Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सुब्रह्मण्य मङ्गलाष्टकम्

शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम् 1 भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने राजराजादिवन्द्याय रणधीराय मङ्गलम् 2 शूरपद्मादिदैतेयतमिस्रकुलभानवे तारकासुरकालाय बालकायास्तु मङ्गलम् 3 वल्लीवदनराजीव मधुपाय महात्मने उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम् 4 कन्दर्पकोटिलावण्यनिधये कामदायिने कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम् 5 मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने देवसेनासमेताय दैवतायास्तु मङ्गलम् 6 कनकाम्बरसंशोभिकटये कलिहारिणे कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम् 7 शरकाननजाताय शूराय शुभदायिने शीतभानुसमास्याय शरण्यायास्तु मङ्गलम् 8 मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम् 9 इति श्री सुब्रह्मण्य मङ्गलाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits