Haindavam Logo - Lord Ganesha
हैंदवम्
📍
Font Size:

श्री राम हृदयम्

श्री महादेव उवाच – ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम् । शऋणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ 1 ॥ आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि । प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ 2 ॥ बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् । आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ 3 ॥ साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि । साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः ॥ 4 ॥ आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः ॥ 5 ॥ अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपद्यते । तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ 6 ॥ ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः । तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ 7 ॥ एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ 8 ॥ इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ । मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ 9 ॥ ॥ इति श्री राम हृदयम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits