हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री ललिता स्तवरत्नम्
वंदे
गजेंद्रवदनं
वामांकारूढवल्लभाश्लिष्टम्
।
कुंकुमपरागशोणं
कुवलयिनीजारकोरकापीडम्
॥
1
॥
स
जयति
सुवर्णशैलः
सकलजगच्चक्रसंघटितमूर्तिः
।
कांचननिकुंजवाटी-
-कंदलदमरीप्रपंचसंगीतः
॥
2
॥
हरिहयनैरृतमारुत-
-हरितामंतेष्ववस्थितं
तस्य
।
विनुमः
सानुत्रितयं
विधिहरिगौरीशविष्टपाधारम्
॥
3
॥
मध्ये
पुनर्मनोहर-
-रत्नरुचिस्तबकरंजितदिगंतम्
।
उपरि
चतुःशतयोजन-
-मुत्तुंगं
शृंगपुंगवमुपासे
॥
4
॥
तत्र
चतुःशतयोजन-
-परिणाहं
देवशिल्पिना
रचितम्
।
नानासालमनोज्ञं
नमाम्यहं
नगरमादिविद्यायाः
॥
5
॥
प्रथमं
सहस्रपूर्वक-
-षट्शतसंख्याकयोजनं
परितः
।
वलयीकृतस्वगात्रं
वरणं
शरणं
व्रजाम्ययोरूपम्
॥
6
॥
तस्योत्तरे
समीरण-
-योजनदूरे
तरंगितच्छायः
।
घटयतु
मुदं
द्वितीयो
घंटास्तनसारनिर्मितः
सालः
॥
7
॥
उभयोरंतरसीम-
-न्युद्दामभ्रमररंजितोदारम्
।
उपवनमुपास्महे
वय-
-मूरीकृतमंदमारुतस्यंदम्
॥
8
॥
आलिंग्य
भद्रकाली-
-मासीनस्तत्र
हरिशिलाश्यामाम्
।
मनसि
महाकालो
मे
विहरतु
मधुपानविभ्रमन्नेत्रः
॥
9
॥
तार्तीयीको
वरण-
-स्तस्योत्तरसीम्नि
वातयोजनतः
।
ताम्रेण
रचितमूर्ति-
-स्तनुतामाचंद्रतारकं
भद्रम्
॥
10
॥
मध्ये
तयोश्च
मणिमय-
-पल्लवशाखाप्रसूनपक्ष्मलिताम्
।
कल्पानोकहवाटीं
कलये
मकरंदपंकिलावालाम्
॥
11
॥
तत्र
मधुमाधवश्री-
-तरुणीभ्यां
तरलदृक्चकोराभ्याम्
।
आलिंगितोऽवतान्मा-
-मनिशं
प्रथमर्तुरात्तपुष्पास्त्रः
॥
12
॥
नमत
तदुत्तरभागे
नाकिपथोल्लंघिशृंगसंघातम्
।
सीसाकृतिं
तुरीयं
सितकिरणालोकनिर्मलं
सालम्
॥
13
॥
सालद्वयांतराले
सरलालिकपोतचाटुसुभगायाम्
।
संतानवाटिकायां
सक्तं
चेतोऽस्तु
सततमस्माकम्
॥
14
॥
तत्र
तपनातिरूक्षः
साम्राज्ञीचरणसांद्रितस्वांतः
।
शुक्रशुचिश्रीसहितो
ग्रीष्मर्तुर्दिशतु
कीर्तिमाकल्पम्
॥
15
॥
उत्तरसीमनि
तस्यो-
-न्नतशिखरोत्कंपिहाटकपताकः
।
प्रकटयतु
पंचमो
नः
प्राकारः
कुशलमारकूटमयः
॥
16
॥
प्राकारयोश्च
मध्ये
पल्लवितान्यभृतपंचमोन्मेषा
।
हरिचंदनद्रुवाटी-
-हरतादामूलमस्मदनुतापम्
॥
17
॥
तत्र
नभः
श्रीमुख्यै-
-स्तरुणीवर्गैः
समन्वितः
परितः
।
वज्राट्टहासमुखरो
वांछापूर्तिं
तनोतु
वर्षर्तुः
॥
18
॥
मारुतयोजनदूरे
महनीयस्तस्य
चोत्तरे
भागे
।
भद्रं
कृषीष्ट
षष्ठः
प्राकारः
पंचलोहधातुमयः
॥
19
॥
अनयोर्मध्ये
संतत-
-मंकूरद्दिव्यकुसुमगंधायाम्
।
मंदारवाटिकायां
मानसमंगीकरोतु
मे
विहृतिम्
॥
20
॥
तस्यामिषोर्जलक्ष्मी-
-तरुणीभ्यां
शरदृतुः
सदा
सहितः
।
अभ्यर्चयन्
स
जीया-
-दंबामामोदमेदुरैः
कुसुमैः
॥
21
॥
तस्यर्षिसंख्ययोजन-
-दूरे
देदीप्यमानशृंगौघः
।
कलधौतकलितमूर्तिः
कल्याणं
दिशतु
सप्तमः
सालः
॥
22
॥
मध्ये
तयोर्मरुत्पथ
लंघितविटपाग्रविरुतकलकंठा
।
श्रीपारिजातवाटी
श्रियमनिशं
दिशतु
शीतलोद्देशा
॥
23
॥
तस्यामतिप्रियाभ्यां
सह
खेलन्
सहसहस्यलक्ष्मीभ्याम्
।
सामंतो
झषकेतो-
-र्हेमंतो
भवतु
हेमवृद्ध्यै
नः
॥
24
॥
उत्तरतस्तस्य
महा-
-नुद्भटहुतभुक्शिखारुणमयूखः
।
तपनीयखंडरचित-
-स्तनुतादायुष्यमष्टमो
वरणः
॥
25
॥
कादंबविपिनवाटी-
-मनयोर्मध्यभुवि
कल्पितावासाम्
।
कलयामि
सूनकोरक-
-कंदलितामोदतुंदिलसमीराम्
॥
26
॥
तस्यामतिशिशिराकृति-
-रासीनस्तपतपस्यलक्ष्मीभ्याम्
।
शिवमनिशं
कुरुतान्मे
शिशिरर्तुः
सततशीतलदिगंतः
॥
27
॥
तस्यां
कदंबवाट्यां
तत्प्रसवामोदमिलितमधुगंधम्
।
सप्तावरणमनोज्ञं
शरणं
समुपैमि
मंत्रिणीशरणम्
॥
28
॥
तत्रालये
विशाले
तपनीयारचिततरलसोपाने
।
माणिक्यमंडपांत-
-र्महिते
सिंहासने
सुमणिखचिते
॥
29
॥
बिंदुत्रिपंचकोण-
-द्विपनृपवसुवेददलकुरेखाढ्ये
।
चक्रे
सदा
निविष्टां
षष्ठ्यष्टत्रिंशदक्षरेशानीम्
॥
30
॥
तापिंछमेचकाभां
तालीदलघटितकर्णताटंकाम्
।
तांबूलपूरितमुखीं
ताम्राधरबिंबदृष्टदरहासाम्
॥
31
॥
कुंकुमपंकिलदेहां
कुवलयजीवातुशावकवतंसाम्
।
कोकनदशोणचरणां
कोकिलनिक्वाणकोमलालापाम्
॥
32
॥
वामांगगलितचूलीं
वनमाल्यकदंबमालिकाभरणाम्
।
मुक्ताललंतिकांचित
मुग्धालिकमिलितचित्रकोदाराम्
॥
33
॥
करविधृतकीरशावक-
-कलनिनदव्यक्तनिखिलनिगमार्थाम्
।
वामकुचसंगिवीणावादन-
-सौख्यार्धमीलिताक्षियुगाम्
॥
34
॥
आपाटलांशुकधरा-
-मादिरसोन्मेषवासितकटाक्षाम्
।
आम्नायसारगुलिका-
-माद्यां
संगीतमातृकां
वंदे
॥
35
॥
तस्य
च
सुवर्णसाल-
-स्योत्तरतस्तरुणकुंकुमच्छायः
।
शमयतु
मम
संतापं
सालो
नवमः
स
पुष्परागमयः
॥
36
॥
अनयोरंतरवसुधाः
प्रणुमः
प्रत्यग्रपुष्परागमयीः
।
सिंहासनेश्वरीमनु-
-चिंतननिस्तंद्रसिद्धनीरंध्राः
॥
37
॥
तत्सालोत्तरदेशे
तरुणजपाकिरणधोरणीशोणः
।
प्रशमयतु
पद्मराग-
-प्राकारो
मम
पराभवं
दशमः
॥
38
॥
अंतरभूकृतवासा-
-ननयोरपनीतचित्तवैमत्यान्
।
चक्रेशीपदभक्तां-
-श्चारणवर्गानहर्निशं
कलये
॥
39
॥
सारंगवाहयोजनदूरे-
-ऽसंघटितकेतनस्तस्य
।
गोमेदकेन
रचितो
गोपायतु
मां
समुन्नतः
सालः
॥
40
॥
वप्रद्वयांतरोर्व्यां
वटुकैर्विविधैश्च
योगिनीबृंदैः
।
सततं
समर्चितायाः
संकर्षण्याः
प्रणौमि
चरणाब्जम्
॥
41
॥
तापसयोजनदूरे
तस्य
समुत्तुंग
गोपुरोपेतः
।
वांछापूर्त्यै
भवता-
-द्वज्रमणीनिकरनिर्मितो
वप्रः
॥
42
॥
वरणद्वितयांतरतो
वासजुषो
विहितमधुरसास्वादाः
।
रंभादिविबुधवेश्या
रचयंतु
महांतमस्मदानंदम्
॥
43
॥
तत्र
सदा
प्रवहंती
तटिनी
वज्राभिधा
चिरं
जीयात्
।
चटुलोर्मिजालनृत्य-
-त्कलहंसीकुलकलक्वणितपुष्टा
॥
44
॥
रोधसि
तस्या
रुचिरे
वज्रेशी
जयति
वज्रभूषाढ्या
।
वज्रप्रदानतोषित-
-वज्रिमुखत्रिदशविनुतचारित्रा
॥
45
॥
तस्योदीच्यां
हरिति
स्तवकितसुषमावलीढवियदंतः
।
वैडूर्यरत्नरचितो
वैमल्यं
दिशतु
चेतसो
वरणः
॥
46
॥
अधिमध्यमेतयोः
पुन-
-रंबाचरणावलंबितस्वांतान्
।
कार्कोटकादिनागान्
कलयामः
किं
च
बलिमुखान्
दनुजान्
॥
47
॥
गंधवहसंख्ययोजन-
-दूरे
गगनोर्ध्वजांघिकस्तस्य
।
वासवमणिप्रणीतो
वरणो
बहलयतु
वैदुषीं
विशदाम्
॥
48
॥
मध्यक्षोण्यामनयो-
-र्महेंद्रनीलात्मकानि
च
सरांसि
।
शातोदरीसहाया-
-न्भूपालानपि
पुनः
पुनः
प्रणुमः
॥
49
॥
आशुगयोजनदूरे
तस्योर्ध्वं
कांतिधवलितदिगंतः
।
मुक्ताविरचितगात्रो
मुहुरस्माकं
मुदे
भवतु
सालः
॥
50
॥
आवृत्त्योरधिमध्यं
पूर्वस्यां
दिशि
पुरंदरः
श्रीमान्
।
अभ्रमुविटाधिरूढो
विभ्रममस्माकमनिशमातनुतात्
॥
51
॥
तत्कोणे
व्यजनस्रु-
-क्तोमरपात्रस्रुवान्नशक्तिधरः
।
स्वाहास्वधासमेतः
सुखयतु
मां
हव्यवाहनः
सुचिरम्
॥
52
॥
दक्षिणदिगंतराले
दंडधरो
नीलनीरदच्छायः
।
त्रिपुरापदाब्जभक्तस्तिरयतु
मम
निखिलमंहसां
निकरम्
॥
53
॥
तस्यैव
पश्चिमायां
दिशि
दलितेंदीवरप्रभाश्यामः
।
खेटासियष्टिधारी
खेदानपनयतु
यातुधानो
मे
॥
54
॥
तस्या
उत्तरदेशे
धवलांगो
विपुलझषवरारूढः
।
पाशायुधात्तपाणिः
पाशी
विदलयतु
पाशजालानि
॥
55
॥
वंदे
तदुत्तरहरि-
-त्कोणे
वायुं
चमूरुवरवाहम्
।
कोरकिततत्त्वबोधा-
-न्गोरक्षप्रमुखयोगिनोऽपि
मुहुः
॥
56
॥
तरुणीरिडाप्रधाना-
-स्तिस्रो
वातस्य
तस्य
कृतवासाः
।
प्रत्यग्रकापिशायन-
-पानपरिभ्रांतलोचनाः
कलये
॥
57
॥
तल्लोकपूर्वभागे
धनदं
ध्यायामि
शेवधिकुलेशम्
।
अपि
माणिभद्रमुख्या-
-नंबाचरणावलंबिनो
यक्षान्
॥
58
॥
तस्यैव
पूर्वसीमनि
तपनीयारचितगोपुरे
नगरे
।
कात्यायनीसहायं
कलये
शीतांशुखंडचूडालम्
॥
59
॥
तत्पुरषोडशवरण-
-स्थलभाजस्तरुणचंद्रचूडालान्
।
रुद्राध्याये
पठिता-
-न्रुद्राणीसहचरान्भजे
रुद्रान्
॥
60
॥
पवमानसंख्ययोजन-
-दूरे
बालतृण्मेचकस्तस्य
।
सालो
मरकतरचितः
संपदमचलां
श्रियं
च
पुष्णातु
॥
61
॥
आवृतियुग्मांतरतो
हरितमणीनिवहमेचके
देशे
।
हाटकतालीविपिनं
हालाघटघटितविटपमाकलये
॥
62
॥
तत्रैव
मंत्रिणीगृह-
-परिणाहं
तरलकेतनं
सदनम्
।
मरकतसौधमनोज्ञं
दद्यादायूंषि
दंडनाथायाः
॥
63
॥
सदने
तत्र
हरिन्मणि-
-संघटिते
मंडपे
शतस्तंभे
।
कार्तस्वरमयपीठे
कनकमयांबुरुहकर्णिकामध्ये
॥
64
॥
बिंदुत्रिकोणवर्तुल-
-षडस्रवृत्तद्वयान्विते
चक्रे
।
संचारिणी
दशोत्तर-
शतार्णमनुराजकमलकलहंसी
॥
65
॥
कोलवदना
कुशेशय-
-नयना
कोकारिमंडितशिखंडा
।
संतप्तकांचनाभा
संध्यारुणचेलसंवृतनितंबा
॥
66
॥
हलमुसलशंखचक्रा-
-ऽंकुशपाशाभयवरस्फुरितहस्ता
।
कूलंकषानुकंपा
कुंकुमजंबालितस्तनाभोगा
॥
67
॥
धूर्तानामतिदूरा-
-वार्ताशेषावलग्नकमनीया
।
आर्तालीशुभदात्री
वार्ताली
भवतु
वांछितार्थाय
॥
68
॥
तस्याः
परितो
देवीः
स्वप्नेश्युन्मत्तभैरवीमुख्याः
।
प्रणमत
जंभिन्याद्याः
भैरववर्गांश्च
हेतुकप्रमुखान्
॥
69
॥
पूर्वोक्तसंख्ययोजन-
-दूरे
पूयांशुपाटलस्तस्य
।
विद्रावयतु
मदार्तिं
विद्रुमसालो
विशंकटद्वारः
॥
70
॥
आवरणयोरहर्निश-
-मंतरभूमौप्रकाशशालिन्याम्
।
आसीनमंबुजासन-
-मभिनवसिंदूरगौरमहमीडे
॥
71
॥
वरणस्य
तस्य
मारुत-
-योजनतो
विपुलगोपुरद्वारः
।
सालो
नानारत्नैः
संघटितांगः
कृषीष्ट
मदभीष्टम्
॥
72
॥
अंतरकक्ष्यामनयो-
-रविरलशोभापिचंडिलोद्देशाम्
।
माणिक्यमंडपाख्यां
महतीमधिहृदयमनिशमाकलये
॥
73
॥
तत्र
स्थितं
प्रसन्नं
तरुणतमालप्रवालकिरणाभम्
।
कर्णावलंबिकुंडल-
-कंदलिताभीशुकवचितकपोलम्
॥
74
॥
शोणाधरं
शुचिस्मित-
-मेणांकवदनमेधमानकृपम्
।
मुग्धैणमदविशेषक-
-मुद्रितनिटिलेंदुरेखिकारुचिरम्
॥
75
॥
नालीकदलसहोदर-
-नयनांचलघटितमनसिजाकूतम्
।
कमलाकठिनपयोधर-
-कस्तूरीघुसृणपंकिलोरस्कम्
॥
76
॥
चांपेयगंधिकैश्यं
शंपासब्रह्मचारिकौशेयम्
।
श्रीवत्सकौस्तुभधरं
श्रितजनरक्षाधुरीणचरणाब्जम्
॥
77
॥
कंबुसुदर्शनविलस-
-त्करपद्मं
कंठलोलवनमालम्
।
मुचुकुंदमोक्षफलदं
मुकुंदमानंदकंदमवलंबे
॥
78
॥
तद्वरणोत्तरभागे
तारापतिबिंबचुंबिनिजशृंगः
।
विविधमणीगणघटितो
वितरतु
सालो
विनिर्मलां
धिषणाम्
॥
79
॥
प्राकारद्वितयांतर-
-कक्ष्यां
पृथुरत्ननिकरसंकीर्णाम्
।
नमत
सहस्रस्तंभक-
-मंडपनाम्नातिविश्रुतां
भुवने
॥
80
॥
प्रणुमस्तत्र
भवानी-
-सहचरमीशानमिंदुखंडधरम्
।
शृंगारनायिकामनु-
-शीलनभाजोऽपि
भृंगिनंदिमुखान्
॥
81
॥
तस्यैणवाहयोजन-
-दूरे
वंदे
मनोमयं
वप्रम्
।
अंकूरन्मणिकिरणा-
-मंतरकक्ष्यां
च
निर्मलामनयोः
॥
82
॥
तत्रैवामृतवापीं
तरलतरंगावलीढतटयुग्माम्
।
मुक्तामयकलहंसी-
-मुद्रितकनकारविंदसंदोहाम्
॥
83
॥
शक्रोपलमयभृंगी-
-संगीतोन्मेषघोषितदिगंताम्
।
कांचनमयांगविलस-
-त्कारंडवषंडतांडवमनोज्ञाम्
॥
84
॥
कुरुविंदात्मकहल्लक-
-कोरकसुषमासमूहपाटलिताम्
।
कलये
सुधास्वरूपां
कंदलितामंदकैरवामोदाम्
॥
85
॥
तद्वापिकांतराले
तरले
मणिपोतसीम्नि
विहरंतीम्
।
सिंदूरपाटलांगीं
सितकिरणांकूरकल्पितवतंसाम्
॥
86
॥
पर्वेंदुबिंबवदनां
पल्लवशोणाधरस्फुरितहासाम्
।
कुटिलकबरीं
कुरंगी-
-शिशुनयनां
कुंडलस्फुरितगंडाम्
॥
87
॥
निकटस्थपोतनिलयाः
शक्तीः
शयविधृतहेमशृंगजलैः
।
परिषिंचंतीं
परित-
-स्तारां
तारुण्यगर्वितां
वंदे
॥
88
॥
प्रागुक्तसंख्ययोजनदूरे
प्रणमामि
बुद्धिमयसालम्
।
अनयोरंतरकक्ष्या-
-मष्टापदपुष्टमेदिनीं
रुचिराम्
॥
89
॥
कादंबरीनिधानां
कलयाम्यानंदवापिकां
तस्याम्
।
शोणाश्मनिवहनिर्मित-
-सोपानश्रेणिशोभमानतटीम्
॥
90
॥
माणिक्यतरणिनिलयां
मध्ये
तस्या
मदारुणकपोलाम्
।
अमृतेशीत्यभिधाना-
-मंतः
कलयामि
वारुणीं
देवीम्
॥
91
॥
सौवर्णकेनिपातन-
-हस्ताः
सौंदर्यगर्विता
देव्यः
।
तत्पुरतः
स्थितिभाजो
वितरंत्वस्माकमायुषो
वृद्धिम्
॥
92
॥
तस्य
पृषदश्वयोजन-
-दूरेऽहंकारसालमतितुंगम्
।
वंदे
तयोश्च
मध्ये
कक्ष्यां
वलमानमलयपवमानाम्
॥
93
॥
विनुमो
विमर्शवापीं
सौषुम्नसुधास्वरूपिणीं
तत्र
।
वेलातिलंघ्यवीची-
-कोलाहलभरितकूलवनवाटीम्
॥
94
॥
तत्रैव
सलिलमध्ये
तापिंछदलप्रपंचसुषमाभाम्
।
श्यामलकंचुकलसितां
श्यामाविटबिंबडंबरहरास्याम्
॥
95
॥
आभुग्नमसृणचिल्ली-
-हसितायुग्मशरकार्मुकविलासाम्
।
मंदस्मितांचितमुखीं
मणिमयताटंकमंडितकपोलाम्
॥
96
॥
कुरुविंदतरणिनिलयां
कुलाचलस्पर्धिकुचनमन्मध्याम्
।
कुंकुमविलिप्तगात्रीं
कुरुकुल्लां
मनसि
कुर्महे
सततम्
॥
97
॥
तत्सालोत्तरभागे
भानुमयं
वप्रमाश्रये
दीप्तम्
।
मध्यं
च
विपुलमनयो-
-र्मन्ये
विश्रांतमातपोद्गारम्
॥
98
॥
तत्र
कुरुविंदपीठे
तामरसे
कनककर्णिकाघटिते
।
आसीनमरुणवासस-
-मम्लानप्रसवमालिकाभरणम्
॥
99
॥
चक्षुष्मतीप्रकाशन-
-शक्तिच्छायासमारचितकेलिम्
।
माणिक्यमुकुटरम्यं
मन्ये
मार्तांडभैरवं
हृदये
॥
100
॥
इंदुमयसालमीडे
तस्योत्तरतस्तुषारगिरिगौरम्
।
अत्यंतशिशिरमारुत-
-मनयोर्मध्यं
च
चंद्रिकोद्गारम्
॥
101
॥
तत्र
प्रकाशमानं
तारानिकरैः
परिष्कृतोद्देशम्
।
अमृतमयकांतिकंदल-
-मंतः
कलयामि
कुंदसितमिंदुम्
॥
102
॥
शृंगारसालमीडे
शृंगोल्लसितं
तदुत्तरे
भागे
।
मध्यस्थले
तयोरपि
महितां
शृंगारपूर्विकां
परिखाम्
॥
103
॥
तत्र
मणिनौस्थिताभि-
-स्तपनीयाविरचिताग्रहस्ताभिः
।
शृंगारदेवताभिः
सहितं
परिखाधिपं
भजे
मदनम्
॥
104
॥
शृंगारवरणवर्यस्योत्तरतः
सकलविबुधसंसेव्यम्
।
चिंतामणिगणरचितं
चिंतां
दूरीकरोतु
मे
सदनम्
॥
105
॥
मणिसदनसालयोरधि-
-मध्यं
दशतालभूमिरुहदीर्घैः
।
पर्णैः
सुवर्णवर्णै-
-र्युक्तां
कांडैश्च
योजनोत्तुंगैः
॥
106
॥
मृदुलैस्तालीपंचक-
-मानैर्मिलितां
च
केसरकदंबैः
।
संततगलितमरंद-
-स्रोतोनिर्यन्मिलिंदसंदोहाम्
॥
107
॥
पाटीरपवनबालक-
-धाटीनिर्यत्परागपिंजरिताम्
।
कलहंसीकुलकलकल-
-कूलंकषनिनदनिचयकमनीयाम्
॥
108
॥
पद्माटवीं
भजामः
परिमलकल्लोलपक्ष्मलोपांताम्
।
[
देव्यर्घ्यपात्रधारी
तस्याः
पूर्वदिशि
दशकलायुक्तः
।
]
वलयितमूर्तिर्भगवा-
-न्वह्निः
क्रोशोन्नतश्चिरं
पायात्
॥
109
॥
तत्राधारे
देव्याः
पात्रीरूपः
प्रभाकरः
श्रीमान्
।
द्वादशकलासमेतो
ध्वांतं
मम
बहुलमांतरं
भिंद्यात्
॥
110
॥
तस्मिन्
दिनेशपात्रे
तरंगितामोदममृतमयमर्घ्यम्
।
चंद्रकलात्मकममृतं
सांद्रीकुर्यादमंदमानंदम्
॥
111
॥
अमृते
तस्मिन्नभितो
विहरंत्यो
विविधमणितरणिभाजः
।
षोडश
कलाः
सुधांशोः
शोकादुत्तारयंतु
मामनिशम्
॥
112
॥
तत्रैव
विहृतिभाजो
धातृमुखानां
च
कारणेशानाम्
।
सृष्ट्यादिरूपिकास्ताः
शमयंत्वखिलाः
कलाश्च
संतापम्
॥
113
॥
कीनाशवरुणकिन्नर-
-राजदिगंतेषु
रत्नगेहस्य
।
कलयामि
तान्यजस्रं
कलयंत्वायुष्यमर्घ्यपात्राणि
॥
114
॥
पात्रस्थलस्य
पुरतः
पद्मारमणविधिपार्वतीशानाम्
।
भवनानि
शर्मणे
नो
भवंतु
भासा
प्रदीपितजगंति
॥
115
॥
सदनस्यानलकोणे
सततं
प्रणमामि
कुंडमाग्नेयम्
।
तत्र
स्थितं
च
वह्निं
तरलशिखाजटिलमंबिकाजनकम्
॥
116
॥
तस्यासुरदिशि
तादृश-
-रत्नपरिस्फुरितपर्वनवकाढ्यम्
।
चक्रात्मकं
शतांगं
शतयोजनमुन्नतं
भजे
दिव्यम्
॥
117
॥
तत्रैव
दिशि
निषण्णं
तपनीयध्वजपरंपराश्लिष्टम्
।
रथमपरं
च
भवान्या
रचयामो
मनसि
रत्नमयचूडम्
॥
118
॥
भवनस्य
वायुभागे
परिष्कृतो
विविधवैजयंतीभिः
।
रचयतु
मुदं
रथेंद्रः
सचिवेशान्याः
समस्तवंद्यायाः
॥
119
॥
कुर्मोऽधिहृदयमनिशं
क्रोडास्यायाः
शतांगमूर्धन्यम्
।
रुद्रदिशि
रत्नधाम्नो
रुचिरशलाकाप्रपंचकंचुकितम्
॥
120
॥
परितो
देवीधाम्नः
प्रणीतवासा
मनुस्वरूपिण्यः
।
कुर्वंतु
रश्मिमाला-
-कृतयः
कुशलानि
देवता
निखिलाः
॥
121
॥
प्राग्द्वारस्य
भवानी-
-धाम्नः
पार्श्वद्वयारचितवासे
।
मातंगीकिटिमुख्यौ
मणिसदने
मनसि
भावयामि
चिरम्
॥
122
॥
योजनयुगलाभोगा
तत्क्रोशपरिणाहयैव
भित्त्या
च
।
चिंतामणिगृहभूमि-
-र्जीयादाम्नायमयचतुर्द्वारा
॥
123
॥
द्वारे
द्वारे
धाम्नः
पिंडीभूता
नवीनबिंबाभाः
।
विदधतु
विपुलां
कीर्तिं
दिव्या
लौहित्यसिद्ध्यो
देव्यः
॥
124
॥
मणिसदनस्यांतरतो
महनीये
रत्नवेदिकामध्ये
।
बिंदुमयचक्रमीडे
पीठानामुपरि
विरचितावासम्
॥
125
॥
चक्राणां
सकलानां
प्रथममधः
सीमफलकवास्तव्याः
।
अणिमादिसिद्धयो
मा-
-मवंतु
देवी
प्रभास्वरूपिण्यः
॥
126
॥
अणिमादिसिद्धिफलक-
-स्योपरिहरिणांकखंडकृतचूडाः
।
भद्रं
पक्ष्मलयंतु
ब्राह्मीप्रमुखाश्च
मातरोऽस्माकम्
॥
127
॥
तस्योपरि
मणिफलके
तारुण्योत्तुंगपीनकुचभाराः
।
संक्षोभिणीप्रधानाः
भ्रांति
विद्रावयंतु
दश
मुद्राः
॥
128
॥
फलकत्रयस्वरूपे
पृथुले
त्रैलोक्यमोहने
चक्रे
।
दीव्यंतु
प्रकटाख्या-
-स्तासां
कर्त्रीं
च
भगवती
त्रिपुरा
॥
129
॥
तदुपरि
विपुले
धिष्ण्ये
तरलदृशस्तरुणकोकनदभासः
।
कामाकर्षिण्याद्याः
कलये
देवीः
कलाधरशिखंडाः
॥
130
॥
सर्वाशापरिपूरकचक्रे-
-ऽस्मिन्
गुप्तयोगिनीसेव्याः
।
त्रिपुरेशी
मम
दुरितं
तुद्यात्
कंठावलंबिमणिहारा
॥
131
॥
तस्योपरि
मणिपीठे
ताम्रांभोरुहदलप्रभाशोणाः
।
ध्यायाम्यनंगकुसुमा-
-प्रमुखा
देवीश्च
विधृतकूर्पासाः
॥
132
॥
संक्षोभकारकेऽस्मिं-
-श्चक्रे
श्रीत्रिपुरसुंदरी
साक्षात्
।
गोप्त्री
गुप्ततराख्याः
गोपायतु
मां
कृपार्द्रया
दृष्ट्या
॥
133
॥
संक्षोभिणीप्रधानाः
शक्तीस्तस्योर्ध्ववलयकृतवासाः
।
आलोलनीलवेणी-
-रंतः
कलयामि
यौवनोन्मत्ताः
॥
134
॥
सौभाग्यदायकेऽस्मिं-
-श्चक्रेशी
त्रिपुरवासिनी
जीयात्
।
शक्तीश्च
संप्रदायाभिधाः
समस्ताः
प्रमोदयंत्वनिशम्
॥
135
॥
मणिपीठोपरि
तासां
महति
चतुर्हस्तविस्तृते
वलये
।
संततविरचितवासाः
शक्तीः
कलयामि
सर्वसिद्धिमुखाः
॥
136
॥
सर्वार्थसाधकाख्ये
चक्रेऽमुष्मिन्
समस्तफलदात्री
।
त्रिपुरा
श्रीर्मम
कुशलं
दिशतादुत्तीर्णयोगिनीसेव्या
॥
137
॥
तासां
निलयस्योपरि
धिष्ण्ये
कौसुंभकंचुकमनोज्ञाः
।
सर्वाज्ञाद्याः
देव्यः
सकलाः
संपादयंतु
मम
कीर्तिम्
॥
138
॥
चक्रे
समस्तरक्षा-
-करनाम्न्यस्मिन्
समस्तजनसेव्याम्
।
मनसि
निगर्भासहितां
मन्ये
श्रीत्रिपुरमालिनीं
देवीम्
॥
139
॥
सर्वज्ञासदनस्योपरि
चक्रे
विपुले
समाकलितगेहाः
।
वंदे
वशिनीमुख्याः
शक्तीः
सिंदूररेणुरुचः
॥
140
॥
श्रीसर्वरोगहराख्य-
-चक्रेऽस्मिंस्त्रिपुरपूर्विकां
सिद्धाम्
।
वंदे
रहस्यनाम्ना
वेद्याभिः
शक्तिभिः
सदा
सेव्याम्
॥
141
॥
वशिनीगृहोपरिष्टा-
-द्विंशतिहस्तोन्नते
महापीठे
।
शमयंतु
शत्रुबृंदं
शस्त्राण्यस्त्राणि
चादिदंपत्योः
॥
142
॥
शस्त्रसदनोपरिष्टा-
-द्वलये
वलवैरिरत्नसंघटिते
।
कामेश्वरीप्रधानाः
कलये
देवीः
समस्तजनवंद्याः
॥
143
॥
चक्रेऽत्र
सर्वसिद्धिप्रद-
-नामनि
सर्वफलदात्री
।
त्रिपुरांबावतु
सततं
परापररहस्ययोगिनीसेव्या
॥
144
॥
कामेश्वरीगृहोपरिवलये
विविधमनुसंप्रदायज्ञाः
।
चत्वारो
युगनाथा
जयंतु
मित्रेशपूर्वकाः
गुरवः
॥
145
॥
नाथभवनोपरिष्टा-
-न्नानारत्नचयमेदुरे
पीठे
।
कामेश्याद्या
नित्याः
कलयंतु
मुदं
तिथिस्वरूपिण्यः
॥
146
॥
नित्यासदनस्योपरि
निर्मलमणिनिवहविरचिते
धिष्ण्ये
।
कुशलं
षडंगदेव्यः
कलयंत्वस्माकमुत्तरलनेत्राः
॥
147
॥
सदनस्योपरि
तासां
सर्वानंदमयनामके
बिंदौ
।
पंचब्रह्माकारां
मंचं
प्रणमामि
मणिगणाकीर्णम्
॥
148
॥
परितो
मणिमंचस्य
प्रलंबमाना
नियंत्रिता
पाशैः
।
मायामयी
जवनिका
मम
दुरितं
हरतु
मेचकच्छाया
॥
149
॥
मंचस्योपरि
लंब-
-न्मदनीपुन्नागमालिकाभरितम्
।
हरिगोपमयवितानं
हरतादालस्यमनिशमस्माकम्
॥
150
॥
पर्यंकस्य
भजामः
पादान्बिंबांबुदेंदुहेमरुचः
।
अजहरिरुद्रेशमया-
-ननलासुरमारुतेशकोणस्थान्
॥
151
॥
फलकं
सदाशिवमयं
प्रणौमि
सिंदूररेणुकिरणाभम्
।
आरभ्यांगेशीनां
सदनात्कलितं
च
रत्नसोपानम्
॥
152
॥
पट्टोपधानगंडक-
-चतुष्टयस्फुरितपाटलास्तरणम्
।
पर्यंकोपरि
घटितं
पातु
चिरं
हंसतूलशयनं
नः
॥
153
॥
तस्योपरि
निवसंतं
तारुण्यश्रीनिषेवितं
सततम्
।
आवृंतपुल्लहल्लक-
-मरीचिकापुंजमंजुलच्छायम्
॥
154
॥
सिंदूरशोणवसनं
शीतांशुस्तबकचुंबितकिरीटम्
।
कुंकुमतिलकमनोहर-
-कुटिलालिकहसितकुमुदबंधुशिशुम्
॥
155
॥
पूर्णेंदुबिंबवदनं
फुल्लसरोजातलोचनत्रितयम्
।
तरलापांगतरंगित-
-शफरांकनशास्त्रसंप्रदायार्थम्
॥
156
॥
मणिमयकुंडलपुष्य-
-न्मरीचिकल्लोलमांसलकपोलम्
।
विद्रुमसहोदराधर-
-विसृमरसुस्मितकिशोरसंचारम्
॥
157
॥
आमोदिकुसुमशेखर-
-मानीलभ्रूलतायुगमनोज्ञम्
।
वीटीसौरभवीची-
-द्विगुणितवक्त्रारविंदसौरभ्यम्
॥
158
॥
पाशांकुशेक्षुचाप-
-प्रसवशरस्फुरितकोमलकराब्जम्
।
काश्मीरपंकिलांगं
कामेशं
मनसि
कुर्महे
सततम्
॥
159
॥
तस्यांकभुवि
निषण्णां
तरुणकदंबप्रसूनकिरणाभाम्
।
शीतांशुखंडचूडां
सीमंतन्यस्तसांद्रसिंदूराम्
॥
160
॥
कुंकुमललामभास्व-
-न्निटिलां
कुटिलतरचिल्लिकायुगलाम्
।
नालीकतुल्यनयनां
नासांचलनटितमौक्तिकाभरणाम्
॥
161
॥
अंकुरितमंदहास-
-मरुणाधरकांतिविजितबिंबाभाम्
।
कस्तूरीमकरीयुत-
-कपोलसंक्रांतकनकताटंकाम्
॥
162
॥
कर्पूरसांद्रवीटी-
-कबलितवदनारविंदकमनीयाम्
।
कंबुसहोदरकंठ-
-प्रलंबमानाच्छमौक्तिककलापाम्
॥
163
॥
कह्लारदामकोमल-
-भुजयुगलस्फुरितरत्नकेयूराम्
।
करपद्ममूलविलस-
-त्कांचनमयकटकवलयसंदोहाम्
॥
164
॥
पाणिचतुष्टयविलस-
-त्पाशांकुशपुंड्रचापपुष्पास्त्राम्
।
कूलंकषकुचशिखरां
कुंकुमकर्दमितरत्नकूर्पासाम्
॥
165
॥
अणुदायादवलग्ना-
-मंबुदशोभासनाभिरोमलताम्
।
माणिक्यखचितकांची-
-मरीचिकाक्रांतमांसलनितंबाम्
॥
166
॥
करभोरुकांडयुगलां
जंघाजितकामजैत्रतूणीराम्
।
प्रपदपरिभूतकूर्मां
पल्लवसच्छायपदयुगमनोज्ञाम्
॥
167
॥
कमलभवकंजलोचन-
-किरीटरत्नांशुरंजितपदाब्जाम्
।
उन्मस्तकानुकंपा-
-मुत्तरलापांगपोषितानंगाम्
॥
168
॥
आदिमरसावलंबा-
-मनिदं
प्रथमोक्तिवल्लरीकलिकाम्
।
आब्रह्मकीटजननी-
-मंतः
कलयामि
सुंदरीमनिशम्
॥
169
॥
कस्तु
क्षितौ
पटीया-
-न्वस्तु
स्तोतुं
शिवांकवास्तव्यम्
।
अस्तु
चिरंतनसुकृतैः
प्रस्तुतकाम्याय
तन्मम
पुरस्तात्
॥
170
॥
प्रभुसम्मितोक्तिगम्यं
परमशिवोत्संगतुंगपर्यंकम्
।
तेजः
किंचन
दिव्यं
पुरतो
मे
भवतु
पुंड्रकोदंडम्
॥
171
॥
मधुरिमभरितशरासं
मकरंदस्यंदिमार्गणोदारम्
।
कैरविणीविटचूडं
कैवल्यायास्तु
किंचन
महो
नः
॥
172
॥
अक्षुद्रमिक्षुचापं
परोक्षमवलग्नसीम्नि
त्र्यक्षम्
।
क्षपयतु
मे
क्षेमेतर-
-मुक्षरथप्रेमपक्ष्मलं
तेजः
॥
173
॥
भृंगरुचिसंगरकरापांगं
शृंगारतुंगमरुणांगम्
।
मंगलमभंगुरं
मे
घटयतु
गंगाधरांगसंगि
महः
॥
174
॥
प्रपदाजितकूर्ममूर्जित-
-करुणं
भर्मरुचिनिर्मथनदेहम्
।
श्रितवर्म
मर्म
शंभोः
किंचन
मम
नर्म
शर्म
निर्मातु
॥
175
॥
कालकुरलालिकालिम-
-कंदलविजितालि
विधृतमणिवालि
।
मिलतु
हृदि
पुलिनजघनं
बहुलितगलगरलकेलि
किमपि
महः
॥
176
॥
कुंकुमतिलकितफाला
कुरुविंदच्छायपाटलदुकूला
।
करुणापयोधिवेला
काचन
चित्ते
चकास्तु
मे
लीला
॥
177
॥
पुष्पंधयरुचिवेण्यः
पुलिनाभोगत्रपाकरश्रेण्यः
।
जीयासुरिक्षुपाण्यः
काश्चन
कामारिकेलिसाक्षिण्यः
॥
178
॥
तपनीयांशुकभांसि
द्राक्षामाधुर्यनास्तिकवचांसि
।
कतिचन
शुचं
महांसि
क्षपयतु
कपालितोषितमनांसि
॥
179
॥
असितकचमायताक्षं
कुसुमशरं
कूलमुद्वहकृपार्द्रम्
।
आदिमरसाधिदैवत-
-मंतः
कलये
हरांकवासि
महः
॥
180
॥
कर्णोपांततरंगित-
-कटाक्षविस्पंदिकंठदघ्नकृपाम्
।
कामेश्वरांकनिलयां
कामपि
विद्यां
पुरातनीं
कलये
॥
181
॥
अरविंदकांत्यरुंतुद-
-विलोचनद्वंद्वसुंदरमुखेंदु
।
छंदः
कंदलमंदिर-
-मंतःपुरमैंदुशेखरं
वंदे
॥
182
॥
बिंबिनिकुरंबडंबर-
-विडंबकच्छायमंबरवलग्नम्
।
कंबुगलमंबुदकुचं
बिंबोकं
कमपि
चुंबतु
मनो
मे
॥
183
॥
कमपि
कमनीयरूपं
कलयाम्यंतः
कदंबकुसुमाढ्यम्
।
चंपकरुचिरसुवेषैः
संपादितकांत्यलंकृतदिगंतम्
॥
184
॥
शंपारुचिभर-
-गर्हासंपादककांतिकवचितदिगंतम्
।
सिद्धांतं
निगमानां
शुद्धांतं
किमपि
शूलिनः
कलये
॥
185
॥
उद्यद्दिनकरशोणा-
-नुत्पलबंधुस्तनंधयापीडान्
।
करकलितपुंड्रचापा-
-न्कलये
कानपि
कपर्दिनः
प्राणान्
॥
186
॥
रशनालसज्जघनया
रसनाजीवातुचापभासुरया
।
घ्राणायुष्करशरया
घ्रातं
चित्तं
कयापि
वासनया
॥
187
॥
सरसिजसहयुध्वदृशा
शंपालतिकासनाभिविग्रहया
।
भासा
कयापि
चेतो
नासामणिशोभिवदनया
भरितम्
॥
188
॥
नवयावकाभसिचयान्वितया
गजयानया
दयापरया
।
धृतयामिनीशकलया
धिया
कयापि
क्षतामया
हि
वयम्
॥
189
॥
अलमलमकुसुमबाणै-
-रबिंबशोणैरपुंड्रकोदंडैः
।
अकुमुदबांधवचूडै-
-रन्यैरिह
जगति
दैवतं
मन्यैः
॥
190
॥
कुवलयसदृक्षनयनैः
कुलगिरिकूटस्थबंधुकुचभारैः
।
करुणास्पंदिकटाक्षैः
कवचितचित्तोऽस्मि
कतिपयैः
कुतुकैः
॥
191
॥
नतजनसुलभाय
नमो
नालीकसनाभिलोचनाय
नमः
।
नंदितगिरिशाय
नमो
महसे
नवनीपपाटलाय
नमः
॥
192
॥
कादंबकुसुमदाम्ने
कायच्छायाकणायितार्यम्णे
।
सीम्ने
चिरंतनगिरां
भूम्ने
कस्मैचिदाददे
प्रणतिम्
॥
193
॥
कुटिलकबरीभरेभ्यः
कुंकुमसब्रह्मचारिकिरणेभ्यः
।
कूलंकषस्तनेभ्यः
कुर्मः
प्रणतिं
कुलाद्रिकुतुकेभ्यः
॥
194
॥
कोकनदशोणचरणा-
-त्कोमलकुरलालिविजितशैवालात्
।
उत्पलसगंधिनयना-
-दुररीकुर्मो
न
देवतमान्याम्
॥
195
॥
आपाटलाधराणा-
-मानीलस्निग्धबर्बरकचानाम्
।
आम्नायजीवनाना-
-माकूतानां
हरस्य
दासोऽहम्
॥
196
॥
पुंखितविलासहास-
-स्फुरितासु
पुराहितांकनिलयासु
।
मग्नं
मनो
मदीयं
कास्वपि
कामारिजीवनाडीषु
॥
197
॥
ललिता
पातु
शिरो
मे
ललाटमंबा
च
मधुमतीरूपा
।
भ्रूयुग्मं
च
भवानी
पुष्पशरा
पातु
लोचनद्वंद्वम्
॥
198
॥
पायान्नासां
बाला
सुभगा
दंतांश्च
सुंदरी
जिह्वाम्
।
अधरोष्ठमादिशक्ति-
-श्चक्रेशी
पातु
मे
चिरं
चिबुकम्
॥
199
॥
कामेश्वरी
च
कर्णौ
कामाक्षी
पातु
गंडयोर्युगलम्
।
शृंगारनायिकाव्या-
-द्वदनं
सिंहासनेश्वरी
च
गलम्
॥
200
॥
स्कंदप्रसूश्च
पातु
स्कंधौ
बाहू
च
पाटलांगी
मे
।
पाणी
च
पद्मनिलया
पायादनिशं
नखावलीर्विजया
॥
201
॥
कोदंडिनी
च
वक्षः
कुक्षिं
चाव्यात्
कुलाचलतनूजा
।
कल्याणी
च
वलग्नं
कटिं
च
पायात्कलाधरशिखंडा
॥
202
॥
ऊरुद्वयं
च
पाया-
-दुमा
मृडानी
च
जानुनी
रक्षेत्
।
जंघे
च
षोडशी
मे
पायात्
पादौ
च
पाशसृणिहस्ता
॥
203
॥
प्रातः
पातु
परा
मां
मध्याह्ने
पातु
मणिगृहाधीशा
।
शर्वाण्यवतु
च
सायं
पायाद्रात्रौ
च
भैरवी
साक्षात्
॥
204
॥
भार्यां
रक्षतु
गौरीं
पायात्
पुत्रांश्च
बिंदुगृहपीठा
।
श्रीविद्या
च
यशो
मे
शीलं
चाव्याच्चिरं
महाराज्ञी
॥
205
॥
पवनमयि
पावकमयि
क्षोणीमयि
गगनमयि
कृपीटमयि
।
रविमयि
शशिमयि
दिङ्मयि
समयमयि
प्राणमयि
शिवे
पाहि
॥
206
॥
कालि
कपालिनि
शूलिनि
भैरवि
मातंगि
पंचमि
त्रिपुरे
।
वाग्देवि
विंध्यवासिनि
बाले
भुवनेशि
पालय
चिरं
माम्
॥
207
॥
अभिनवसिंदूराभा-
-मंब
त्वां
चिंतयंति
ये
हृदये
।
उपरि
निपतंति
तेषा-
-मुत्पलनयनाकटाक्षकल्लोलाः
॥
208
॥
वर्गाष्टकमिलिताभि-
-र्वशिनीमुख्याभिरावृतां
भवतीम्
।
चिंतयतां
सितवर्णां
वाचो
निर्यांत्ययत्नतो
वदनात्
॥
209
॥
कनकशलाकागौरीं
कर्णव्यालोलकुंडलद्वितयाम्
।
प्रहसितमुखीं
च
भवतीं
ध्यायंतो
ये
त
एव
भूधनदाः
॥
210
॥
शीर्षांभोरुहमध्ये
शीतलपीयूषवर्षिणीं
भवतीम्
।
अनुदिनमनुचिंतयता-
-मायुष्यं
भवति
पुष्कलमवन्याम्
॥
211
॥
मधुरस्मितां
मदारुणनयनां
मातंगकुंभवक्षोजाम्
।
चंद्रवतंसिनीं
त्वां
सविधे
पश्यंति
सुकृतिनः
केचित्
॥
212
॥
ललितायाः
स्तवरत्नं
ललितपदाभिः
प्रणीतमार्याभिः
।
प्रतिदिनमवनौ
पठतां
फलानि
वक्तुं
प्रगल्भते
सैव
॥
213
॥
सदसदनुग्रहनिग्रह-
-गृहीतमुनिविग्रहो
भगवान्
।
सर्वासामुपनिषदां
दुर्वासा
जयति
देशिकः
प्रथमः
॥
214
॥
इति
महर्षिदुर्वासः
विरचितं
श्रीललितास्तवरत्नम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits