Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

षण्मुख दण्डकम्

श्रीपार्वतीपुत्र, मां पाहि वल्लीश, त्वत्पादपङ्केज सेवारतोऽहं, त्वदीयां नुतिं देवभाषागतां कर्तुमारब्धवानस्मि, सङ्कल्पसिद्धिं कृतार्थं कुरु त्वम् भजे त्वां सदानन्दरूपं, महानन्ददातारमाद्यं, परेशं, कलत्रोल्लसत्पार्श्वयुग्मं, वरेण्यं, विरूपाक्षपुत्रं, सुराराध्यमीशं, रवीन्द्वग्निनेत्रं, द्विषड्बाहु संशोभितं, नारदागस्त्यकण्वात्रिजाबालिवाल्मीकिव्यासादि सङ्कीर्तितं, देवराट्पुत्रिकालिङ्गिताङ्गं, वियद्वाहिनीनन्दनं, विष्णुरूपं, महोग्रं, उदग्रं, सुतीक्षं, महादेववक्त्राब्जभानुं, पदाम्भोजसेवा समायात भक्तालि संरक्षणायत्त चित्तं, उमा शर्व गङ्गाग्नि षट्कृत्तिका विष्णु ब्रह्मेन्द्र दिक्पाल सम्पूतसद्यत्न निर्वर्तितोत्कृष्ट सुश्रीतपोयज्ञ संलब्धरूपं, मयूराधिरूढं, भवाम्भोधिपोतं, गुहं वारिजाक्षं, गुरुं सर्वरूपं, नतानां शरण्यं, बुधानां वरेण्यं, सुविज्ञानवेद्यं, परं, पारहीनं, पराशक्तिपुत्रं, जगज्जाल निर्माण सम्पालनाहार्यकारं, सुराणां वरं, सुस्थिरं, सुन्दराङ्गं, स्वभाक्तान्तरङ्गाब्ज सञ्चारशीलं, सुसौन्दर्यगाम्भीर्य सुस्थैर्ययुक्तं, द्विषड्बाहु सङ्ख्यायुध श्रेणिरम्यं, महान्तं, महापापदावाग्नि मेघं, अमोघं, प्रसन्नं, अचिन्त्य प्रभावं, सुपूजा सुतृप्तं, नमल्लोक कल्पं, अखण्ड स्वरूपं, सुतेजोमयं, दिव्यदेहं, भवध्वान्तनाशायसूर्यं, दरोन्मीलिताम्भोजनेत्रं, सुरानीक सम्पूजितं, लोकशस्तं, सुहस्ताधृतानेकशस्त्रं, निरालम्बमाभासमात्रं शिखामध्यवासं, परं धाममाद्यन्तहीनं, समस्ताघहारं, सदानन्ददं, सर्वसम्पत्प्रदं, सर्वरोगापहं, भक्तकार्यार्थसम्पादकं, शक्तिहस्तं, सुतारुण्यलावण्यकारुण्यरूपं, सहस्रार्क सङ्काश सौवर्णहारालि संशोभितं, षण्मुखं, कुण्डलानां विराजत्सुकान्त्यं चित्तेर्गण्डभागैः सुसंशोभितं, भक्तपालं, भवानीसुतं, देवमीशं, कृपावारिकल्लोल भास्वत्कटाक्षं, भजे शर्वपुत्रं, भजे कार्तिकेयं, भजे पार्वतेयं, भजे पापनाशं, भजे बाहुलेयं, भजे साधुपालं, भजे सर्परूपं, भजे भक्तिलभ्यं, भजे रत्नभूषं, भजे तारकारिं, दरस्मेरवक्त्रं, शिखिस्थं, सुरूपं, कटिन्यस्त हस्तं, कुमारं, भजेऽहं महादेव, संसारपङ्काब्धि सम्मग्नमज्ञानिनं पापभूयिष्ठमार्गे चरं पापशीलं, पवित्रं कुरु त्वं प्रभो, त्वत्कृपावीक्षणैर्मां प्रसीद, प्रसीद प्रपन्नार्तिहाराय संसिद्ध, मां पाहि वल्लीश, श्रीदेवसेनेश, तुभ्यं नमो देव, देवेश, सर्वेश, सर्वात्मकं, सर्वरूपं, परं त्वां भजेऽहं भजेऽहं भजेऽहम् इति श्री षण्मुख दण्डकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits