Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री रामचन्द्र स्तुतिः

नमामि भक्तवत्सलं कृपालु शीलकोमलं भजामि ते पदाम्बुजं ह्यकामिनां स्वधामदम् निकामश्यामसुन्दरं भवाम्बुवार्धिमन्दरं प्रफुल्लकञ्जलोचनं मदादिदोषमोचनम् 1 प्रलम्बबाहुविक्रमं प्रभोऽप्रमेयवैभवं निषङ्गचापसायकं धरं त्रिलोकनायकम् दिनेशवंशमण्डनं महेशचापखण्डनं मुनीन्द्रचित्तरञ्जनं सुरारिबृन्दभञ्जनम् 2 मनोजवैरिवन्दितं ह्यजादिदेवसेवितं विशुद्धबोधविग्रहं समस्तदूषणापहम् नमामि जानकीपतिं सुखाकरं सतां गतिं भजे सशक्तिसानुजं शचीपतिप्रियानुजम् 3 त्वदङ्घ्रिसीम ये नरा भजन्ति हीनमत्सराः पतन्ति नो भवार्णवे वितर्कवीचिसङ्कुले विविक्तवासिनः सदा भजन्ति मुक्तये मुदा निरस्य हीन्द्रियादिकं प्रयान्ति ते गतिं स्वकम् 4 त्वमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगद्गुरुं शाश्वतं तुरीयमेव केवलम् भजामि भाववल्लभं सुयोगिनां सुदुर्लभं स्वभक्तकल्पपादपं समस्तसेव्यमन्वहम् 5 अनूपरूपभूपतिं नतोऽहमुर्विजापतिं प्रसीद मे नमामि ते पदाब्जभक्ति देहि मे पठन्ति ये स्तवं त्विदं सदादरेण ते पदं व्रजन्ति नात्र संशयं त्वदीय भक्तिसम्युताः 6 इति श्रीरामचन्द्र स्तुतिः

Recite with devotion and pure heart

Regular practice brings spiritual benefits