याय
नमः
।
240
ओं
गोस्तुताय
नमः
।
ओं
गगनेचराय
नमः
।
ओं
गणनीयचरित्राय
नमः
।
ओं
गतक्लेशाय
नमः
।
ओं
गुणार्णवाय
नमः
।
ओं
घूर्णिताक्षाय
नमः
।
ओं
घृणिनिधये
नमः
।
ओं
घनगम्भीरघोषणाय
नमः
।
ओं
घण्टानादप्रियाय
नमः
।
ओं
घोषाय
नमः
।
ओं
घोराघौघविनाशनाय
नमः
।
ओं
घनानन्दाय
नमः
।
ओं
घर्महन्त्रे
नमः
।
ओं
घृणावते
नमः
।
ओं
घृष्टिपातकाय
नमः
।
ओं
घृणिने
नमः
।
ओं
घृणाकराय
नमः
।
ओं
घोराय
नमः
।
ओं
घोरदैत्यप्रहारकाय
नमः
।
ओं
घटितैश्वर्यसन्दोहाय
नमः
।
260
ओं
घनार्थाय
नमः
।
ओं
घनसङ्क्रमाय
नमः
।
ओं
चित्रकृते
नमः
।
ओं
चित्रवर्णाय
नमः
।
ओं
चञ्चलाय
नमः
।
ओं
चपलद्युतये
नमः
।
ओं
चिन्मयाय
नमः
।
ओं
चित्स्वरूपाय
नमः
।
ओं
चिरानन्दाय
नमः
।
ओं
चिरन्तनाय
नमः
।
ओं
चित्रकेलये
नमः
।
ओं
चित्रतराय
नमः
।
ओं
चिन्तनीयाय
नमः
।
ओं
चमत्कृतये
नमः
।
ओं
चोरघ्नाय
नमः
।
ओं
चतुराय
नमः
।
ओं
चारवे
नमः
।
ओं
चामीकरविभूषणाय
नमः
।
ओं
चन्द्रार्ककोटिसदृशाय
नमः
।
ओं
चन्द्रमौलितनूभवाय
नमः
।
280
ओं
छादिताङ्गाय
नमः
।
ओं
छद्महन्त्रे
नमः
।
ओं
छेदिताखिलपातकाय
नमः
।
ओं
छेदीकृततमःक्लेशाय
नमः
।
ओं
छत्रीकृतमहायशसे
नमः
।
ओं
छादिताशेषसन्तापाय
नमः
।
ओं
छरितामृतसागराय
नमः
।
ओं
छन्नत्रैगुण्यरूपाय
नमः
।
ओं
छातेहाय
नमः
।
ओं
छिन्नसंशयाय
नमः
।
ओं
छन्दोमयाय
नमः
।
ओं
छन्दगामिने
नमः
।
ओं
छिन्नपाशाय
नमः
।
ओं
छविश्छदाय
नमः
।
ओं
जगद्धिताय
नमः
।
ओं
जगत्पूज्याय
नमः
।
ओं
जगज्ज्येष्ठाय
नमः
।
ओं
जगन्मयाय
नमः
।
ओं
जनकाय
नमः
।
ओं
जाह्नवीसूनवे
नमः
।
300
ओं
जितामित्राय
नमः
।
ओं
जगद्गुरवे
नमः
।
ओं
जयिने
नमः
।
ओं
जितेन्द्रियाय
नमः
।
ओं
जैत्राय
नमः
।
ओं
जरामरणवर्जिताय
नमः
।
ओं
ज्योतिर्मयाय
नमः
।
ओं
जगन्नाथाय
नमः
।
ओं
जगज्जीवाय
नमः
।
ओं
जनाश्रयाय
नमः
।
ओं
जगत्सेव्याय
नमः
।
ओं
जगत्कर्त्रे
नमः
।
ओं
जगत्साक्षिणे
नमः
।
ओं
जगत्प्रियाय
नमः
।
ओं
जम्भारिवन्द्याय
नमः
।
ओं
जयदाय
नमः
।
ओं
जगज्जनमनोहराय
नमः
।
ओं
जगदानन्दजनकाय
नमः
।
ओं
जनजाड्यापहारकाय
नमः
।
ओं
जपाकुसुमसङ्काशाय
नमः
।
320
ओं
जनलोचनशोभनाय
नमः
।
ओं
जनेश्वराय
नमः
।
ओं
जितक्रोधाय
नमः
।
ओं
जनजन्मनिबर्हणाय
नमः
।
ओं
जयदाय
नमः
।
ओं
जन्तुतापघ्नाय
नमः
।
ओं
जितदैत्यमहाव्रजाय
नमः
।
ओं
जितमायाय
नमः
।
ओं
जितक्रोधाय
नमः
।
ओं
जितसङ्गाय
नमः
।
ओं
जनप्रियाय
नमः
।
ओं
झञ्झानिलमहावेगाय
नमः
।
ओं
झरिताशेषपातकाय
नमः
।
ओं
झर्झरीकृतदैत्यौघाय
नमः
।
ओं
झल्लरीवाद्यसम्प्रियाय
नमः
।
ओं
ज्ञानमूर्तये
नमः
।
ओं
ज्ञानगम्याय
नमः
।
ओं
ज्ञानिने
नमः
।
ओं
ज्ञानमहानिधये
नमः
।
ओं
टङ्कारनृत्तविभवाय
नमः
।
340
ओं
टङ्कवज्रध्वजाङ्किताय
नमः
।
ओं
टङ्किताखिललोकाय
नमः
।
ओं
टङ्कितैनस्तमोरवये
नमः
।
ओं
डम्बरप्रभवाय
नमः
।
ओं
डम्भाय
नमः
।
ओं
डम्बाय
नमः
।
ओं
डमरुकप्रियाय
नमः
।
ओं
डमरोत्कटसन्नादाय
नमः
।
ओं
डिम्भरूपस्वरूपकाय
नमः
।
ओं
ढक्कानादप्रीतिकराय
नमः
।
ओं
ढालितासुरसङ्कुलाय
नमः
।
ओं
ढौकितामरसन्दोहाय
नमः
।
ओं
ढुण्ढिविघ्नेश्वरानुजाय
नमः
।
ओं
तत्त्वज्ञाय
नमः
।
ओं
तत्त्वगाय
नमः
।
ओं
तीव्राय
नमः
।
ओं
तपोरूपाय
नमः
।
ओं
तपोमयाय
नमः
।
ओं
त्रयीमयाय
नमः
।
ओं
त्रिकालज्ञाय
नमः
।
360
ओं
त्रिमूर्तये
नमः
।
ओं
त्रिगुणात्मकाय
नमः
।
ओं
त्रिदशेशाय
नमः
।
ओं
तारकारये
नमः
।
ओं
तापघ्नाय
नमः
।
ओं
तापसप्रियाय
नमः
।
ओं
तुष्टिदाय
नमः
।
ओं
तुष्टिकृते
नमः
।
ओं
तीक्ष्णाय
नमः
।
ओं
तपोरूपाय
नमः
।
ओं
त्रिकालविदे
नमः
।
ओं
स्तोत्रे
नमः
।
ओं
स्तव्याय
नमः
।
ओं
स्तवप्रीताय
नमः
।
ओं
स्तुतये
नमः
।
ओं
स्तोत्राय
नमः
।
ओं
स्तुतिप्रियाय
नमः
।
ओं
स्थिताय
नमः
।
ओं
स्थायिने
नमः
।
ओं
स्थापकाय
नमः
।
380
ओं
स्थूलसूक्ष्मप्रदर्शकाय
नमः
।
ओं
स्थविष्ठाय
नमः
।
ओं
स्थविराय
नमः
।
ओं
स्थूलाय
नमः
।
ओं
स्थानदाय
नमः
।
ओं
स्थैर्यदाय
नमः
।
ओं
स्थिराय
नमः
।
ओं
दान्ताय
नमः
।
ओं
दयापराय
नमः
।
ओं
दात्रे
नमः
।
ओं
दुरितघ्नाय
नमः
।
ओं
दुरासदाय
नमः
।
ओं
दर्शनीयाय
नमः
।
ओं
दयासाराय
नमः
।
ओं
देवदेवाय
नमः
।
ओं
दयानिधये
नमः
।
ओं
दुराधर्षाय
नमः
।
ओं
दुर्विगाह्याय
नमः
।
ओं
दक्षाय
नमः
।
ओं
दर्पणशोभिताय
नमः
।
400
ओं
दुर्धराय
नमः
।
ओं
दानशीलाय
नमः
।
ओं
द्वादशाक्षाय
नमः
।
ओं
द्विषड्भुजाय
नमः
।
ओं
द्विषट्कर्णाय
नमः
।
ओं
द्विषड्बाहवे
नमः
।
ओं
दीनसन्तापनाशनाय
नमः
।
ओं
दन्दशूकेश्वराय
नमः
।
ओं
देवाय
नमः
।
ओं
दिव्याय
नमः
।
ओं
दिव्याकृतये
नमः
।
ओं
दमाय
नमः
।
ओं
दीर्घवृत्ताय
नमः
।
ओं
दीर्घबाहवे
नमः
।
ओं
दीर्घदृष्टये
नमः
।
ओं
दिवस्पतये
नमः
।
ओं
दण्डाय
नमः
।
ओं
दमयित्रे
नमः
।
ओं
दर्पाय
नमः
।
ओं
देवसिंहाय
नमः
।
420
ओं
दृढव्रताय
नमः
।
ओं
दुर्लभाय
नमः
।
ओं
दुर्गमाय
नमः
।
ओं
दीप्ताय
नमः
।
ओं
दुष्प्रेक्ष्याय
नमः
।
ओं
दिव्यमण्डनाय
नमः
।
ओं
दुरोदरघ्नाय
नमः
।
ओं
दुःखघ्नाय
नमः
।
ओं
दुरारिघ्नाय
नमः
।
ओं
दिशां
पतये
नमः
।
ओं
दुर्जयाय
नमः
।
ओं
देवसेनेशाय
नमः
।
ओं
दुर्ज्ञेयाय
नमः
।
ओं
दुरतिक्रमाय
नमः
।
ओं
दम्भाय
नमः
।
ओं
दृप्ताय
नमः
।
ओं
देवर्षये
नमः
।
ओं
दैवज्ञाय
नमः
।
ओं
दैवचिन्तकाय
नमः
।
ओं
धुरन्धराय
नमः
।
440
ओं
धर्मपराय
नमः
।
ओं
धनदाय
नमः
।
ओं
धृतवर्धनाय
नमः
।
ओं
धर्मेशाय
नमः
।
ओं
धर्मशास्त्रज्ञाय
नमः
।
ओं
धन्विने
नमः
।
ओं
धर्मपरायणाय
नमः
।
ओं
धनाध्यक्षाय
नमः
।
ओं
धनपतये
नमः
।
ओं
धृतिमते
नमः
।
ओं
धूतकिल्बिषाय
नमः
।
ओं
धर्महेतवे
नमः
।
ओं
धर्मशूराय
नमः
।
ओं
धर्मकृते
नमः
।
ओं
धर्मविदे
नमः
।
ओं
ध्रुवाय
नमः
।
ओं
धात्रे
नमः
।
ओं
धीमते
नमः
।
ओं
धर्मचारिणे
नमः
।
ओं
धन्याय
नमः
।
460
ओं
धुर्याय
नमः
।
ओं
धृतव्रताय
नमः
।
ओं
नित्योत्सवाय
नमः
।
ओं
नित्यतृप्ताय
नमः
।
ओं
निर्लेपाय
नमः
।
ओं
निश्चलात्मकाय
नमः
।
ओं
निरवद्याय
नमः
।
ओं
निराधाराय
नमः
।
ओं
निष्कलङ्काय
नमः
।
ओं
निरञ्जनाय
नमः
।
ओं
निर्ममाय
नमः
।
ओं
निरहङ्काराय
नमः
।
ओं
निर्मोहाय
नमः
।
ओं
निरुपद्रवाय
नमः
।
ओं
नित्यानन्दाय
नमः
।
ओं
निरातङ्काय
नमः
।
ओं
निष्प्रपञ्चाय
नमः
।
ओं
निरामयाय
नमः
।
ओं
निरवद्याय
नमः
।
ओं
निरीहाय
नमः
।
480
ओं
निर्दर्शाय
नमः
।
ओं
निर्मलात्मकाय
नमः
।
ओं
नित्यानन्दाय
नमः
।
ओं
निर्जरेशाय
नमः
।
ओं
निःसङ्गाय
नमः
।
ओं
निगमस्तुताय
नमः
।
ओं
निष्कण्टकाय
नमः
।
ओं
निरालम्बाय
नमः
।
ओं
निष्प्रत्यूहाय
नमः
।
ओं
निरुद्भवाय
नमः
।
ओं
नित्याय
नमः
।
ओं
नियतकल्याणाय
नमः
।
ओं
निर्विकल्पाय
नमः
।
ओं
निराश्रयाय
नमः
।
ओं
नेत्रे
नमः
।
ओं
निधये
नमः
।
ओं
नैकरूपाय
नमः
।
ओं
निराकाराय
नमः
।
ओं
नदीसुताय
नमः
।
ओं
पुलिन्दकन्यारमणाय
नमः
।
500
ओं
पुरुजिते
नमः
।
ओं
परमप्रियाय
नमः
।
ओं
प्रत्यक्षमूर्तये
नमः
।
ओं
प्रत्यक्षाय
नमः
।
ओं
परेशाय
नमः
।
ओं
पूर्णपुण्यदाय
नमः
।
ओं
पुण्याकराय
नमः
।
ओं
पुण्यरूपाय
नमः
।
ओं
पुण्याय
नमः
।
ओं
पुण्यपरायणाय
नमः
।
ओं
पुण्योदयाय
नमः
।
ओं
परस्मै
ज्योतिषे
नमः
।
ओं
पुण्यकृते
नमः
।
ओं
पुण्यवर्धनाय
नमः
।
ओं
परानन्दाय
नमः
।
ओं
परतराय
नमः
।
ओं
पुण्यकीर्तये
नमः
।
ओं
पुरातनाय
नमः
।
ओं
प्रसन्नरूपाय
नमः
।
ओं
प्राणेशाय
नमः
।
520
ओं
पन्नगाय
नमः
।
ओं
पापनाशनाय
नमः
।
ओं
प्रणतार्तिहराय
नमः
।
ओं
पूर्णाय
नमः
।
ओं
पार्वतीनन्दनाय
नमः
।
ओं
प्रभवे
नमः
।
ओं
पूतात्मने
नमः
।
ओं
पुरुषाय
नमः
।
ओं
प्राणाय
नमः
।
ओं
प्रभवाय
नमः
।
ओं
पुरुषोत्तमाय
नमः
।
ओं
प्रसन्नाय
नमः
।
ओं
परमस्पष्टाय
नमः
।
ओं
पराय
नमः
।
ओं
परिबृढाय
नमः
।
ओं
पराय
नमः
।
ओं
परमात्मने
नमः
।
ओं
परब्रह्मणे
नमः
।
ओं
परार्थाय
नमः
।
ओं
प्रियदर्शनाय
नमः
।
540
ओं
पवित्राय
नमः
।
ओं
पुष्टिदाय
नमः
।
ओं
पूर्तये
नमः
।
ओं
पिङ्गलाय
नमः
।
ओं
पुष्टिवर्धनाय
नमः
।
ओं
पापहारिणे
नमः
।
ओं
पाशधराय
नमः
।
ओं
प्रमत्तासुरशिक्षकाय
नमः
।
ओं
पावनाय
नमः
।
ओं
पावकाय
नमः
।
ओं
पूज्याय
नमः
।
ओं
पूर्णानन्दाय
नमः
।
ओं
परात्पराय
नमः
।
ओं
पुष्कलाय
नमः
।
ओं
प्रवराय
नमः
।
ओं
पूर्वस्मै
नमः
।
ओं
पितृभक्ताय
नमः
।
ओं
पुरोगमाय
नमः
।
ओं
प्राणदाय
नमः
।
ओं
प्राणिजनकाय
नमः
।
560
ओं
प्रदिष्टाय
नमः
।
ओं
पावकोद्भवाय
नमः
।
ओं
परब्रह्मस्वरूपाय
नमः
।
ओं
परमैश्वर्यकारणाय
नमः
।
ओं
परर्धिदाय
नमः
।
ओं
पुष्टिकराय
नमः
।
ओं
प्रकाशात्मने
नमः
।
ओं
प्रतापवते
नमः
।
ओं
प्रज्ञापराय
नमः
।
ओं
प्रकृष्टार्थाय
नमः
।
ओं
पृथुवे
नमः
।
ओं
पृथुपराक्रमाय
नमः
।
ओं
फणीश्वराय
नमः
।
ओं
फणिवाराय
नमः
।
ओं
फणामणिविभुषणाय
नमः
।
ओं
फलदाय
नमः
।
ओं
फलहस्ताय
नमः
।
ओं
फुल्लाम्बुजविलोचनाय
नमः
।
ओं
फडुच्चाटितपापौघाय
नमः
।
ओं
फणिलोकविभूषणाय
नमः
।
580
ओं
बाहुलेयाय
नमः
।
ओं
बृहद्रूपाय
नमः
।
ओं
बलिष्ठाय
नमः
।
ओं
बलवते
नमः
।
ओं
बलिने
नमः
।
ओं
ब्रह्मेशविष्णुरूपाय
नमः
।
ओं
बुद्धाय
नमः
।
ओं
बुद्धिमतां
वराय
नमः
।
ओं
बालरूपाय
नमः
।
ओं
ब्रह्मगर्भाय
नमः
।
ओं
ब्रह्मचारिणे
नमः
।
ओं
बुधप्रियाय
नमः
।
ओं
बहुश्रुताय
नमः
।
ओं
बहुमताय
नमः
।
ओं
ब्रह्मण्याय
नमः
।
ओं
ब्राह्मणप्रियाय
नमः
।
ओं
बलप्रमथनाय
नमः
।
ओं
ब्रह्मणे
नमः
।
ओं
बहुरूपाय
नमः
।
ओं
बहुप्रदाय
नमः
।
600
ओं
बृहद्भानुतनूद्भूताय
नमः
।
ओं
बृहत्सेनाय
नमः
।
ओं
बिलेशयाय
नमः
।
ओं
बहुबाहवे
नमः
।
ओं
बलश्रीमते
नमः
।
ओं
बहुदैत्यविनाशकाय
नमः
।
ओं
बिलद्वारान्तरालस्थाय
नमः
।
ओं
बृहच्छक्तिधनुर्धराय
नमः
।
ओं
बालार्कद्युतिमते
नमः
।
ओं
बालाय
नमः
।
ओं
बृहद्वक्षसे
नमः
।
ओं
बृहद्धनुषे
नमः
।
ओं
भव्याय
नमः
।
ओं
भोगीश्वराय
नमः
।
ओं
भाव्याय
नमः
।
ओं
भवनाशाय
नमः
।
ओं
भवप्रियाय
नमः
।
ओं
भक्तिगम्याय
नमः
।
ओं
भयहराय
नमः
।
ओं
भावज्ञाय
नमः
।
620
ओं
भक्तसुप्रियाय
नमः
।
ओं
भुक्तिमुक्तिप्रदाय
नमः
।
ओं
भोगिने
नमः
।
ओं
भगवते
नमः
।
ओं
भाग्यवर्धनाय
नमः
।
ओं
भ्राजिष्णवे
नमः
।
ओं
भावनाय
नमः
।
ओं
भर्त्रे
नमः
।
ओं
भीमाय
नमः
।
ओं
भीमपराक्रमाय
नमः
।
ओं
भूतिदाय
नमः
।
ओं
भूतिकृते
नमः
।
ओं
भोक्त्रे
नमः
।
ओं
भूतात्मने
नमः
।
ओं
भुवनेश्वराय
नमः
।
ओं
भावकाय
नमः
।
ओं
भीकराय
नमः
।
ओं
भीष्माय
नमः
।
ओं
भावकेष्टाय
नमः
।
ओं
भवोद्भवाय
नमः
।
640
ओं
भवतापप्रशमनाय
नमः
।
ओं
भोगवते
नमः
।
ओं
भूतभावनाय
नमः
।
ओं
भोज्यप्रदाय
नमः
।
ओं
भ्रान्तिनाशाय
नमः
।
ओं
भानुमते
नमः
।
ओं
भुवनाश्रयाय
नमः
।
ओं
भूरिभोगप्रदाय
नमः
।
ओं
भद्राय
नमः
।
ओं
भजनीयाय
नमः
।
ओं
भिषग्वराय
नमः
।
ओं
महासेनाय
नमः
।
ओं
महोदराय
नमः
।
ओं
महाशक्तये
नमः
।
ओं
महाद्युतये
नमः
।
ओं
महाबुद्धये
नमः
।
ओं
महावीर्याय
नमः
।
ओं
महोत्साहाय
नमः
।
ओं
महाबलाय
नमः
।
ओं
महाभोगिने
नमः
।
660
ओं
महामायिने
नमः
।
ओं
मेधाविने
नमः
।
ओं
मेखलिने
नमः
।
ओं
महते
नमः
।
ओं
मुनिस्तुताय
नमः
।
ओं
महामान्याय
नमः
।
ओं
महानन्दाय
नमः
।
ओं
महायशसे
नमः
।
ओं
महोर्जिताय
नमः
।
ओं
माननिधये
नमः
।
ओं
मनोरथफलप्रदाय
नमः
।
ओं
महोदयाय
नमः
।
ओं
महापुण्याय
नमः
।
ओं
महाबलपराक्रमाय
नमः
।
ओं
मानदाय
नमः
।
ओं
मतिदाय
नमः
।
ओं
मालिने
नमः
।
ओं
मुक्तामालाविभूषणाय
नमः
।
ओं
मनोहराय
नमः
।
ओं
महामुख्याय
नमः
।
680
ओं
महर्धये
नमः
।
ओं
मूर्तिमते
नमः
।
ओं
मुनये
नमः
।
ओं
महोत्तमाय
नमः
।
ओं
महोपायाय
नमः
।
ओं
मोक्षदाय
नमः
।
ओं
मङ्गलप्रदाय
नमः
।
ओं
मुदाकराय
नमः
।
ओं
मुक्तिदात्रे
नमः
।
ओं
महाभोगाय
नमः
।
ओं
महोरगाय
नमः
।
ओं
यशस्कराय
नमः
।
ओं
योगयोनये
नमः
।
ओं
योगिष्ठाय
नमः
।
ओं
यमिनां
वराय
नमः
।
ओं
यशस्विने
नमः
।
ओं
योगपुरुषाय
नमः
।
ओं
योग्याय
नमः
।
ओं
योगनिधये
नमः
।
ओं
यमिने
नमः
।
700
ओं
यतिसेव्याय
नमः
।
ओं
योगयुक्ताय
नमः
।
ओं
योगविदे
नमः
।
ओं
योगसिद्धिदाय
नमः
।
ओं
यन्त्राय
नमः
।
ओं
यन्त्रिणे
नमः
।
ओं
यन्त्रज्ञाय
नमः
।
ओं
यन्त्रवते
नमः
।
ओं
यन्त्रवाहकाय
नमः
।
ओं
यातनारहिताय
नमः
।
ओं
योगिने
नमः
।
ओं
योगीशाय
नमः
।
ओं
योगिनां
वराय
नमः
।
ओं
रमणीयाय
नमः
।
ओं
रम्यरूपाय
नमः
।
ओं
रसज्ञाय
नमः
।
ओं
रसभावनाय
नमः
।
ओं
रञ्जनाय
नमः
।
ओं
रञ्जिताय
नमः
।
ओं
रागिणे
नमः
।
720
ओं
रुचिराय
नमः
।
ओं
रुद्रसम्भवाय
नमः
।
ओं
रणप्रियाय
नमः
।
ओं
रणोदाराय
नमः
।
ओं
रागद्वेषविनाशनाय
नमः
।
ओं
रत्नार्चिषे
नमः
।
ओं
रुचिराय
नमः
।
ओं
रम्याय
नमः
।
ओं
रूपलावण्यविग्रहाय
नमः
।
ओं
रत्नाङ्गदधराय
नमः
।
ओं
रत्नभूषणाय
नमः
।
ओं
रमणीयकाय
नमः
।
ओं
रुचिकृते
नमः
।
ओं
रोचमानाय
नमः
।
ओं
रञ्जिताय
नमः
।
ओं
रोगनाशनाय
नमः
।
ओं
राजीवाक्षाय
नमः
।
ओं
राजराजाय
नमः
।
ओं
रक्तमाल्यानुलेपनाय
नमः
।
ओं
राजद्वेदागमस्तुत्याय
नमः
।
740
ओं
रजःसत्त्वगुणान्विताय
नमः
।
ओं
रजनीशकलारम्याय
नमः
।
ओं
रत्नकुण्डलमण्डिताय
नमः
।
ओं
रत्नसन्मौलिशोभाढ्याय
नमः
।
ओं
रणन्मञ्जीरभूषणाय
नमः
।
ओं
लोकैकनाथाय
नमः
।
ओं
लोकेशाय
नमः
।
ओं
ललिताय
नमः
।
ओं
लोकनायकाय
नमः
।
ओं
लोकरक्षाय
नमः
।
ओं
लोकशिक्षाय
नमः
।
ओं
लोकलोचनरञ्जिताय
नमः
।
ओं
लोकबन्धवे
नमः
।
ओं
लोकधात्रे
नमः
।
ओं
लोकत्रयमहाहिताय
नमः
।
ओं
लोकचूडामणये
नमः
।
ओं
लोकवन्द्याय
नमः
।
ओं
लावण्यविग्रहाय
नमः
।
ओं
लोकाध्यक्षाय
नमः
।
ओं
लीलावते
नमः
।
760
ओं
लोकोत्तरगुणान्विताय
नमः
।
ओं
वरिष्ठाय
नमः
।
ओं
वरदाय
नमः
।
ओं
वैद्याय
नमः
।
ओं
विशिष्टाय
नमः
।
ओं
विक्रमाय
नमः
।
ओं
विभवे
नमः
।
ओं
विबुधाग्रचराय
नमः
।
ओं
वश्याय
नमः
।
ओं
विकल्पपरिवर्जिताय
नमः
।
ओं
विपाशाय
नमः
।
ओं
विगतातङ्काय
नमः
।
ओं
विचित्राङ्गाय
नमः
।
ओं
विरोचनाय
नमः
।
ओं
विद्याधराय
नमः
।
ओं
विशुद्धात्मने
नमः
।
ओं
वेदाङ्गाय
नमः
।
ओं
विबुधप्रियाय
नमः
।
ओं
वचस्कराय
नमः
।
ओं
व्यापकाय
नमः
।
780
ओं
विज्ञानिने
नमः
।
ओं
विनयान्विताय
नमः
।
ओं
विद्वत्तमाय
नमः
।
ओं
विरोधिघ्नाय
नमः
।
ओं
वीराय
नमः
।
ओं
विगतरागवते
नमः
।
ओं
वीतभावाय
नमः
।
ओं
विनीतात्मने
नमः
।
ओं
वेदगर्भाय
नमः
।
ओं
वसुप्रदाय
नमः
।
ओं
विश्वदीप्तये
नमः
।
ओं
विशालाक्षाय
नमः
।
ओं
विजितात्मने
नमः
।
ओं
विभावनाय
नमः
।
ओं
वेदवेद्याय
नमः
।
ओं
विधेयात्मने
नमः
।
ओं
वीतदोषाय
नमः
।
ओं
वेदविदे
नमः
।
ओं
विश्वकर्मणे
नमः
।
ओं
वीतभयाय
नमः
।
800
ओं
वागीशाय
नमः
।
ओं
वासवार्चिताय
नमः
।
ओं
वीरध्वंसाय
नमः
।
ओं
विश्वमूर्तये
नमः
।
ओं
विश्वरूपाय
नमः
।
ओं
वरासनाय
नमः
।
ओं
विशाखाय
नमः
।
ओं
विमलाय
नमः
।
ओं
वाग्मिने
नमः
।
ओं
विदुषे
नमः
।
ओं
वेदधराय
नमः
।
ओं
वटवे
नमः
।
ओं
वीरचूडामणये
नमः
।
ओं
वीराय
नमः
।
ओं
विद्येशाय
नमः
।
ओं
विबुधाश्रयाय
नमः
।
ओं
विजयिने
नमः
।
ओं
विनयिने
नमः
।
ओं
वेत्रे
नमः
।
ओं
वरीयसे
नमः
।
820
ओं
विरजसे
नमः
।
ओं
वसवे
नमः
।
ओं
वीरघ्नाय
नमः
।
ओं
विज्वराय
नमः
।
ओं
वेद्याय
नमः
।
ओं
वेगवते
नमः
।
ओं
वीर्यवते
नमः
।
ओं
वशिने
नमः
।
ओं
वरशीलाय
नमः
।
ओं
वरगुणाय
नमः
।
ओं
विशोकाय
नमः
।
ओं
वज्रधारकाय
नमः
।
ओं
शरजन्मने
नमः
।
ओं
शक्तिधराय
नमः
।
ओं
शत्रुघ्नाय
नमः
।
ओं
शिखिवाहनाय
नमः
।
ओं
श्रीमते
नमः
।
ओं
शिष्टाय
नमः
।
ओं
शुचये
नमः
।
ओं
शुद्धाय
नमः
।
840
ओं
शाश्वताय
नमः
।
ओं
श्रुतिसागराय
नमः
।
ओं
शरण्याय
नमः
।
ओं
शुभदाय
नमः
।
ओं
शर्मणे
नमः
।
ओं
शिष्टेष्टाय
नमः
।
ओं
शुभलक्षणाय
नमः
।
ओं
शान्ताय
नमः
।
ओं
शूलधराय
नमः
।
ओं
श्रेष्ठाय
नमः
।
ओं
शुद्धात्मने
नमः
।
ओं
शङ्कराय
नमः
।
ओं
शिवाय
नमः
।
ओं
शितिकण्ठात्मजाय
नमः
।
ओं
शूराय
नमः
।
ओं
शान्तिदाय
नमः
।
ओं
शोकनाशनाय
नमः
।
ओं
षाण्मातुराय
नमः
।
ओं
षण्मुखाय
नमः
।
ओं
षड्गुणैश्वर्यसंयुताय
नमः
।
860
ओं
षट्चक्रस्थाय
नमः
।
ओं
षडूर्मिघ्नाय
नमः
।
ओं
षडङ्गश्रुतिपारगाय
नमः
।
ओं
षड्भावरहिताय
नमः
।
ओं
षट्काय
नमः
।
ओं
षट्छास्त्रस्मृतिपारगाय
नमः
।
ओं
षड्वर्गदात्रे
नमः
।
ओं
षड्ग्रीवाय
नमः
।
ओं
षडरिघ्नाय
नमः
।
ओं
षडाश्रयाय
नमः
।
ओं
षट्किरीटधराय
श्रीमते
नमः
।
ओं
षडाधाराय
नमः
।
ओं
षट्क्रमाय
नमः
।
ओं
षट्कोणमध्यनिलयाय
नमः
।
ओं
षण्डत्वपरिहारकाय
नमः
।
ओं
सेनान्ये
नमः
।
ओं
सुभगाय
नमः
।
ओं
स्कन्दाय
नमः
।
ओं
सुरानन्दाय
नमः
।
ओं
सतां
गतये
नमः
।
880
ओं
सुब्रह्मण्याय
नमः
।
ओं
सुराध्यक्षाय
नमः
।
ओं
सर्वज्ञाय
नमः
।
ओं
सर्वदाय
नमः
।
ओं
सुखिने
नमः
।
ओं
सुलभाय
नमः
।
ओं
सिद्धिदाय
नमः
।
ओं
सौम्याय
नमः
।
ओं
सिद्धेशाय
नमः
।
ओं
सिद्धिसाधनाय
नमः
।
ओं
सिद्धार्थाय
नमः
।
ओं
सिद्धसङ्कल्पाय
नमः
।
ओं
सिद्धसाधवे
नमः
।
ओं
सुरेश्वराय
नमः
।
ओं
सुभुजाय
नमः
।
ओं
सर्वदृशे
नमः
।
ओं
साक्षिणे
नमः
।
ओं
सुप्रसादाय
नमः
।
ओं
सनातनाय
नमः
।
ओं
सुधापतये
नमः
।
900
ओं
स्वयंज्योतिषे
नमः
।
ओं
स्वयंभुवे
नमः
।
ओं
सर्वतोमुखाय
नमः
।
ओं
समर्थाय
नमः
।
ओं
सत्कृतये
नमः
।
ओं
सूक्ष्माय
नमः
।
ओं
सुघोषाय
नमः
।
ओं
सुखदाय
नमः
।
ओं
सुहृदे
नमः
।
ओं
सुप्रसन्नाय
नमः
।
ओं
सुरश्रेष्ठाय
नमः
।
ओं
सुशीलाय
नमः
।
ओं
सत्यसाधकाय
नमः
।
ओं
सम्भाव्याय
नमः
।
ओं
सुमनसे
नमः
।
ओं
सेव्याय
नमः
।
ओं
सकलागमपारगाय
नमः
।
ओं
सुव्यक्ताय
नमः
।
ओं
सच्चिदानन्दाय
नमः
।
ओं
सुवीराय
नमः
।
920
ओं
सुजनाश्रयाय
नमः
।
ओं
सर्वलक्षणसम्पन्नाय
नमः
।
ओं
सत्यधर्मपरायणाय
नमः
।
ओं
सर्वदेवमयाय
नमः
।
ओं
सत्याय
नमः
।
ओं
सदामृष्टान्नदायकाय
नमः
।
ओं
सुधापिने
नमः
।
ओं
सुमतये
नमः
।
ओं
सत्याय
नमः
।
ओं
सर्वविघ्नविनाशनाय
नमः
।
ओं
सर्वदुःखप्रशमनाय
नमः
।
ओं
सुकुमाराय
नमः
।
ओं
सुलोचनाय
नमः
।
ओं
सुग्रीवाय
नमः
।
ओं
सुधृतये
नमः
।
ओं
साराय
नमः
।
ओं
सुराराध्याय
नमः
।
ओं
सुविक्रमाय
नमः
।
ओं
सुरारिघ्नाय
नमः
।
ओं
स्वर्णवर्णाय
नमः
।
940
ओं
सर्पराजाय
नमः
।
ओं
सदाशुचये
नमः
।
ओं
सप्तार्चिर्भुवे
नमः
।
ओं
सुरवराय
नमः
।
ओं
सर्वायुधविशारदाय
नमः
।
ओं
हस्तिचर्माम्बरसुताय
नमः
।
ओं
हस्तिवाहनसेविताय
नमः
।
ओं
हस्तचित्रायुधधराय
नमः
।
ओं
हृताघाय
नमः
।
ओं
हसिताननाय
नमः
।
ओं
हेमभूषाय
नमः
।
ओं
हरिद्वर्णाय
नमः
।
ओं
हृष्टिदाय
नमः
।
ओं
हृष्टिवर्धनाय
नमः
।
ओं
हेमाद्रिभिदे
नमः
।
ओं
हंसरूपाय
नमः
।
ओं
हुङ्कारहतकिल्बिषाय
नमः
।
ओं
हिमाद्रिजातातनुजाय
नमः
।
ओं
हरिकेशाय
नमः
।
ओं
हिरण्मयाय
नमः
।
960
ओं
हृद्याय
नमः
।
ओं
हृष्टाय
नमः
।
ओं
हरिसखाय
नमः
।
ओं
हंसाय
नमः
।
ओं
हंसगतये
नमः
।
ओं
हविषे
नमः
।
ओं
हिरण्यवर्णाय
नमः
।
ओं
हितकृते
नमः
।
ओं
हर्षदाय
नमः
।
ओं
हेमभूषणाय
नमः
।
ओं
हरप्रियाय
नमः
।
ओं
हितकराय
नमः
।
ओं
हतपापाय
नमः
।
ओं
हरोद्भवाय
नमः
।
ओं
क्षेमदाय
नमः
।
ओं
क्षेमकृते
नमः
।
ओं
क्षेम्याय
नमः
।
ओं
क्षेत्रज्ञाय
नमः
।
ओं
क्षामवर्जिताय
नमः
।
ओं
क्षेत्रपालाय
नमः
।
980
ओं
क्षमाधाराय
नमः
।
ओं
क्षेमक्षेत्राय
नमः
।
ओं
क्षमाकराय
नमः
।
ओं
क्षुद्रघ्नाय
नमः
।
ओं
क्षान्तिदाय
नमः
।
ओं
क्षेमाय
नमः
।
ओं
क्षितिभूषाय
नमः
।
ओं
क्षमाश्रयाय
नमः
।
ओं
क्षालिताघाय
नमः
।
ओं
क्षितिधराय
नमः
।
ओं
क्षीणसंरक्षणक्षमाय
नमः
।
ओं
क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय
नमः
।
ओं
क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय
नमः
।
ओं
क्षताहिताय
नमः
।
ओं
क्षराय
नमः
।
ओं
क्षन्त्रे
नमः
।
ओं
क्षतदोषाय
नमः
।
ओं
क्षमानिधये
नमः
।
ओं
क्षपिताखिलसन्तापाय
नमः
।
ओं
क्षपानाथसमाननाय
नमः
।
1000
इति
श्री
सुब्रह्मण्य
सहस्रनामावलिः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits