हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सङ्क्षेप रामायणम्
श्रीमद्वाल्मीकीय
रामायणे
बालकाण्डम्
।
अथ
प्रथमस्सर्गः
।
तपस्स्वाध्यायनिरतं
तपस्वी
वाग्विदां
वरम्
।
नारदं
परिपप्रच्छ
वाल्मीकिर्मुनिपुङ्गवम्
॥
1
॥
कोऽन्वस्मिन्साम्प्रतं
लोके
गुणवान्
कश्च
वीर्यवान्
।
धर्मज्ञश्च
कृतज्ञश्च
सत्यवाक्यो
दृढव्रतः
॥
2
॥
चारित्रेण
च
को
युक्तः
सर्वभूतेषु
को
हितः
।
विद्वान्
कः
कः
समर्थश्च
कश्चैकप्रियदर्शनः
॥
3
॥
आत्मवान्
को
जितक्रोधो
द्युतिमान्
कोऽनसूयकः
।
कस्य
बिभ्यति
देवाश्च
जातरोषस्य
संयुगे
॥
4
॥
एतदिच्छाम्यहं
श्रोतुं
परं
कौतूहलं
हि
मे
।
महर्षे
त्वं
समर्थोऽसि
ज्ञातुमेवंविधं
नरम्
॥
5
॥
श्रुत्वा
चैतत्त्रिलोकज्ञो
वाल्मीकेर्नारदो
वचः
।
श्रूयतामिति
चामन्त्र्य
प्रहृष्टो
वाक्यमब्रवीत्
॥
6
॥
बहवो
दुर्लभाश्चैव
ये
त्वया
कीर्तिता
गुणाः
।
मुने
वक्ष्याम्यहं
बुद्ध्वा
तैर्युक्तः
श्रूयतां
नरः
॥
7
॥
इक्ष्वाकुवंशप्रभवो
रामो
नाम
जनैः
श्रुतः
।
नियतात्मा
महावीर्यो
द्युतिमान्
धृतिमान्
वशी
॥
8
॥
बुद्धिमान्
नीतिमान्
वाग्मी
श्रीमान्
शत्रुनिबर्हणः
।
विपुलांसो
महाबाहुः
कम्बुग्रीवो
महाहनुः
॥
9
॥
महोरस्को
महेष्वासो
गूढजत्रुररिन्दमः
।
आजानुबाहुः
सुशिराः
सुललाटः
सुविक्रमः
॥
10
॥
समः
समविभक्ताङ्गः
स्निग्धवर्णः
प्रतापवान्
।
पीनवक्षा
विशालाक्षो
लक्ष्मीवान्
शुभलक्षणः
॥
11
॥
धर्मज्ञः
सत्यसन्धश्च
प्रजानां
च
हिते
रतः
।
यशस्वी
ज्ञानसम्पन्नः
शुचिर्वश्यः
समाधिमान्
॥
12
॥
प्रजापतिसमः
श्रीमान्
धाता
रिपुनिषूदनः
।
रक्षिता
जीवलोकस्य
धर्मस्य
परिरक्षिता
॥
13
॥
रक्षिता
स्वस्य
धर्मस्य
स्वजनस्य
च
रक्षिता
।
वेदवेदाङ्गतत्त्वज्ञो
धनुर्वेदे
च
निष्ठितः
॥
14
॥
सर्वशास्त्रार्थतत्त्वज्ञो
स्मृतिमान्प्रतिभानवान्
।
सर्वलोकप्रियः
साधुरदीनात्मा
विचक्षणः
॥
15
॥
सर्वदाभिगतः
सद्भिः
समुद्र
इव
सिन्धुभिः
।
आर्यः
सर्वसमश्चैव
सदैकप्रियदर्शनः
॥
16
॥
स
च
सर्वगुणोपेतः
कौसल्यानन्दवर्धनः
।
समुद्र
इव
गाम्भीर्ये
धैर्येण
हिमवानिव
॥
17
॥
विष्णुना
सदृशो
वीर्ये
सोमवत्प्रियदर्शनः
।
कालाग्निसदृशः
क्रोधे
क्षमया
पृथिवीसमः
॥
18
॥
धनदेन
समस्त्यागे
सत्ये
धर्म
इवापरः
।
तमेवं
गुणसम्पन्नं
रामं
सत्यपराक्रमम्
॥
19
॥
ज्येष्ठं
श्रेष्ठगुणैर्युक्तं
प्रियं
दशरथः
सुतम्
।
प्रकृतीनां
हितैर्युक्तं
प्रकृति
प्रिय
काम्यया
॥
20
॥
यौवराज्येन
संयोक्तुमैच्छत्प्रीत्या
महीपतिः
।
तस्याभिषेकसम्भारान्
दृष्ट्वा
भार्याऽथ
कैकयी
॥
21
॥
पूर्वं
दत्तवरा
देवी
वरमेनमयाचत
।
विवासनं
च
रामस्य
भरतस्याभिषेचनम्
॥
22
॥
स
सत्यवचनाद्राजा
धर्मपाशेन
संयतः
।
विवासयामास
सुतं
रामं
दशरथः
प्रियम्
॥
23
॥
स
जगाम
वनं
वीरः
प्रतिज्ञामनुपालयन्
।
पितुर्वचननिर्देशात्कैकेय्याः
प्रियकारणात्
॥
24
॥
तं
व्रजन्तं
प्रियो
भ्राता
लक्ष्मणोऽनुजगाम
ह
।
स्नेहाद्विनयसम्पन्नः
सुमित्रानन्दवर्धनः
॥
25
॥
भ्रातरं
दयितो
भ्रातुः
सौभ्रात्रमनुदर्शयन्
।
रामस्य
दयिता
भार्या
नित्यं
प्राणसमाहिता
॥
26
॥
जनकस्य
कुले
जाता
देवमायेव
निर्मिता
।
सर्वलक्षणसम्पन्ना
नारीणामुत्तमा
वधूः
॥
27
॥
सीताऽप्यनुगता
रामं
शशिनं
रोहिणी
यथा
।
पौरैरनुगतो
दूरं
पित्रा
दशरथेन
च
॥
28
॥
शृङ्गिबेरपुरे
सूतं
गङ्गाकूले
व्यसर्जयत्
।
गुहमासाद्य
धर्मात्मा
निषादाधिपतिं
प्रियम्
॥
29
॥
गुहेन
सहितो
रामः
लक्ष्मणेन
च
सीतया
।
ते
वनेन
वनं
गत्वा
नदीस्तीर्त्वा
बहूदकाः
॥
30
॥
चित्रकूटमनुप्राप्य
भरद्वाजस्य
शासनात्
।
रम्यमावसथं
कृत्वा
रममाणा
वने
त्रयः
॥
31
॥
देवगन्धर्वसङ्काशास्तत्र
ते
न्यवसन्सुखम्
।
चित्रकूटं
गते
रामे
पुत्रशोकातुरस्तथा
॥
32
॥
राजा
दशरथः
स्वर्गं
जगाम
विलपन्सुतम्
।
मृते
तु
तस्मिन्भरतो
वसिष्ठप्रमुखैर्द्विजैः
॥
33
॥
नियुज्यमानो
राज्याय
नैच्छद्राज्यं
महाबलः
।
स
जगाम
वनं
वीरो
रामपादप्रसादकः
॥
34
॥
गत्वा
तु
स
महात्मानं
रामं
सत्यपराक्रमम्
।
अयाचद्भ्रातरं
रामं
आर्यभावपुरस्कृतः
॥
35
॥
त्वमेव
राजा
धर्मज्ञ
इति
रामं
वचोऽब्रवीत्
।
रामोऽपि
परमोदारः
सुमुखस्सुमहायशाः
॥
36
॥
न
चैच्छत्पितुरादेशाद्राज्यं
रामो
महाबलः
।
पादुके
चास्य
राज्याय
न्यासं
दत्त्वा
पुनः
पुनः
॥
37
॥
निवर्तयामास
ततो
भरतं
भरताग्रजः
।
स
काममनवाप्यैव
रामपादावुपस्पृशन्
॥
38
॥
नन्दिग्रामेऽकरोद्राज्यं
रामागमनकाङ्क्षया
।
गते
तु
भरते
श्रीमान्
सत्यसन्धो
जितेन्द्रियः
॥
39
॥
रामस्तु
पुनरालक्ष्य
नागरस्य
जनस्य
च
।
तत्रागमनमेकाग्रो
दण्डकान्प्रविवेश
ह
॥
40
॥
प्रविश्य
तु
महारण्यं
रामो
राजीवलोचनः
।
विराधं
राक्षसं
हत्वा
शरभङ्गं
ददर्श
ह
॥
41
॥
सुतीक्ष्णं
चाप्यगस्त्यं
च
अगस्त्यभ्रातरं
तथा
।
अगस्त्यवचनाच्चैव
जग्राहैन्द्रं
शरासनम्
॥
42
॥
खड्गं
च
परमप्रीतस्तूणी
चाक्षयसायकौ
।
वसतस्तस्य
रामस्य
वने
वनचरैः
सह
॥
43
॥
ऋषयोऽभ्यागमन्सर्वे
वधायासुररक्षसाम्
।
स
तेषां
प्रतिशुश्राव
राक्षसानां
तथा
वने
॥
44
॥
प्रतिज्ञातश्च
रामेण
वधः
संयति
रक्षसाम्
।
ऋषीणामग्निकल्पानां
दण्डकारण्यवासिनाम्
॥
45
॥
तेन
तत्रैव
वसता
जनस्थाननिवासिनी
।
विरूपिता
शूर्पणखा
राक्षसी
कामरूपिणी
॥
46
॥
ततः
शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्
।
खरं
त्रिशिरसं
चैव
दूषणं
चैव
राक्षसम्
॥
47
॥
निजघान
रणे
रामस्तेषां
चैव
पदानुगान्
।
वने
तस्मिन्निवसता
जनस्थाननिवासिनाम्
॥
48
॥
रक्षसां
निहतान्यासन्सहस्राणि
चतुर्दश
।
ततो
ज्ञातिवधं
श्रुत्वा
रावणः
क्रोधमूर्छितः
॥
49
॥
सहायं
वरयामास
मारीचं
नाम
राक्षसम्
।
वार्यमाणः
सुबहुशो
मारीचेन
स
रावणः
॥
50
॥
न
विरोधो
बलवता
क्षमो
रावण
तेन
ते
।
अनादृत्य
तु
तद्वाक्यं
रावणः
कालचोदितः
॥
51
॥
जगाम
सहमारीचः
तस्याश्रमपदं
तदा
।
तेन
मायाविना
दूरमपवाह्य
नृपात्मजौ
॥
52
॥
जहार
भार्यां
रामस्य
गृध्रं
हत्वा
जटायुषम्
।
गृध्रं
च
निहतं
दृष्ट्वा
हृतां
श्रुत्वा
च
मैथिलीम्
॥
53
॥
राघवः
शोकसन्तप्तो
विललापाकुलेन्द्रियः
।
ततस्तेनैव
शोकेन
गृध्रं
दग्ध्वा
जटायुषम्
॥
54
॥
मार्गमाणो
वने
सीतां
राक्षसं
सन्ददर्श
ह
।
कबन्धं
नाम
रूपेण
विकृतं
घोरदर्शनम्
॥
55
॥
तं
निहत्य
महाबाहुः
ददाह
स्वर्गतश्च
सः
।
स
चास्य
कथयामास
शबरीं
धर्मचारिणीम्
॥
56
॥
श्रमणीं
धर्मनिपुणामभिगच्छेति
राघवम्
।
सोऽभ्यगच्छन्महातेजाः
शबरीं
शत्रुसूदनः
॥
57
॥
शबर्या
पूजितः
सम्यग्रामो
दशरथात्मजः
।
पम्पातीरे
हनुमता
सङ्गतो
वानरेण
ह
॥
58
॥
हनुमद्वचनाच्चैव
सुग्रीवेण
समागतः
।
सुग्रीवाय
च
तत्सर्वं
शंसद्रामो
महाबलः
॥
59
॥
आदितस्तद्यथावृत्तं
सीतयाश्च
विशेषतः
।
सुग्रीवश्चापि
तत्सर्वं
श्रुत्वा
रामस्य
वानरः
॥
60
॥
चकार
सख्यं
रामेण
प्रीतश्चैवाग्निसाक्षिकम्
।
ततो
वानरराजेन
वैरानुकथनं
प्रति
॥
61
॥
रामायावेदितं
सर्वं
प्रणयाद्दुःखितेन
च
।
प्रतिज्ञातं
च
रामेण
तदा
वालिवधं
प्रति
॥
62
॥
वालिनश्च
बलं
तत्र
कथयामास
वानरः
।
सुग्रीवः
शङ्कितश्चासीन्नित्यं
वीर्येण
राघवे
॥
63
॥
राघवः
प्रत्ययार्थं
तु
दुन्दुभेः
कायमुत्तमम्
।
दर्शयामास
सुग्रीवो
महापर्वत
सन्निभम्
॥
64
॥
उत्स्मयित्वा
महाबाहुः
प्रेक्ष्य
चास्थि
महाबलः
।
पादाङ्गुष्ठेन
चिक्षेप
सम्पूर्णं
दशयोजनम्
॥
65
॥
बिभेद
च
पुनः
सालान्सप्तैकेन
महेषुणा
।
गिरिं
रसातलं
चैव
जनयन्
प्रत्ययं
तदा
॥
66
॥
ततः
प्रीतमनास्तेन
विश्वस्तः
स
महाकपिः
।
किष्किन्धां
रामसहितो
जगाम
च
गुहां
तदा
॥
67
॥
ततोऽगर्जद्धरिवरः
सुग्रीवो
हेमपिङ्गलः
।
तेन
नादेन
महता
निर्जगाम
हरीश्वरः
॥
68
॥
अनुमान्य
तदा
तारां
सुग्रीवेण
समागतः
।
निजघान
च
तत्रैनं
शरेणैकेन
राघवः
॥
69
॥
ततः
सुग्रीववचनाद्धत्वा
वालिनमाहवे
।
सुग्रीवमेव
तद्राज्ये
राघवः
प्रत्यपादयत्
॥
70
॥
स
च
सर्वान्समानीय
वानरान्वानरर्षभः
।
दिशः
प्रस्थापयामास
दिदृक्षुर्जनकात्मजाम्
॥
71
॥
ततो
गृध्रस्य
वचनात्सम्पातेर्हनुमान्बली
।
शतयोजनविस्तीर्णं
पुप्लुवे
लवणार्णवम्
॥
72
॥
तत्र
लङ्कां
समासाद्य
पुरीं
रावणपालिताम्
।
ददर्श
सीतां
ध्यायन्तीं
अशोकवनिकां
गताम्
॥
73
॥
निवेदयित्वाऽभिज्ञानं
प्रवृत्तिं
च
निवेद्य
च
।
समाश्वास्य
च
वैदेहीं
मर्दयामास
तोरणम्
॥
74
॥
पञ्च
सेनाग्रगान्हत्वा
सप्त
मन्त्रिसुतानपि
।
शूरमक्षं
च
निष्पिष्य
ग्रहणं
समुपागमत्
॥
75
॥
अस्त्रेणोन्मुक्तमात्मानं
ज्ञात्वा
पैतामहाद्वरात्
।
मर्षयन्राक्षसान्वीरो
यन्त्रिणस्तान्यदृच्छया
॥
76
॥
ततो
दग्ध्वा
पुरीं
लङ्कां
ऋते
सीतां
च
मैथिलीम्
।
रामाय
प्रियमाख्यातुं
पुनरायान्महाकपिः
॥
77
॥
सोऽभिगम्य
महात्मानं
कृत्वा
रामं
प्रदक्षिणम्
।
न्यवेदयदमेयात्मा
दृष्टा
सीतेति
तत्त्वतः
॥
78
॥
ततः
सुग्रीवसहितो
गत्वा
तीरं
महोदधेः
।
समुद्रं
क्षोभयामास
शरैरादित्यसन्निभैः
॥
79
॥
दर्शयामास
चात्मानं
समुद्रः
सरितां
पतिः
।
समुद्रवचनाच्चैव
नलं
सेतुमकारयत्
॥
80
॥
तेन
गत्वा
पुरीं
लङ्कां
हत्वा
रावणमाहवे
।
रामः
सीतामनुप्राप्य
परां
व्रीडामुपागमत्
॥
81
॥
तामुवाच
ततो
रामः
परुषं
जनसंसदि
।
अमृष्यमाणा
सा
सीता
विवेश
ज्वलनं
सती
॥
82
॥
ततोऽग्निवचनात्सीतां
ज्ञात्वा
विगतकल्मषाम्
।
बभौ
रामः
सम्प्रहृष्टः
पूजितः
सर्वदैवतैः
॥
83
॥
कर्मणा
तेन
महता
त्रैलोक्यं
सचराचरम्
।
सदेवर्षिगणं
तुष्टं
राघवस्य
महात्मनः
॥
84
॥
अभिषिच्य
च
लङ्कायां
राक्षसेन्द्रं
विभीषणम्
।
कृतकृत्यस्तदा
रामो
विज्वरः
प्रमुमोद
ह
॥
85
॥
देवताभ्यो
वरं
प्राप्य
समुत्थाप्य
च
वानरान्
।
अयोध्यां
प्रस्थितो
रामः
पुष्पकेण
सुहृद्वृतः
॥
86
॥
भरद्वाजाश्रमं
गत्वा
रामः
सत्यपराक्रमः
।
भरतस्यान्तिकं
रामो
हनूमन्तं
व्यसर्जयत्
॥
87
॥
पुनराख्यायिकां
जल्पन्सुग्रीवसहितश्च
सः
।
पुष्पकं
तत्समारुह्य
नन्दिग्रामं
ययौ
तदा
॥
88
॥
नन्दिग्रामे
जटां
हित्वा
भ्रातृभिः
सहितोऽनघः
।
रामः
सीतामनुप्राप्य
राज्यं
पुनरवाप्तवान्
॥
89
॥
प्रहृष्टमुदितो
लोकस्तुष्टः
पुष्टः
सुधार्मिकः
।
निरामयो
ह्यरोगश्च
दुर्भिक्ष
भयवर्जितः
॥
90
॥
न
पुत्रमरणं
किञ्चिद्द्रक्ष्यन्ति
पुरुषाः
क्वचित्
।
नार्यश्चाविधवा
नित्यं
भविष्यन्ति
पतिव्रताः
॥
91
॥
न
चाग्निजं
भयं
किञ्चिन्नाप्सु
मज्जन्ति
जन्तवः
।
न
वातजं
भयं
किञ्चिन्नापि
ज्वरकृतं
तथा
॥
92
॥
न
चापि
क्षुद्भयं
तत्र
न
तस्करभयं
तथा
।
नगराणि
च
राष्ट्राणि
धनधान्ययुतानि
च
॥
93
॥
नित्यं
प्रमुदिताः
सर्वे
यथा
कृतयुगे
तथा
।
अश्वमेधशतैरिष्ट्वा
तथा
बहुसुवर्णकैः
॥
94
॥
गवां
कोट्ययुतं
दत्वा
ब्रह्मलोकं
प्रयास्यति
।
असङ्ख्येयं
धनं
दत्वा
ब्राह्मणेभ्यो
महायशाः
॥
95
॥
राजवंशान्
शतगुणान्
स्थापयिष्यति
राघवः
।
चातुर्वर्ण्यं
च
लोकेऽस्मिन्
स्वे
स्वे
धर्मे
नियोक्ष्यति
॥
96
॥
दशवर्षसहस्राणि
दशवर्षशतानि
च
।
रामो
राज्यमुपासित्वा
ब्रह्मलोकं
गमिष्यति
॥
97
॥
इदं
पवित्रं
पापघ्नं
पुण्यं
वेदैश्च
सम्मितम्
।
यः
पठेद्रामचरितं
सर्वपापैः
प्रमुच्यते
॥
98
॥
एतदाख्यानमायुष्यं
पठन्रामायणं
नरः
।
सपुत्रपौत्रः
सगणः
प्रेत्य
स्वर्गे
महीयते
॥
99
॥
पठन्
द्विजो
वागृषभत्वमीयात्
स्यात्
क्षत्रियो
भूमिपतित्वमीयात्
।
वणिग्जनः
पण्यफलत्वमीयात्
जनश्च
शूद्रोऽपि
महत्त्वमीयात्
॥
100
॥
इत्यार्षे
श्रीमद्रामायणे
वाल्मीकीये
आदिकाव्ये
बालकाण्डे
नारदवाक्यं
नाम
प्रथमः
सर्गः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits