ओं स्कन्दाय नमः
ओं गुहाय नमः
ओं षण्मुखाय नमः
ओं फालनेत्रसुताय नमः
ओं प्रभवे नमः
ओं पिङ्गलाय नमः
ओं कृत्तिकासूनवे नमः
ओं शिखिवाहाय नमः
ओं द्विषड्भुजाय नमः
ओं द्विषण्णेत्राय नमः । 10
ओं शक्तिधराय नमः
ओं पिशिताश प्रभञ्जनाय नमः
ओं तारकासुर संहारिणे नमः
ओं रक्षोबलविमर्दनाय नमः
ओं मत्ताय नमः
ओं प्रमत्ताय नमः
ओं उन्मत्ताय नमः
ओं सुरसैन्य सुरक्षकाय नमः
ओं देवसेनापतये नमः
ओं प्राज्ञाय नमः । 20
ओं कृपालवे नमः
ओं भक्तवत्सलाय नमः
ओं उमासुताय नमः
ओं शक्तिधराय नमः
ओं कुमाराय नमः
ओं क्रौञ्चदारणाय नमः
ओं सेनान्ये नमः
ओं अग्निजन्मने नमः
ओं विशाखाय नमः
ओं शङ्करात्मजाय नमः । 30
ओं शिवस्वामिने नमः
ओं गण स्वामिने नमः
ओं सर्वस्वामिने नमः
ओं सनातनाय नमः
ओं अनन्तशक्तये नमः
ओं अक्षोभ्याय नमः
ओं पार्वतीप्रियनन्दनाय नमः
ओं गङ्गासुताय नमः
ओं शरोद्भूताय नमः
ओं आहूताय नमः । 40
ओं पावकात्मजाय नमः
ओं जृम्भाय नमः
ओं प्रजृम्भाय नमः
ओं उज्जृम्भाय नमः
ओं कमलासन संस्तुताय नमः
ओं एकवर्णाय नमः
ओं द्विवर्णाय नमः
ओं त्रिवर्णाय नमः
ओं सुमनोहराय नमः
ओं चतुर्वर्णाय नमः । 50
ओं पञ्चवर्णाय नमः
ओं प्रजापतये नमः
ओं अहस्पतये नमः
ओं अग्निगर्भाय नमः
ओं शमीगर्भाय नमः
ओं विश्वरेतसे नमः
ओं सुरारिघ्ने नमः
ओं हरिद्वर्णाय नमः
ओं शुभकराय नमः
ओं पटवे नमः । 60
ओं वटुवेषभृते नमः
ओं पूष्णे नमः
ओं गभस्तये नमः
ओं गहनाय नमः
ओं चन्द्रवर्णाय नमः
ओं कलाधराय नमः
ओं मायाधराय नमः
ओं महामायिने नमः
ओं कैवल्याय नमः
ओं शङ्करात्मजाय नमः । 70
ओं विश्वयोनये नमः
ओं अमेयात्मने नमः
ओं तेजोनिधये नमः
ओं अनामयाय नमः
ओं परमेष्ठिने नमः
ओं परस्मै ब्रह्मणे नमः
ओं वेदगर्भाय नमः
ओं विराट्सुताय नमः
ओं पुलिन्दकन्याभर्त्रे नमः
ओं महासारस्वतावृताय नमः । 80
ओं आश्रिताखिलदात्रे नमः
ओं चोरघ्नाय नमः
ओं रोगनाशनाय नमः
ओं अनन्तमूर्तये नमः
ओं आनन्दाय नमः
ओं शिखिण्डिकृत केतनाय नमः
ओं डम्भाय नमः
ओं परमडम्भाय नमः
ओं महाडम्भाय नमः
ओं वृषाकपये नमः । 90
ओं कारणोपात्तदेहाय नमः
ओं कारणातीतविग्रहाय नमः
ओं अनीश्वराय नमः
ओं अमृताय नमः
ओं प्राणाय नमः
ओं प्राणायामपरायणाय नमः
ओं विरुद्धहन्त्रे नमः
ओं वीरघ्नाय नमः
ओं रक्तश्यामगलाय नमः
ओं सुब्रह्मण्याय नमः । 100
ओं गुहाय नमः
ओं प्रीताय नमः
ओं ब्राह्मण्याय नमः
ओं ब्राह्मणप्रियाय नमः
ओं वंशवृद्धिकराय नमः
ओं वेदाय नमः
ओं वेद्याय नमः
ओं अक्षयफलप्रदाय नमः । 108
इति श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः समाप्ता