हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री षोडशी अष्टोत्तर शत नामा स्तोत्रं
भृगुरुवाच
चतुर्वक्त्र
जगन्नाथ
स्तोत्रं
वद
मयि
प्रभो
।
यस्यानुष्ठानमात्रेण
नरो
भक्तिमवाप्नुयात्
॥
1
॥
ब्रह्मोवाच
सहस्रनाम्नामाकृष्य
नाम्नामष्टोत्तरं
शतम्
।
गुह्याद्गुह्यतरं
गुह्यं
सुंदर्याः
परिकीर्तितम्
॥
2
॥
अस्य
श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य
शंभुरृषिः
अनुष्टुप्
छंदः
श्रीषोडशी
देवता
धर्मार्थकाममोक्षसिद्ध्यर्थे
जपे
विनियोगः
।
त्रिपुरा
षोडशी
माता
त्र्यक्षरा
त्रितया
त्रयी
।
सुंदरी
सुमुखी
सेव्या
सामवेदपरायणा
॥
3
॥
शारदा
शब्दनिलया
सागरा
सरिदंबरा
।
शुद्धा
शुद्धतनुः
साध्वी
शिवध्यानपरायणा
॥
4
॥
स्वामिनी
शंभुवनिता
शांभवी
च
सरस्वती
।
समुद्रमथिनी
शीघ्रगामिनी
शीघ्रसिद्धिदा
॥
5
॥
साधुसेव्या
साधुगम्या
साधुसंतुष्टमानसा
।
खट्वांगधारिणी
खर्वा
खड्गखर्परधारिणी
॥
6
॥
षड्वर्गभावरहिता
षड्वर्गपरिचारिका
।
षड्वर्गा
च
षडंगा
च
षोढा
षोडशवार्षिकी
॥
7
॥
क्रतुरूपा
क्रतुमती
ऋभुक्षक्रतुमंडिता
।
कवर्गादिपवर्गांता
अंतस्थाऽनंतरूपिणी
॥
8
॥
अकाराकाररहिता
कालमृत्युजरापहा
।
तन्वी
तत्त्वेश्वरी
तारा
त्रिवर्षा
ज्ञानरूपिणी
॥
9
॥
काली
कराली
कामेशी
छाया
संज्ञाप्यरुंधती
।
निर्विकल्पा
महावेगा
महोत्साहा
महोदरी
॥
10
॥
मेघा
बलाका
विमला
विमलज्ञानदायिनी
।
गौरी
वसुंधरा
गोप्त्री
गवां
पतिनिषेविता
॥
11
॥
भगांगा
भगरूपा
च
भक्तिभावपरायणा
।
छिन्नमस्ता
महाधूमा
तथा
धूम्रविभूषणा
॥
12
॥
धर्मकर्मादिरहिता
धर्मकर्मपरायणा
।
सीता
मातंगिनी
मेधा
मधुदैत्यविनाशिनी
॥
13
॥
भैरवी
भुवना
माताऽभयदा
भवसुंदरी
।
भावुका
बगला
कृत्या
बाला
त्रिपुरसुंदरी
॥
14
॥
रोहिणी
रेवती
रम्या
रंभा
रावणवंदिता
।
शतयज्ञमयी
सत्त्वा
शतक्रतुवरप्रदा
॥
15
॥
शतचंद्रानना
देवी
सहस्रादित्यसन्निभा
।
सोमसूर्याग्निनयना
व्याघ्रचर्मांबरावृता
॥
16
॥
अर्धेंदुधारिणी
मत्ता
मदिरा
मदिरेक्षणा
।
इति
ते
कथितं
गोप्यं
नाम्नामष्टोत्तरं
शतम्
॥
17
॥
सुंदर्याः
सर्वदं
सेव्यं
महापातकनाशनम्
।
गोपनीयं
गोपनीयं
गोपनीयं
कलौ
युगे
॥
18
॥
सहस्रनामपाठस्य
फलं
यद्वै
प्रकीर्तितम्
।
तस्मात्कोटिगुणं
पुण्यं
स्तवस्यास्य
प्रकीर्तनात्
॥
19
॥
पठेत्सदा
भक्तियुतो
नरो
यो
निशीथकालेऽप्यरुणोदये
वा
।
प्रदोषकाले
नवमीदिनेऽथवा
लभेत
भोगान्परमाद्भुतान्प्रियान्
॥
20
॥
इति
ब्रह्मयामले
पूर्वखंडे
षोडश्यष्टोत्तरशतनाम
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits