Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री ललिता त्रिशति स्तोत्रम्

अगस्त्य उवाच । अश्वानन महाबुद्धे सर्वशास्त्रविशारद । कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ 1 ॥ पूर्वं प्रादुर्भवो मातुस्ततः पट्‍टाभिषेचनम् । भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥ 2 ॥ वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्याः महिमा वर्णितस्तथा ॥ 3 ॥ षोढान्यासादयो न्यासाः न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा ॥ 4 ॥ महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः । पुरश्चरणखण्डे तु जपलक्षणमीरितम् ॥ 5 ॥ होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः । चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ 6 ॥ रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् । स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ 7 ॥ मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके । न तु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम् ॥ 8 ॥ तत्र मे संशयो जातो हयग्रीव दयानिधे । किं वा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम् ॥ 9 ॥ मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ 10 ॥ सूत उवाच । इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना । प्रहृष्टो वचनं प्राह तापसं कुम्भसम्भवम् ॥ 11 ॥ श्रीहयग्रीव उवाच । लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु । नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥ 12 ॥ रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा । पुनश्च पृच्छते भक्त्या तस्मात्तत्ते वदाम्यहम् ॥ 13 ॥ ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः । भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ 14 ॥ न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ 15 ॥ उपासकाय शुद्धाय देयं नामसहस्रकम् । यानि नामसहस्राणि सद्यः सिद्धिप्रदानि वै ॥ 16 ॥ तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ 17 ॥ पुराणां श्रीपुरमिव शक्तीनां ललिता तथा । श्रीविद्योपासकानां च यथा देवो परः शिवः ॥ 18 ॥ तथा नामसहस्रेषु परमेतत्प्रकीर्तितम् । यथास्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ 19 ॥ अन्यनामसहस्रस्य पाठान्न प्रीयते तथा । श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥ 20 ॥ बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम् । पद्मैर्वा तुलसीपुष्पैरेभिर्नामसहस्रकैः ॥ 21 ॥ सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ 22 ॥ जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तश्चेत्पठेन्नामसहस्रकम् ॥ 23 ॥ साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥ 24 ॥ इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥ 25 ॥ भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥ 26 ॥ तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसम्भव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥ 27 ॥ वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम ॥ 28 ॥ भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥ 29 ॥ मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥ 30 ॥ कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ॥ 31 ॥ इत्याज्ञप्तास्ततो देव्यः श्रीदेव्या ललिताम्बया । रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम् ॥ 32 ॥ रहस्यनामसाहस्रमिति तद्विश्रुतं परम् । ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका ॥ 33 ॥ स्वसेवावसरं प्रादात्सर्वेषां कुम्भसम्भव । सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥ 34 ॥ लक्ष्मीनारायणानां च कोटयः समुपागताः । गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥ 35 ॥ मन्त्रिणीदण्डिनीमुख्याः सेवार्थं यः समागताः । शक्तयो विविधाकारास्तासां सङ्ख्या न विद्यते ॥ 36 ॥ दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः । तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ ॥ 37 ॥ तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । तत्र श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥ 38 ॥ उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा । अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥ 39 ॥ श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी । ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ॥ 40 ॥ ततः प्रोवाच ललिता सदस्यान् देवतागणान् । देव्युवाच । ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥ 41 ॥ अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः । तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ॥ 42 ॥ प्रवर्तयध्वं भक्तेषु मम नामसाहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठते सकृत् ॥ 43 ॥ स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् । श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥ 44 ॥ पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा न वा ॥ 45 ॥ कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान्कामांल्लभते नात्र संशयः ॥ 46 ॥ तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात् । श्रीहयग्रीव उवाच । इति श्रीललितेशानी शास्ति देवान् सहानुगान् ॥ 47 ॥ तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः । शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥ 48 ॥ पठन्ति भक्त्या सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥ 49 ॥ आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर । इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥ 50 ॥ इति श्रीब्रह्माण्डपुराणे हयग्रीवागस्त्यसंवादे ललितासहस्रनामपूर्वभागो नाम प्रथमोऽध्यायः ॥ अस्य श्रीललिता त्रिशतीस्तोत्र महामंत्रस्य, भगवान् हयग्रीव ऋषिः, अनुष्टुप् छंदः, श्रीललितामहात्रिपुरसुंदरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम चतुर्विधपुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः । ऐमित्यादिभिरंगन्यासकरन्यासाः कार्याः । ध्यानम् । अतिमधुरचापहस्ता- -मपरिमितामोदबाणसौभाग्याम् । अरुणामतिशयकरुणा- -मभिनवकुलसुंदरीं वंदे । श्री हयग्रीव उवाच । ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ॥ 1 ॥ कमलाक्षी कल्मषघ्नी करुणामृतसागरा । कदंबकाननावासा कदंबकुसुमप्रिया ॥ 2 ॥ कंदर्पविद्या कंदर्पजनकापांगवीक्षणा । कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ 3 ॥ कलिदोषहरा कंजलोचना कम्रविग्रहा । कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ 4 ॥ एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्तदित्यनिर्देश्या चैकानंदचिदाकृतिः ॥ 5 ॥ एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ॥ 6 ॥ एलासुगंधिचिकुरा चैनःकूटविनाशिनी । एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ 7 ॥ एकातपत्रसाम्राज्यप्रदा चैकांतपूजिता । एधमानप्रभा चैजदनेकजगदीश्वरी ॥ 8 ॥ एकवीरादिसंसेव्या चैकप्राभवशालिनी । ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ 9 ॥ ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ 10 ॥ ईक्षित्रीक्षणसृष्टांडकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्धांगशरीरेशाधिदेवता ॥ 11 ॥ ईश्वरप्रेरणकरी चेशतांडवसाक्षिणी । ईश्वरोत्संगनिलया चेतिबाधाविनाशिनी ॥ 12 ॥ ईहाविरहिता चेशशक्तिरीषत्स्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ 13 ॥ लाकिनी ललनारूपा लसद्दाडिमपाटला । ललंतिकालसत्फाला ललाटनयनार्चिता ॥ 14 ॥ लक्षणोज्ज्वलदिव्यांगी लक्षकोट्यंडनायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ 15 ॥ ललामराजदलिका लंबिमुक्तालतांचिता । लंबोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ 16 ॥ ह्रीं‍काररूपा ह्रीं‍कारनिलया ह्रीं‍पदप्रिया । ह्रीं‍कारबीजा ह्रीं‍कारमंत्रा ह्रीं‍कारलक्षणा ॥ 17 ॥ ह्रीं‍कारजपसुप्रीता ह्रीं‍मती ह्रीं‍विभूषणा । ह्रीं‍शीला ह्रीं‍पदाराध्या ह्रीं‍गर्भा ह्रीं‍पदाभिधा ॥ 18 ॥ ह्रीं‍कारवाच्या ह्रीं‍कारपूज्या ह्रीं‍कारपीठिका । ह्रीं‍कारवेद्या ह्रीं‍कारचिंत्या ह्रीं ह्रीं‍शरीरिणी ॥ 19 ॥ हकाररूपा हलधृक्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेंद्रवंदिता ॥ 20 ॥ हयारूढासेवितांघ्रिर्हयमेधसमर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ॥ 21 ॥ हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुंभोत्तुंगकुचा हस्तिकृत्तिप्रियांगना ॥ 22 ॥ हरिद्राकुंकुमादिग्धा हर्यश्वाद्यमरार्चिता । हरिकेशसखी हादिविद्या हालामदालसा ॥ 23 ॥ सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला । सर्वकर्त्री सर्वभर्त्री सर्वहंत्री सनातना ॥ 24 ॥ सर्वानवद्या सर्वांगसुंदरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ 25 ॥ सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ 26 ॥ ककारार्था कालहंत्री कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमंडला ॥ 27 ॥ करभोरूः कलानाथमुखी कचजितांबुदा । कटाक्षस्यंदिकरुणा कपालिप्राणनायिका ॥ 28 ॥ कारुण्यविग्रहा कांता कांतिधूतजपावलिः । कलालापा कंबुकंठी करनिर्जितपल्लवा ॥ 29 ॥ कल्पवल्लीसमभुजा कस्तूरीतिलकांचिता । हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ 30 ॥ हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ 31 ॥ हर्षप्रदा हविर्भोक्त्री हार्दसंतमसापहा । हल्लीसलास्यसंतुष्टा हंसमंत्रार्थरूपिणी ॥ 32 ॥ हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ 33 ॥ हय्यंगवीनहृदया हरिगोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ 34 ॥ लास्यदर्शनसंतुष्टा लाभालाभविवर्जिता । लंघ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ 35 ॥ लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लांगलायुधा ॥ 36 ॥ लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लंपटा लकुलेश्वरी ॥ 37 ॥ लब्धमाना लब्धरसा लब्धसंपत्समुन्नतिः । ह्रीं‍कारिणी ह्रीं‍काराद्या ह्रीं‍मध्या ह्रीं‍शिखामणिः ॥ 38 ॥ ह्रीं‍कारकुंडाग्निशिखा ह्रीं‍कारशशिचंद्रिका । ह्रीं‍कारभास्कररुचिर्ह्रीं‍कारांभोदचंचला ॥ 39 ॥ ह्रीं‍कारकंदांकुरिका ह्रीं‍कारैकपरायणा । ह्रीं‍कारदीर्घिकाहंसी ह्रीं‍कारोद्यानकेकिनी ॥ 40 ॥ ह्रीं‍कारारण्यहरिणी ह्रीं‍कारावालवल्लरी । ह्रीं‍कारपंजरशुकी ह्रीं‍कारांगणदीपिका ॥ 41 ॥ ह्रीं‍कारकंदरासिंही ह्रीं‍कारांभोजभृंगिका । ह्रीं‍कारसुमनोमाध्वी ह्रीं‍कारतरुमंजरी ॥ 42 ॥ सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदांततात्पर्यभूमिः सदसदाश्रया ॥ 43 ॥ सकला सच्चिदानंदा साध्या सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुंबिनी ॥ 44 ॥ सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः । सर्वप्रपंचनिर्मात्री समनाधिकवर्जिता ॥ 45 ॥ सर्वोत्तुंगा संगहीना सगुणा सकलेष्टदा । ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ 46 ॥ कामेश्वरप्राणनाडी कामेशोत्संगवासिनी । कामेश्वरालिंगितांगी कामेश्वरसुखप्रदा ॥ 47 ॥ कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ 48 ॥ कामेश्वरप्राणनाथा कामेश्वरविमोहिनी । कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ 49 ॥ कामेश्वराह्लादकरी कामेश्वरमहेश्वरी । कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ॥ 50 ॥ लकारिणी लब्धरूपा लब्धधीर्लब्धवांछिता । लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ॥ 51 ॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ 52 ॥ लब्धातिशयसर्वांगसौंदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ 53 ॥ लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । ह्रीं‍कारमूर्तिर्ह्रीं‍कारसौधशृंगकपोतिका ॥ 54 ॥ ह्रीं‍कारदुग्धाब्धिसुधा ह्रीं‍कारकमलेंदिरा । ह्रीं‍कारमणिदीपार्चिर्ह्रीं‍कारतरुशारिका ॥ 55 ॥ ह्रीं‍कारपेटकमणिर्ह्रीं‍कारादर्शबिंबिता । ह्रीं‍कारकोशासिलता ह्रीं‍कारास्थाननर्तकी ॥ 56 ॥ ह्रीं‍कारशुक्तिकामुक्तामणिर्ह्रीं‍कारबोधिता । ह्रीं‍कारमयसौवर्णस्तंभविद्रुमपुत्रिका ॥ 57 ॥ ह्रीं‍कारवेदोपनिषद् ह्रीं‍काराध्वरदक्षिणा । ह्रीं‍कारनंदनारामनवकल्पकवल्लरी ॥ 58 ॥ ह्रीं‍कारहिमवद्गंगा ह्रीं‍कारार्णवकौस्तुभा । ह्रीं‍कारमंत्रसर्वस्वा ह्रीं‍कारपरसौख्यदा ॥ 59 ॥ ॥ उत्तरपीठिका ॥ हयग्रीव उवाच । इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् । रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ 1 ॥ शिववर्णानि नामानि श्रीदेव्या कथितानि हि । शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ 2 ॥ उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ 3 ॥ नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेऽपि कल्याणं संभवेन्नात्र संशयः ॥ 4 ॥ सूत उवाच । इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य । निजगुरुमथ नत्वा कुंभजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ 5 ॥ अगस्त्य उवाच । अश्वानन महाभाग रहस्यमपि मे वद । शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ 6 ॥ उभयोरपि वर्णानि कानि वा वद देशिक । इति पृष्टः कुंभजेन हयग्रीवोऽवदत्पुनः ॥ 7 ॥ हयग्रीव उवाच । तव गोप्यं किमस्तीह साक्षादंबानुशासनात् । इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुंभज ॥ 8 ॥ एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् । कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ 9 ॥ शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मकः । एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ 10 ॥ न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि । चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पंचभिः ॥ 11 ॥ नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः । त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ 12 ॥ चतुर्दशारं चैतानि शक्तिचक्राणि पंच च । बिंदुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ 13 ॥ चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् । त्रिकोणे बैंदवं श्लिष्टं अष्टारेऽष्टदलांबुजम् ॥ 14 ॥ दशारयोः षोडशारं भूगृहं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ 15 ॥ अविनाभावसंबंधं यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिर्बिंदुरूपपरः शिवः ॥ 16 ॥ अविनाभावसंबंधं तस्माद्बिंदुत्रिकोणयोः । एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ 17 ॥ न तत्फलमवाप्नोति ललितांबा न तुष्यति । ये च जानंति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः ॥ 18 ॥ सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः । स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ 19 ॥ तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् । अंधं तमः प्रविशंति येऽविद्यां समुपासते ॥ 20 ॥ इति श्रुतिरपाहैतानविद्योपासकान्पुनः । विद्यान्योपासकानेव निंदत्यारुणिकी श्रुतिः ॥ 21 ॥ अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः । स्वर्यंतो नापेक्षंते इंद्रमग्निं च ये विदुः ॥ 22 ॥ सिकता इव संयंति रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ 23 ॥ यस्य नो पश्चिमं जन्म यदि वा शंकरः स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पंचदशाक्षरी ॥ 24 ॥ इति मंत्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ 25 ॥ न शिल्पादिज्ञानयुक्ते विद्वच्छब्धः प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ 26 ॥ तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते । स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ 27 ॥ स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि । विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ 28 ॥ प्रसंगादिदमुक्तं ते प्रकृतं शृणु कुंभज । यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ 29 ॥ तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुंभसंभव । रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ 30 ॥ तत्फलं कोटिगुणितमेकनामजपाद्भवेत् । कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ 31 ॥ नान्येन तुलयेदेतत् स्तोत्रेणान्यकृतेन च । श्रियः परंपरा यस्य भावि वा चोत्तरोत्तरम् ॥ 32 ॥ तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् । अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ 33 ॥ या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता । नित्यं षोडशसंख्याकान्विप्रानादौ तु भोजयेत् ॥ 34 ॥ अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा । अभ्यर्च्य गंधपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ 35 ॥ सूपापूपैः शर्कराद्यैः पायसैः फलसंयुतैः । विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ 36 ॥ एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ 37 ॥ तैलाभ्यंगादिकं दत्वा विभवे सति भक्तितः । शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ 38 ॥ दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया । दशभिः पंचभिर्वापि त्रिभिरेकेन वा दिनैः ॥ 39 ॥ त्रिंशत्षष्टिः शतं विप्राः संभोज्यास्त्रिशतं क्रमात् । एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ 40 ॥ तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा । रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ 41 ॥ आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् । रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ 42 ॥ स शीकराणुरत्नैकनाम्नो महिमवारिधेः । वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ 43 ॥ तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् । एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ 44 ॥ तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् । वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ॥ 45 ॥ साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति । सकृत्संकीर्तनादेव नाम्नामस्मिन् शतत्रये ॥ 46 ॥ भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी । न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यं च कुंभज ॥ 47 ॥ यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् । तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ 48 ॥ ये ये प्रयोगास्तंत्रेषु तैस्तैर्यत्साध्यते फलम् । तत्सर्वं सिध्यति क्षिप्रं नामत्रिशतकीर्तनात् ॥ 49 ॥ आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् । विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥ 50 ॥ सर्वसंपत्प्रदं सर्वभोगदं सर्वसौख्यदम् । सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥ 51 ॥ एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन । एतत्कीर्तनसंतुष्टा श्रीदेवी ललितांबिका ॥ 52 ॥ भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् । तस्मात्कुंभोद्भव मुने कीर्तय त्वमिदं सदा ॥ 53 ॥ नापरं किंचिदपि ते बोद्धव्यमवशिष्यते । इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ 54 ॥ नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ 56 ॥ यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् । इत्याज्ञा शांकरी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ 57 ॥ ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ 58 ॥ सूत उवाच । एवमुक्त्वा हयग्रीवः कुंभजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुंदरीम् । आनंदलहरीमग्नमानसः समवर्तत ॥ 59 ॥ इति श्री ललिता त्रिशती स्तोत्ररत्नम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits