Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री ललिता सहस्र नामावलिः

ध्यानम् –
सिंदूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामंबिकाम् ॥
अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् ।
सर्वालंकारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शांतमूर्तिं सकलसुरनुतां सर्वसंपत्प्रदात्रीम् ॥
सकुंकुमविलेपनामलिकचुंबिकस्तूरिकां
समंदहसितेक्षणां सशरचापपाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मरेदंबिकाम् ॥
अथ श्री ललिता सहस्रनामावली –
ओं ओं ऐं ह्रीं श्रीं श्रीमात्रे नमः ।
ओं श्रीमहाराज्ञै नमः ।
ओं श्रीमत्सिंहासनेश्वर्यै नमः ।
ओं चिदग्निकुंडसंभूतायै नमः ।
ओं देवकार्यसमुद्यतायै नमः ।
ओं ओं उद्यद्भानुसहस्राभायै नमः ।
ओं चतुर्बाहुसमन्वितायै नमः ।
ओं रागस्वरूपपाशाढ्यायै नमः ।
ओं क्रोधाकारांकुशोज्ज्वलायै नमः ।
ओं मनोरूपेक्षुकोदंडायै नमः । 10
ओं पंचतन्मात्रसायकायै नमः ।
ओं निजारुणप्रभापूरमज्जद् ब्रह्मांडमंडलायै नमः ।
ओं चंपकाशोकपुन्नागसौगंधिक-लसत्कचायै नमः ।
ओं कुरुविंदमणिश्रेणीकनत्कोटीरमंडितायै नमः ।
ओं ओं अष्टमीचंद्रविभ्राजदलिकस्थलशोभितायै नमः ।
ओं मुखचंद्रकलंकाभमृगनाभिविशेषकायै नमः ।
ओं वदनस्मरमांगल्यगृहतोरणचिल्लिकायै नमः ।
ओं वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचनायै नमः ।
ओं नवचंपकपुष्पाभनासादंडविराजितायै नमः ।
ओं ताराकांतितिरस्कारिनासाभरणभासुरायै नमः । 20
ओं कदंबमंजरीक्~लुप्तकर्णपूरमनोहरायै नमः ।
ओं ताटंकयुगलीभूततपनोडुपमंडलायै नमः ।
ओं पद्मरागशिलादर्शपरिभाविकपोलभुवे नमः ।
ओं नवविद्रुमबिंबश्रीन्यक्कारिरदनच्छदायै नमः ।
ओं शुद्धविद्यांकुराकारद्विजपंक्तिद्वयोज्ज्वलायै नमः ।
ओं कर्पूरवीटिकामोदसमाकर्षि दिगंतरायै नमः ।
ओं निजसल्लापमाधुर्य विनिर्भत्सितकच्छप्यै नमः ।
ओं मंदस्मितप्रभापूरमज्जत्कामेशमानसायै नमः ।
ओं अनाकलितसादृश्यचिबुकश्रीविराजितायै नमः ।
ओं कामेशबद्धमांगल्यसूत्रशोभितकंधरायै नमः । 30
ओं कनकांगदकेयूरकमनीयमुजान्वितायै नमः ।
ओं रत्नग्रैवेय चिंताकलोलमुक्ताफलान्वितायै नमः ।
ओं कामेश्वारप्रेमरत्नमणिप्रतिपणस्तन्यै नमः ।
ओं नाभ्यालवालरोमालिलताफलकुचद्वय्यै नमः ।
ओं लक्ष्यरोमलताधारतासमुन्नेयमध्यमायै नमः ।
ओं स्तनभारदलन्मध्यपट्टबंधवलित्रयायै नमः ।
ओं ओं अरुणारुणकौसुंभवस्त्रभास्वत्कटीतट्यै नमः ।
ओं रत्नकिंकिणिकारम्यरशनादामभूषितायै नमः ।
ओं कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्वितायै नमः ।
ओं माणिक्यमुकुटाकारजानुद्वयविराजितायै नमः । 40
ओं इंद्रगोपपरिक्षिप्तस्मरतूणाभजंघिकायै नमः ।
ओं गूढगूल्फायै नमः ।
ओं कूर्म पृष्ठजयिष्णुप्रपदान्वितायै नमः ।
ओं नखदीधितिसंछन्ननमज्जनतमोगुणायै नमः ।
ओं पदद्वयप्रभाजालपराकृतसरोरुहायै नमः ।
ओं शिंजानमणिमंजीरमंडितश्रीपदांबुजायै नमः ।
ओं मरालीमंदगमनायै नमः ।
ओं महालावण्यशेवधये नमः ।
ओं सर्वारुणायै नमः ।
ओं अनवद्यांग्यै नमः । 50
ओं सर्वाभरणभूषितायै नमः ।
ओं शिवकामेश्वरांकस्थायै नमः ।
ओं शिवायै नमः ।
ओं स्वाधीनवल्लभायै नमः ।
ओं सुमेरुमध्यशृंगस्थायै नमः ।
ओं श्रीमन्नगरनायिकायै नमः ।
ओं चिंतामणिगृहांतस्थायै नमः ।
ओं पंचब्रह्मासनस्थितायै नमः ।
ओं महापद्माटवीसंस्थायै नमः ।
ओं कदंबवनवासिन्यै नमः । 60
ओं सुधासागरमध्यस्थायै नमः ।
ओं कामाक्ष्यै नमः ।
ओं कामदायिन्यै नमः ।
ओं देवर्षिगणसंघातस्तूयमानात्मवैभायै नमः ।
ओं भंडासुरवधोद्युक्तशक्तिसेनासमन्वितायै नमः ।
ओं संपत्करीसमारूढसिंदुरव्रजसेवितायै नमः ।
ओं ओं अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृतायै नमः ।
ओं चक्रराजरथारूढसर्वायुधपरिष्कृतायै नमः ।
ओं गेयचक्ररथारूढमंत्रिणीपरिसेवितायै नमः ।
ओं किरिचक्ररथारूढदंडनाथापुरस्कृतायै नमः । 70
ओं ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगायै नमः ।
ओं भंडसैन्यवधोद्युक्तशक्तिविक्रमहर्षितायै नमः ।
ओं नित्यापराक्रमाटोपनिरीक्षणसमुत्सुकायै नमः ।
ओं भंडपुत्रवधोद्युक्तबालाविक्रमनंदितायै नमः ।
ओं मंत्रिण्यंबाविरचितविषंगवधतोषितायै नमः ।
ओं विशुक्रप्राणहरणवाराहीवीर्यनंदितायै नमः ।
ओं कामेश्वरमुखालोककल्पितश्रीगणेश्वरायै नमः ।
ओं महागणेशनिर्भिन्नविघ्नयंत्रप्रहर्षितायै नमः ।
ओं भंडासुरेंद्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिण्यै नमः ।
ओं करांगुलिनखोत्पन्ननारायणदशाकृत्यै नमः । 80
ओं महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिकायै नमः ।
ओं कामेश्वरास्त्रनिर्दग्धसभांडासुरशून्यकायै नमः ।
ओं ब्रह्मोपेंद्रमहेंद्रादिदेवसंस्तुतवैभवायै नमः ।
ओं हरनेत्राग्निसंदग्धकामसंजीवनौषध्यै नमः ।
ओं श्रीमद्वाग्भवकूटैकस्वरूपमुखपंकजायै नमः ।
ओं कंठाधः कटिपर्यंतमध्यकूटस्वरूपिण्यै नमः ।
ओं शक्तिकूटैकतापन्नकट्यधोभागधारिण्यै नमः ।
ओं ओं मूलमंत्रात्मिकायै नमः ।
ओं मूलकूटत्रयकलेबरायै नमः ।
ओं कुलामृतैकरसिकायै नमः । 90
ओं कुलसंकेतपालिन्यै नमः ।
ओं कुलांगनायै नमः ।
ओं कुलांतःस्थायै नमः ।
ओं कौलिन्यै नमः ।
ओं कुलयोगिन्यै नमः ।
ओं अकुलायै नमः ।
ओं समयांतस्थायै नमः ।
ओं समयाचारतत्परायै नमः ।
ओं मूलाधारैकनिलयायै नमः ।
ओं ब्रह्मग्रंथिविभेदिन्यै नमः । 100
ओं मणिपूरांतरुदितायै नमः ।
ओं विष्णुग्रंथिविभेदिन्यै नमः ।
ओं आज्ञाचक्रांतरालस्थायै नमः ।
ओं रुद्रग्रंथिविभेदिन्यै नमः ।
ओं सहस्रारांबुजारूढायै नमः ।
ओं सुधासाराभिवर्षिण्यै नमः ।
ओं तटिल्लतासमरुच्यै नमः ।
ओं षट्चक्रोपरिसंस्थितायै नमः ।
ओं महासक्त्यै नमः ।
ओं ओं कुंडलिन्यै नमः । 110
ओं बिसतंतुतनीयस्यै नमः ।
ओं भवान्यै नमः ।
ओं भावनागम्यायै नमः ।
ओं भवारण्यकुठारिकायै नमः ।
ओं भद्रप्रियायै नमः ।
ओं भद्रमूर्त्यै नमः ।
ओं भक्तसौभाग्यदायिन्यै नमः ।
ओं भक्तिप्रियायै नमः ।
ओं भक्तिगम्यायै नमः ।
ओं भक्तिवश्यायै नमः । 120
ओं भयापहायै नमः ।
ओं शांभव्यै नमः ।
ओं शारदाराध्यायै नमः ।
ओं शर्वाण्यै नमः ।
ओं शर्मदायिन्यै नमः ।
ओं शांकर्यै नमः ।
ओं श्रीकर्यै नमः ।
ओं साध्व्यै नमः ।
ओं शरच्चंद्रनिभाननायै नमः ।
ओं शातोदर्यै नमः । 130
ओं शांतिमत्यै नमः ।
ओं ओं निराधारायै नमः ।
ओं निरंजनायै नमः ।
ओं निर्लेपायै नमः ।
ओं निर्मलायै नमः ।
ओं नित्यायै नमः ।
ओं निराकारायै नमः ।
ओं निराकुलायै नमः ।
ओं निर्गुणायै नमः ।
ओं निष्कलायै नमः । 140
ओं शांतायै नमः ।
ओं निष्कामायै नमः ।
ओं निरुपप्लवायै नमः ।
ओं नित्यमुक्तायै नमः ।
ओं निर्विकारायै नमः ।
ओं निष्प्रपंचायै नमः ।
ओं निराश्रयायै नमः ।
ओं नित्यशुद्धायै नमः ।
ओं नित्यबुद्धायै नमः ।
ओं निरवद्यायै नमः । 150
ओं निरंतरायै नमः ।
ओं निष्कारणायै नमः ।
ओं निष्कलंकायै नमः ।
ओं ओं निरुपाधये नमः ।
ओं निरीश्वरायै नमः ।
ओं नीरागयै नमः ।
ओं रागमथन्यै नमः ।
ओं निर्मदायै नमः ।
ओं मदनाशिन्यै नमः ।
ओं निश्चिंतायै नमः । 160
ओं निरहंकारायै नमः ।
ओं निर्मोहायै नमः ।
ओं मोहनाशिन्यै नमः ।
ओं निर्ममायै नमः ।
ओं ममताहंत्र्यै नमः ।
ओं निष्पापायै नमः ।
ओं पापनाशिन्यै नमः ।
ओं निष्क्रोधायै नमः ।
ओं क्रोधशमन्यै नमः ।
ओं निर्लोभायै नमः । 170
ओं लोभनाशिन्यै नमः ।
ओं निःसंशयायै नमः ।
ओं संशयघ्न्यै नमः ।
ओं निर्भवायै नमः ।
ओं भवनाशिन्यै नमः ।
ओं ओं निर्विकल्पायै नमः ।
ओं निराबाधायै नमः ।
ओं निर्भेदायै नमः ।
ओं भेदनाशिन्यै नमः ।
ओं निर्नाशायै नमः । 180
ओं मृत्युमथन्यै नमः ।
ओं निष्क्रियायै नमः ।
ओं निष्परिग्रहायै नमः ।
ओं निस्तुलायै नमः ।
ओं नीलचिकुरायै नमः ।
ओं निरपायायै नमः ।
ओं निरत्ययायै नमः ।
ओं दुर्लभायै नमः ।
ओं दुर्गमायै नमः ।
ओं दुर्गायै नमः । 190
ओं दुःखहंत्र्यै नमः ।
ओं सुखप्रदायै नमः ।
ओं दुष्टदूरायै नमः ।
ओं दुराचारशमन्यै नमः ।
ओं दोषवर्जितायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सांद्रकरुणायै नमः ।
ओं ओं समानाधिकवर्जितायै नमः ।
ओं सर्वशक्तिमय्यै नमः ।
ओं सर्वमंगलायै नमः । 200
ओं सद्गतिप्रदायै नमः ।
ओं सर्वेश्वयै नमः ।
ओं सर्वमय्यै नमः ।
ओं सर्वमंत्रस्वरूपिण्यै नमः ।
ओं सर्वयंत्रात्मिकायै नमः ।
ओं सर्वतंत्ररूपायै नमः ।
ओं मनोन्मन्यै नमः ।
ओं माहेश्वर्यै नमः ।
ओं महादेव्यै नमः ।
ओं महालक्ष्म्यै नमः । 210
ओं मृडप्रियायै नमः ।
ओं महारूपायै नमः ।
ओं महापूज्यायै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं महामायायै नमः ।
ओं महासत्वायै नमः ।
ओं महाशक्त्यै नमः ।
ओं महारत्यै नमः ।
ओं महाभोगायै नमः ।
ओं ओं महैश्वर्यायै नमः । 220
ओं महावीर्यायै नमः ।
ओं महाबलायै नमः ।
ओं महाबुद्ध्यै नमः ।
ओं महासिद्ध्यै नमः ।
ओं महायोगेश्वरेश्वर्यै नमः ।
ओं महातंत्रायै नमः ।
ओं महामंत्रायै नमः ।
ओं महायंत्रायै नमः ।
ओं महासनायै नमः ।
ओं महायागक्रमाराध्यायै नमः । 230
ओं महाभैरवपूजितायै नमः ।
ओं महेश्वरमहाकल्पमहा तांडवसाक्षिण्यै नमः ।
ओं महाकामेशमहिष्यै नमः ।
ओं महात्रिपुरसुंदर्यै नमः ।
ओं चतुःषष्ट्युपचाराढ्यायै नमः ।
ओं चतुःषष्टिकलामय्यै नमः ।
ओं महाचतुःषष्टिकोटि योगिनीगणसेवितायै नमः ।
ओं मनुविद्यायै नमः ।
ओं चंद्रविद्यायै नमः ।
ओं ओं चंद्रमंडलमध्यगायै नमः । 240
ओं चारुरूपायै नमः ।
ओं चारुहासायै नमः ।
ओं चारुचंद्रकलाधरायै नमः ।
ओं चराचरजगन्नाथायै नमः ।
ओं चक्रराजनिकेतनायै नमः ।
ओं पार्वत्यै नमः ।
ओं पद्मनयनायै नमः ।
ओं पद्मरागसमप्रभायै नमः ।
ओं पंचप्रेतासनासीनायै नमः ।
ओं पंचब्रह्मस्परूपिण्यै नमः । 250
ओं चिन्मय्यै नमः ।
ओं परमानंदायै नमः ।
ओं विज्ञानघनरूपिण्यै नमः ।
ओं ध्यानध्यातृध्येयरूपायै नमः ।
ओं र्ध्माधर्मविवर्जितायै नमः ।
ओं विश्वरूपायै नमः ।
ओं जागरिण्यै नमः ।
ओं स्वपत्न्यै नमः ।
ओं तैजसात्मिकायै नमः ।
ओं सुप्तायै नमः । 260
ओं प्राज्ञात्मिकायै नमः ।
ओं ओं तुर्यायै नमः ।
ओं सर्वावस्थाविवर्जितायै नमः ।
ओं सृष्ठिकर्त्र्यै नमः ।
ओं ब्रह्मरूपायै नमः ।
ओं गोप्त्र्यै नमः ।
ओं गोविंदरूपिण्यै नमः ।
ओं संहारिण्यै नमः ।
ओं रुद्ररूपायै नमः ।
ओं तिरोधानकर्यै नमः । 270
ओं ईश्वर्यै नमः ।
ओं सदाशिवायै नमः ।
ओं अनुग्रहदायै नमः ।
ओं पंचकृत्यपरायणायै नमः ।
ओं भानुमंडलमध्यस्थायै नमः ।
ओं भैरव्यै नमः ।
ओं भगमालिन्यै नमः ।
ओं पद्मासनायै नमः ।
ओं भगवत्यै नमः ।
ओं पद्मनाभसहोदर्यै नमः । 280
ओं उन्मेषनिमिषोत्पन्नविपन्नभुवनावल्यै नमः ।
ओं सहस्रशीर्षवदनायै नमः ।
ओं ओं सहस्राक्ष्यै नमः ।
ओं सहस्रपदे नमः ।
ओं आब्रह्मकीटजनन्यै नमः ।
ओं वर्णाश्रमविधायिन्यै नमः ।
ओं निजाज्ञारूपनिगमायै नमः ।
ओं पुण्यापुण्यफलप्रदायै नमः ।
ओं श्रुतिसीमंतसिंदूरीकृत पादाब्जधूलिकायै नमः ।
ओं सकलागमसंदोहशुक्तिसंपुटमौक्तिकायै नमः । 290
ओं पुरुषार्थप्रदायै नमः ।
ओं पूर्णायै नमः ।
ओं भोगिन्यै नमः ।
ओं भुवनेश्वर्यै नमः ।
ओं अंबिकायै नमः ।
ओं अनादिनिधनायै नमः ।
ओं हरिब्रह्मेंद्रसेवितायै नमः ।
ओं नारायण्यै नमः ।
ओं नादरूपायै नमः ।
ओं नामरूपविवर्जितायै नमः । 300
ओं ह्रींकार्यै नमः ।
ओं ह्रीमत्यै नमः ।
ओं ओं हृद्यायै नमः ।
ओं हेयोपादेयवर्जितायै नमः ।
ओं राजराजार्चितायै नमः ।
ओं राज्ञै नमः ।
ओं रम्यायै नमः ।
ओं राजीवलोचनायै नमः ।
ओं रंजन्यै नमः ।
ओं रमण्यै नमः । 310
ओं रस्यायै नमः ।
ओं रणत्किंकिणिमेखलायै नमः ।
ओं रमायै नमः ।
ओं राकेंदुवदनायै नमः ।
ओं रतिरूपायै नमः ।
ओं रतिप्रियायै नमः ।
ओं रक्षाकर्यै नमः ।
ओं राक्षसघ्न्यै नमः ।
ओं रामायै नमः ।
ओं रमणलंपटायै नमः । 320
ओं काम्यायै नमः ।
ओं कामकलारूपायै नमः ।
ओं कदंबकुसुमप्रियायै नमः ।
ओं कल्याण्यै नमः ।
ओं ओं जगतीकंदायै नमः ।
ओं करुणारससागरायै नमः ।
ओं कलावत्यै नमः ।
ओं कलालापायै नमः ।
ओं कांतायै नमः ।
ओं कादंबरीप्रियायै नमः । 330
ओं वरदायै नमः ।
ओं वामनयनायै नमः ।
ओं वारुणीमदविह्वलायै नमः ।
ओं विश्वाधिकायै नमः ।
ओं वेदवेद्यायै नमः ।
ओं विंध्याचलनिवासिन्यै नमः ।
ओं विधात्र्यै नमः ।
ओं वेदजनन्यै नमः ।
ओं विष्णुमायायै नमः ।
ओं विलासिन्यै नमः । 340
ओं क्षेत्रस्वरूपायै नमः ।
ओं क्षेत्रेश्यै नमः ।
ओं क्षेत्रक्षेत्रज्ञपालिन्यै नमः ।
ओं क्षयवृद्धिविनिर्मुक्तायै नमः ।
ओं क्षेत्रपालसमर्चितायै नमः ।
ओं विजयायै नमः ।
ओं ओं विमलायै नमः ।
ओं वंद्यायै नमः ।
ओं वंदारुजनवत्सलायै नमः ।
ओं वाग्वादिन्यै नमः । 350
ओं वामकेश्यै नमः ।
ओं वह्निमंडलवासिन्यै नमः ।
ओं भक्तिमत्कल्पलतिकायै नमः ।
ओं पशुपाशविमोचिन्यै नमः ।
ओं संहृताशेषपाषंडायै नमः ।
ओं सदाचारप्रवर्तिकायै नमः ।
ओं तापत्रयाग्निसंतप्तसमाह्लादनचंद्रिकायै नमः ।
ओं तरुण्यै नमः ।
ओं तापसाराध्यायै नमः ।
ओं तनुमध्यायै नमः । 360
ओं तमोपहायै नमः ।
ओं चित्यै नमः ।
ओं तत्पदलक्ष्यार्थायै नमः ।
ओं चिदेकरसरूपिण्यै नमः ।
ओं स्वात्मानंदलवीभूत-ब्रह्माद्यानंदसंतत्यै नमः ।
ओं परायै नमः ।
ओं ओं प्रत्यक् चितीरूपायै नमः ।
ओं पश्यंत्यै नमः ।
ओं परदेवतायै नमः ।
ओं मध्यमायै नमः । 370
ओं वैखरीरूपायै नमः ।
ओं भक्तमानसहंसिकायै नमः ।
ओं कामेश्वरप्राणनाड्यै नमः ।
ओं कृतज्ञायै नमः ।
ओं कामपूजितायै नमः ।
ओं श्रृंगाररससंपूर्णायै नमः ।
ओं जयायै नमः ।
ओं जालंधरस्थितायै नमः ।
ओं ओड्याणपीठनिलयायै नमः ।
ओं बिंदुमंडलवासिन्यै नमः । 380
ओं रहोयागक्रमाराध्यायै नमः ।
ओं रहस्तर्पणतर्पितायै नमः ।
ओं सद्यः प्रसादिन्यै नमः ।
ओं विश्वसाक्षिण्यै नमः ।
ओं साक्षिवर्जितायै नमः ।
ओं षडंगदेवतायुक्तायै नमः ।
ओं षाड्गुण्यपरिपूरितायै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं ओं निरुपमायै नमः ।
ओं निर्वाणसुखदायिन्यै नमः । 390
ओं नित्याषोडशिकारूपायै नमः ।
ओं श्रीकंठार्धशरीरिण्यै नमः ।
ओं प्रभावत्यै नमः ।
ओं प्रभारूपायै नमः ।
ओं प्रसिद्धायै नमः ।
ओं परमेश्वर्यै नमः ।
ओं मूलप्रकृत्यै नमः ।
ओं अव्यक्तायै नमः ।
ओं व्क्ताव्यक्तस्वरूपिण्यै नमः ।
ओं व्यापिन्यै नमः । 400
ओं विविधाकारायै नमः ।
ओं विद्याविद्यास्वरूपिण्यै नमः ।
ओं महाकामेशनयनकुमुदाह्लादकौमुद्यै नमः ।
ओं भक्ताहार्दतमोभेदभानुमद्भानुसंतत्यै नमः ।
ओं शिवदूत्यै नमः ।
ओं शिवाराध्यायै नमः ।
ओं शिवमूर्त्यै नमः ।
ओं शिवंकर्यै नमः ।
ओं ओं शिवप्रियायै नमः ।
ओं शिवपरायै नमः । 410
ओं शिष्टेष्टायै नमः ।
ओं शिष्टपूजितायै नमः ।
ओं अप्रमेयायै नमः ।
ओं स्वप्रकाशायै नमः ।
ओं मनोवाचामगोचरायै नमः ।
ओं चिच्छक्त्यै नमः ।
ओं चेतनारूपायै नमः ।
ओं जडशक्त्यै नमः ।
ओं जडात्मिकायै नमः ।
ओं गायत्र्यै नमः । 420
ओं व्याहृत्यै नमः ।
ओं संध्यायै नमः ।
ओं द्विजवृंदनिषेवितायै नमः ।
ओं तत्त्वासनायै नमः ।
ओं तस्मै नमः ।
ओं तुभ्यं नमः ।
ओं अय्यै नमः ।
ओं पंचकोशांतरस्थितायै नमः ।
ओं निःसीममहिम्ने नमः ।
ओं नित्ययौवनायै नमः । 430
ओं ओं मदशालिन्यै नमः ।
ओं मदघूर्णितरक्ताक्ष्यै नमः ।
ओं मदपाटलगंडभुवे नमः ।
ओं चंदनद्रवदिग्धांग्यै नमः ।
ओं चांपेयकुसुमप्रियायै नमः ।
ओं कुशलायै नमः ।
ओं कोमलाकारायै नमः ।
ओं कुरुकुल्लायै नमः ।
ओं कुलेश्वर्यै नमः ।
ओं कुलकुंडालयायै नमः । 440
ओं कौलमार्गतत्परसेवितायै नमः ।
ओं कुमारगणनाथांबायै नमः ।
ओं तुष्ट्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं मत्यै नमः ।
ओं धृत्यै नमः ।
ओं शांत्यै नमः ।
ओं स्वस्तिमत्यै नमः ।
ओं कांत्यै नमः ।
ओं नंदिन्यै नमः । 450
ओं विघ्ननाशिन्यै नमः ।
ओं तेजोवत्यै नमः ।
ओं ओं त्रिनयनायै नमः ।
ओं लोलाक्षीकामरूपिण्यै नमः ।
ओं मालिन्यै नमः ।
ओं हंसिन्यै नमः ।
ओं मात्रे नमः ।
ओं मलयाचलवासिन्यै नमः ।
ओं सुमुख्यै नमः ।
ओं नलिन्यै नमः । 460
ओं सुभ्रुवे नमः ।
ओं शोभनायै नमः ।
ओं सुरनायिकायै नमः ।
ओं कालकंठ्यै नमः ।
ओं कांतिमत्यै नमः ।
ओं क्षोभिण्यै नमः ।
ओं सूक्ष्मरूपिण्यै नमः ।
ओं वज्रेश्वर्यै नमः ।
ओं वामदेव्यै नमः ।
ओं वयोऽवस्थाविवर्जितायै नमः । 470
ओं सिद्धेश्वर्यै नमः ।
ओं सिद्धविद्यायै नमः ।
ओं सिद्धमात्रे नमः ।
ओं यशस्विन्यै नमः ।
ओं ओं विशुद्धिचक्रनिलयायै नमः ।
ओं आरक्तवर्णायै नमः ।
ओं त्रिलोचनायै नमः ।
ओं खट्वांगादिप्रहरणायै नमः ।
ओं वदनैकसमन्वितायै नमः ।
ओं पायसान्नप्रियायै नमः । 480
ओं त्वक्स्थायै नमः ।
ओं पशुलोकभयंकर्यै नमः ।
ओं अमृतादिमहाशक्तिसंवृतायै नमः ।
ओं डाकिनीश्वर्यै नमः ।
ओं अनाहताब्जनिलयायै नमः ।
ओं श्यामाभायै नमः ।
ओं वदनद्वयायै नमः ।
ओं दंष्ट्रोज्वलायै नमः ।
ओं अक्षमालादिधरायै नमः ।
ओं रुधिरसंस्थितायै नमः । 490
ओं कालरात्र्यादिशक्त्यौघवृतायै नमः ।
ओं स्निग्धौदनप्रियायै नमः ।
ओं महावीरेंद्रवरदायै नमः ।
ओं राकिण्यंबास्वरूपिण्यै नमः ।
ओं मणिपूराब्जनिलयायै नमः ।
ओं ओं वदनत्रयसंयुतायै नमः ।
ओं वज्राधिकायुधोपेतायै नमः ।
ओं डामर्यादिभिरावृतायै नमः ।
ओं रक्तवर्णायै नमः ।
ओं मांसनिष्ठायै नमः । 500
ओं गुडान्नप्रीतमानसायै नमः ।
ओं समस्तभक्तसुखदायै नमः ।
ओं लाकिन्यंबास्वरूपिण्यै नमः ।
ओं स्वाधिष्टानांबुजगतायै नमः ।
ओं चतुर्वक्त्रमनोहरायै नमः ।
ओं शूलाद्यायुधसंपन्नायै नमः ।
ओं पीतवर्णायै नमः ।
ओं अतिगर्वितायै नमः ।
ओं मेदोनिष्ठायै नमः ।
ओं मधुप्रीतायै नमः । 510
ओं बंदिन्यादिसमन्वितायै नमः ।
ओं दध्यन्नासक्तहृदयायै नमः ।
ओं काकिनीरूपधारिण्यै नमः ।
ओं मूलाधारांबुजारूढायै नमः ।
ओं पंचवक्त्रायै नमः ।
ओं अस्थिसंस्थितायै नमः ।
ओं अंकुशादिप्रहरणायै नमः ।
ओं ओं वरदादि निषेवितायै नमः ।
ओं मुद्गौदनासक्तचित्तायै नमः ।
ओं साकिन्यंबास्वरूपिण्यै नमः । 520
ओं आज्ञाचक्राब्जनिलायै नमः ।
ओं शुक्लवर्णायै नमः ।
ओं षडाननायै नमः ।
ओं मज्जासंस्थायै नमः ।
ओं हंसवतीमुख्यशक्तिसमन्वितायै नमः ।
ओं हरिद्रान्नैकरसिकायै नमः ।
ओं हाकिनीरूपधारिण्यै नमः ।
ओं सहस्रदलपद्मस्थायै नमः ।
ओं सर्ववर्णोपशोभितायै नमः ।
ओं सर्वायुधधरायै नमः । 530
ओं शुक्लसंस्थितायै नमः ।
ओं सर्वतोमुख्यै नमः ।
ओं सर्वौदनप्रीतचित्तायै नमः ।
ओं याकिन्यंबास्वरूपिण्यै नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं अमत्यै नमः ।
ओं मेधायै नमः ।
ओं ओं श्रुत्यै नमः ।
ओं स्मृत्यै नमः । 540
ओं अनुत्तमायै नमः ।
ओं पुण्यकीर्त्यै नमः ।
ओं पुण्यलभ्यायै नमः ।
ओं पुण्यश्रवणकीर्तनायै नमः ।
ओं पुलोमजार्चितायै नमः ।
ओं बंधमोचन्यै नमः ।
ओं बर्बरालकायै नमः ।
ओं विमर्शरूपिण्यै नमः ।
ओं विद्यायै नमः ।
ओं वियदादिजगत्प्रसुवे नमः । 550
ओं सर्व व्याधिप्रशमन्यै नमः ।
ओं सर्व मृत्युनिवारिण्यै नमः ।
ओं अग्रगण्यायै नमः ।
ओं अचिंत्यरूपायै नमः ।
ओं कलिकल्मषनाशिन्यै नमः ।
ओं कात्यायन्यै नमः ।
ओं कालहंत्र्यै नमः ।
ओं कमलाक्षनिषेवितायै नमः ।
ओं तांबूलपूरितमुख्यै नमः ।
ओं दाडिमीकुसुमप्रभायै नमः । 560
ओं ओं मृगाक्ष्यै नमः ।
ओं मोहिन्यै नमः ।
ओं मुख्यायै नमः ।
ओं मृडान्यै नमः ।
ओं मित्ररूपिण्यै नमः ।
ओं नित्यतृप्तायै नमः ।
ओं भक्तनिधये नमः ।
ओं नियंत्र्यै नमः ।
ओं निखिलेश्वर्यै नमः ।
ओं मैत्र्यादिवासनालभ्यायै नमः । 570
ओं महाप्रलयसाक्षिण्यै नमः ।
ओं पराशक्त्यै नमः ।
ओं परानिष्ठायै नमः ।
ओं प्रज्ञानघनरूपिण्यै नमः ।
ओं माध्वीपानालसायै नमः ।
ओं मत्तायै नमः ।
ओं मातृकावर्ण रूपिण्यै नमः ।
ओं महाकैलासनिलयायै नमः ।
ओं मृणालमृदुदोर्लतायै नमः ।
ओं महनीयायै नमः । 580
ओं दयामूर्त्यै नमः ।
ओं महासाम्राज्यशालिन्यै नमः ।
ओं ओं आत्मविद्यायै नमः ।
ओं महाविद्यायै नमः ।
ओं श्रीविद्यायै नमः ।
ओं कामसेवितायै नमः ।
ओं श्रीषोडशाक्षरीविद्यायै नमः ।
ओं त्रिकूटायै नमः ।
ओं कामकोटिकायै नमः ।
ओं कटाक्षकिंकरीभूतकमलाकोटिसेवितायै नमः । 590
ओं शिरःस्थितायै नमः ।
ओं चंद्रनिभायै नमः ।
ओं भालस्थायै​ऐ नमः ।
ओं इंद्रधनुःप्रभायै नमः ।
ओं हृदयस्थायै नमः ।
ओं रविप्रख्यायै नमः ।
ओं त्रिकोणांतरदीपिकायै नमः ।
ओं दाक्षायण्यै नमः ।
ओं दैत्यहंत्र्यै नमः ।
ओं दक्षयज्ञविनाशिन्यै नमः । 600
ओं दरांदोलितदीर्घाक्ष्यै नमः ।
ओं दरहासोज्ज्वलन्मुख्यै नमः ।
ओं गुरूमूर्त्यै नमः ।
ओं ओं गुणनिधये नमः ।
ओं गोमात्रे नमः ।
ओं गुहजन्मभुवे नमः ।
ओं देवेश्यै नमः ।
ओं दंडनीतिस्थायै नमः ।
ओं दहराकाशरूपिण्यै नमः ।
ओं प्रतिपन्मुख्यराकांततिथिमंडलपूजितायै नमः । 610
ओं कलात्मिकायै नमः ।
ओं कलानाथायै नमः ।
ओं काव्यालापविमोदिन्यै नमः ।
ओं सचामररमावाणीसव्यदक्षिणसेवितायै नमः ।
ओं आदिशक्तयै नमः ।
ओं अमेयायै नमः ।
ओं आत्मने नमः ।
ओं परमायै नमः ।
ओं पावनाकृतये नमः ।
ओं अनेककोटिब्रह्मांडजनन्यै नमः । 620
ओं दिव्यविग्रहायै नमः ।
ओं क्लींकार्यै नमः ।
ओं केवलायै नमः ।
ओं ओं गुह्यायै नमः ।
ओं कैवल्यपददायिन्यै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिजगद्वंद्यायै नमः ।
ओं त्रिमूर्त्यै नमः ।
ओं त्रिदशेश्वर्यै नमः ।
ओं त्र्यक्षर्यै नमः । 630
ओं दिव्यगंधाढ्यायै नमः ।
ओं सिंदूरतिलकांचितायै नमः ।
ओं उमायै नमः ।
ओं शैलेंद्रतनयायै नमः ।
ओं गौर्यै नमः ।
ओं गंधर्वसेवितायै नमः ।
ओं विश्वगर्भायै नमः ।
ओं स्वर्णगर्भायै नमः ।
ओं अवरदायै नमः ।
ओं वागधीश्वर्यै नमः । 640
ओं ध्यानगम्यायै नमः ।
ओं अपरिच्छेद्यायै नमः ।
ओं ज्ञानदायै नमः ।
ओं ज्ञानविग्रहायै नमः ।
ओं सर्ववेदांतसंवेद्यायै नमः ।
ओं ओं सत्यानंदस्वरूपिण्यै नमः ।
ओं लोपामुद्रार्चितायै नमः ।
ओं लीलाक्लृप्तब्रह्मांडमंडलायै नमः ।
ओं अदृश्यायै नमः ।
ओं दृश्यरहितायै नमः । 650
ओं विज्ञात्र्यै नमः ।
ओं वेद्यवर्जितायै नमः ।
ओं योगिन्यै नमः ।
ओं योगदायै नमः ।
ओं योग्यायै नमः ।
ओं योगानंदायै नमः ।
ओं युगंधरायै नमः ।
ओं इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिण्यै नमः ।
ओं सर्वाधारायै नमः ।
ओं सुप्रतिष्ठायै नमः । 660
ओं सदसद्रूपधारिण्यै नमः ।
ओं अष्टमूर्त्यै नमः ।
ओं अजाजैत्र्यै नमः ।
ओं लोकयात्राविधायिन्यै नमः ।
ओं एकाकिन्यै नमः ।
ओं ओं भूमरूपायै नमः ।
ओं निद्वैतायै नमः ।
ओं द्वैतवर्जितायै नमः ।
ओं अन्नदायै नमः ।
ओं वसुदायै नमः । 670
ओं वृद्धायै नमः ।
ओं ब्रह्मात्मैक्यस्वरूपिण्यै नमः ।
ओं बृहत्यै नमः ।
ओं ब्राह्मण्यै नमः ।
ओं ब्राह्मयै नमः ।
ओं ब्रह्मानंदायै नमः ।
ओं बलिप्रियायै नमः ।
ओं भाषारूपायै नमः ।
ओं बृहत्सेनायै नमः ।
ओं भावाभावविर्जितायै नमः । 680
ओं सुखाराध्यायै नमः ।
ओं शुभकर्यै नमः ।
ओं शोभनासुलभागत्यै नमः ।
ओं राजराजेश्वर्यै नमः ।
ओं राज्यदायिन्यै नमः ।
ओं राज्यवल्लभायै नमः ।
ओं राजत्कृपायै नमः ।
ओं ओं राजपीठनिवेशितनिजाश्रितायै नमः ।
ओं राज्यलक्ष्म्यै नमः ।
ओं कोशनाथायै नमः । 690
ओं चतुरंगबलेश्वर्यै नमः ।
ओं साम्राज्यदायिन्यै नमः ।
ओं सत्यसंधायै नमः ।
ओं सागरमेखलायै नमः ।
ओं दीक्षितायै नमः ।
ओं दैत्यशमन्यै नमः ।
ओं सर्वलोकवंशकर्यै नमः ।
ओं सर्वार्थदात्र्यै नमः ।
ओं सावित्र्यै नमः ।
ओं सच्चिदानंदरूपिण्यै नमः । 700
ओं देशकालापरिच्छिन्नायै नमः ।
ओं सर्वगायै नमः ।
ओं सर्वमोहिन्यै नमः ।
ओं सरस्वत्यै नमः ।
ओं शास्त्रमय्यै नमः ।
ओं गुहांबायै नमः ।
ओं गुह्यरूपिण्यै नमः ।
ओं सर्वोपाधिविनिर्मुक्तायै नमः ।
ओं ओं सदाशिवपतिव्रतायै नमः ।
ओं संप्रदायेश्वर्यै नमः । 710
ओं साधुने नमः ।
ओं यै नमः ।
ओं गुरूमंडलरूपिण्यै नमः ।
ओं कुलोत्तीर्णायै नमः ।
ओं भगाराध्यायै नमः ।
ओं मायायै नमः ।
ओं मधुमत्यै नमः ।
ओं मह्यै नमः ।
ओं गणांबायै नमः ।
ओं गुह्यकाराध्यायै नमः । 720
ओं कोमलांग्यै नमः ।
ओं गुरुप्रियायै नमः ।
ओं स्वतंत्रायै नमः ।
ओं सर्वतंत्रेश्यै नमः ।
ओं दक्षिणामूर्तिरूपिण्यै नमः ।
ओं सनकादिसमाराध्यायै नमः ।
ओं शिवज्ञानप्रदायिन्यै नमः ।
ओं चित्कलायै नमः ।
ओं आनंदकलिकायै नमः ।
ओं प्रेमरूपायै नमः । 730
ओं ओं प्रियंकर्यै नमः ।
ओं नामपारायणप्रीतायै नमः ।
ओं नंदिविद्यायै नमः ।
ओं नटेश्वर्यै नमः ।
ओं मिथ्याजगदधिष्ठानायै नमः ।
ओं मुक्तिदायै नमः ।
ओं मुक्तिरूपिण्यै नमः ।
ओं लास्यप्रियायै नमः ।
ओं लयकर्यै नमः ।
ओं लज्जायै नमः । 740
ओं रंभादिवंदितायै नमः ।
ओं भवदावसुधावृष्ट्यै नमः ।
ओं पापारण्यदवानलायै नमः ।
ओं दौर्भाग्यतूलवातूलायै नमः ।
ओं जराध्वांतरविप्रभायै नमः ।
ओं भाग्याब्धिचंद्रिकायै नमः ।
ओं भक्तचित्तकेकिघनाघनायै नमः ।
ओं रोगपर्वतदंभोलये नमः ।
ओं मृत्युदारुकुठारिकायै नमः ।
ओं महेश्वर्यै नमः । 750
ओं महाकाल्यै नमः ।
ओं महाग्रासायै नमः ।
ओं महाशनायै नमः ।
ओं अपर्णायै नमः ।
ओं ओं चंडिकायै नमः ।
ओं चंडमुंडासुरनिषूदिन्यै नमः ।
ओं क्षराक्षरात्मिकायै नमः ।
ओं सर्वलोकेश्यै नमः ।
ओं विश्वधारिण्यै नमः ।
ओं त्रिवर्गदात्र्यै नमः । 760
ओं सुभगायै नमः ।
ओं त्र्यंबकायै नमः ।
ओं त्रिगुणात्मिकायै नमः ।
ओं स्वर्गापवर्गदायै नमः ।
ओं शुद्धायै नमः ।
ओं जपापुष्पनिभाकृतये नमः ।
ओं ओजोवत्यै नमः ।
ओं द्युतिधरायै नमः ।
ओं यज्ञरूपायै नमः ।
ओं प्रियव्रतायै नमः । 770
ओं दुराराध्यायै नमः ।
ओं दुराधर्षायै नमः ।
ओं पाटलीकुसुमप्रियायै नमः ।
ओं महत्यै नमः ।
ओं मेरुनिलयायै नमः ।
ओं मंदारकुसुमप्रियायै नमः ।
ओं ओं वीराराध्यायै नमः ।
ओं विराड्रूपायै नमः ।
ओं विरजसे नमः ।
ओं विश्वतोमुख्यै नमः । 780
ओं प्रत्यग्रूपायै नमः ।
ओं पराकाशायै नमः ।
ओं प्राणदायै नमः ।
ओं प्राणरूपिण्यै नमः ।
ओं मार्तांडभैरवाराध्यायै नमः ।
ओं मंत्रिणीन्यस्तराज्यधुरे नमः ।
ओं त्रिपुरेश्यै नमः ।
ओं जयत्सेनायै नमः ।
ओं निस्त्रैगुण्यायै नमः ।
ओं परापरायै नमः । 790
ओं सत्यज्ञानानंदरूपायै नमः ।
ओं सामरस्यपरायणायै नमः ।
ओं कपर्दिन्यै नमः ।
ओं कलामालायै नमः ।
ओं कामदुघे नमः ।
ओं कामरूपिण्यै नमः ।
ओं कलानिधये नमः ।
ओं काव्यकलायै नमः ।
ओं ओं रसज्ञायै नमः ।
ओं रसशेवधये नमः । 800
ओं पुष्टायै नमः ।
ओं पुरातनायै नमः ।
ओं पूज्यायै नमः ।
ओं पुष्करायै नमः ।
ओं पुष्करेक्षणायै नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं परमाणवे नमः ।
ओं परात्परायै नमः ।
ओं पाशहस्तायै नमः । 810
ओं पाशहंत्र्यै नमः ।
ओं परमंत्रविभेदिन्यै नमः ।
ओं मूर्तायै नमः ।
ओं अमूर्तायै नमः ।
ओं अनित्यतृप्तायै नमः ।
ओं मुनिमानसहंसिकायै नमः ।
ओं सत्यव्रतायै नमः ।
ओं सत्यरूपायै नमः ।
ओं सर्वांतर्यामिण्यै नमः ।
ओं सत्यै नमः । 820
ओं ओं ब्रह्माण्यै नमः ।
ओं ब्रह्मणे नमः ।
ओं जनन्यै नमः ।
ओं बहुरूपायै नमः ।
ओं बुधार्चितायै नमः ।
ओं प्रसवित्र्यै नमः ।
ओं प्रचंडायै नमः ।
ओं आज्ञायै नमः ।
ओं प्रतिष्ठायै नमः ।
ओं प्रकटाकृतये नमः । 830
ओं प्राणेश्वर्यै नमः ।
ओं प्राणदात्र्यै नमः ।
ओं पंचाशत्पीठरूपिण्यै नमः ।
ओं विश्रृंखलायै नमः ।
ओं विविक्तस्थायै नमः ।
ओं वीरमात्रे नमः ।
ओं वियत्प्रसुवे नमः ।
ओं मुकुंदायै नमः ।
ओं मुक्तिनिलयायै नमः ।
ओं मूलविग्रहरूपिण्यै नमः । 840
ओं भावज्ञायै नमः ।
ओं भवरोगध्न्यै नमः ।
ओं ओं भवचक्रप्रवर्तिन्यै नमः ।
ओं छंदःसारायै नमः ।
ओं शास्त्रसारायै नमः ।
ओं मंत्रसारायै नमः ।
ओं तलोदर्यै नमः ।
ओं उदारकीर्तये नमः ।
ओं उद्दामवैभवायै नमः ।
ओं वर्णरूपिण्यै नमः । 850
ओं जन्ममृत्युजरातप्तजन
विश्रांतिदायिन्यै नमः ।
ओं सर्वोपनिषदुद् घुष्टायै नमः ।
ओं शांत्यतीतकलात्मिकायै नमः ।
ओं गंभीरायै नमः ।
ओं गगनांतःस्थायै नमः ।
ओं गर्वितायै नमः ।
ओं गानलोलुपायै नमः ।
ओं कल्पनारहितायै नमः ।
ओं काष्ठायै नमः ।
ओं अकांतायै नमः । 860
ओं कांतार्धविग्रहायै नमः ।
ओं कार्यकारणनिर्मुक्तायै नमः ।
ओं कामकेलितरंगितायै नमः ।
ओं कनत्कनकताटंकायै नमः ।
ओं लीलाविग्रहधारिण्यै नमः ।
ओं अजायै नमः ।
ओं क्षयविनिर्मुक्तायै नमः ।
ओं मुग्धायै नमः ।
ओं क्षिप्रप्रसादिन्यै नमः ।
ओं अंतर्मुखसमाराध्यायै नमः । 870
ओं बहिर्मुखसुदुर्लभायै नमः ।
ओं त्रय्यै नमः ।
ओं त्रिवर्गनिलयायै नमः ।
ओं त्रिस्थायै नमः ।
ओं त्रिपुरमालिन्यै नमः ।
ओं निरामयायै नमः ।
ओं निरालंबायै नमः ।
ओं स्वात्मारामायै नमः ।
ओं सुधासृत्यै नमः ।
ओं संसारपंकनिर्मग्न
समुद्धरणपंडितायै नमः । 880
ओं यज्ञप्रियायै नमः ।
ओं यज्ञकर्त्र्यै नमः ।
ओं यजमानस्वरूपिण्यै नमः ।
ओं धर्माधारायै नमः ।
ओं ओं धनाध्यक्षायै नमः ।
ओं धनधान्यविवर्धिन्यै नमः ।
ओं विप्रप्रियायै नमः ।
ओं विप्ररूपायै नमः ।
ओं विश्वभ्रमणकारिण्यै नमः ।
ओं विश्वग्रासायै नमः । 890
ओं विद्रुमाभायै नमः ।
ओं वैष्णव्यै नमः ।
ओं विष्णुरूपिण्यै नमः ।
ओं अयोन्यै नमः वर् अयोनये
ओं योनिनिलयायै नमः ।
ओं कूटस्थायै नमः ।
ओं कुलरूपिण्यै नमः ।
ओं वीरगोष्ठीप्रियायै नमः ।
ओं वीरायै नमः ।
ओं नैष्कर्म्यायै नमः । 900
ओं नादरूपिण्यै नमः ।
ओं विज्ञानकलनायै नमः ।
ओं कल्यायै नमः ।
ओं विदग्धायै नमः ।
ओं बैंदवासनायै नमः ।
ओं तत्वाधिकायै नमः ।
ओं ओं तत्वमय्यै नमः ।
ओं तत्वमर्थस्वरूपिण्यै नमः ।
ओं सामगानप्रियायै नमः ।
ओं सौम्यायै नमः । 910
ओं सदाशिवकुटुंबिन्यै नमः ।
ओं सव्यापसव्यमार्गस्थायै नमः ।
ओं सर्वापद्विनिवारिण्यै नमः ।
ओं स्वस्थायै नमः ।
ओं स्वभावमधुरायै नमः ।
ओं धीरायै नमः ।
ओं धीरसमर्चितायै नमः ।
ओं चैतन्यार्घ्यसमाराध्यायै नमः ।
ओं चैतन्यकुसुमप्रियायै नमः ।
ओं सदोदितायै नमः । 920
ओं सदातुष्ठायै नमः ।
ओं तरुणादित्यपाटलायै नमः ।
ओं दक्षिणादक्षिणाराध्यायै नमः ।
ओं दरस्मेरमुखांबुजायै नमः ।
ओं कौलिनीकेवलायै नमः ।
ओं अनर्ध्य कैवल्यपददायिन्यै नमः ।
ओं स्तोत्रप्रियायै नमः ।
ओं स्तुतिमत्यै नमः ।
ओं ओं श्रुतिसंस्तुतवैभवायै नमः ।
ओं मनस्विन्यै नमः । 930
ओं मानवत्यै नमः ।
ओं महेश्यै नमः ।
ओं मंगलाकृत्ये नमः ।
ओं विश्वमात्रे नमः ।
ओं जगद्धात्र्यै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं विरागिण्यै नमः ।
ओं प्रगल्भायै नमः ।
ओं परमोदारायै नमः ।
ओं परामोदायै नमः । 940
ओं मनोमय्यै नमः ।
ओं व्योमकेश्यै नमः ।
ओं विमानस्थायै नमः ।
ओं वज्रिण्यै नमः ।
ओं वामकेश्वर्यै नमः ।
ओं पंचयज्ञप्रियायै नमः ।
ओं पंचप्रेतमंचाधिशायिन्यै नमः ।
ओं पंचम्यै नमः ।
ओं पंचभूतेश्यै नमः ।
ओं पंचसंख्योपचारिण्यै नमः । 950
ओं ओं शाश्वत्यै नमः ।
ओं शाश्वतैश्वर्यायै नमः ।
ओं शर्मदायै नमः ।
ओं शंभुमोहिन्यै नमः ।
ओं धरायै नमः ।
ओं धरसुतायै नमः ।
ओं धन्यायै नमः ।
ओं धर्मिण्यै नमः ।
ओं धर्मवर्धिन्यै नमः ।
ओं लोकातीतायै नमः । 960
ओं गुणातीतायै नमः ।
ओं सर्वातीतायै नमः ।
ओं शामात्मिकायै नमः ।
ओं बंधूककुसुमप्रख्यायै नमः ।
ओं बालायै नमः ।
ओं लीलाविनोदिन्यै नमः ।
ओं सुमंगल्यै नमः ।
ओं सुखकर्यै नमः ।
ओं सुवेषाढ्यायै नमः ।
ओं सुवासिन्यै नमः । 970
ओं सुवासिन्यर्चनप्रीतायै नमः ।
ओं आशोभनायै नमः ।
ओं ओं शुद्धमानसायै नम
ओं बिंदुतर्पणसंतुष्टायै नमः ।
ओं पूर्वजायै नमः ।
ओं त्रिपुरांबिकायै नमः ।
ओं दशमुद्रासमाराध्यायै नमः ।
ओं त्रिपुराश्रीवशंकर्यै नमः ।
ओं ज्ञानमुद्रायै नमः ।
ओं ज्ञानगम्यायै नमः । 980
ओं ज्ञानज्ञेयस्वरूपिण्यै नमः ।
ओं योनिमुद्रायै नमः ।
ओं त्रिखंडेश्यै नमः ।
ओं त्रिगुणायै नमः ।
ओं अंबायै नमः ।
ओं त्रिकोणगायै नमः ।
ओं अनघायै नमः ।
ओं अद्भुतचारित्रायै नमः ।
ओं वांछितार्थप्रदायिन्यै नमः ।
ओं अभ्यासातिशयज्ञातायै नमः । 990
ओं षडध्वातीतरूपिण्यै नमः ।
ओं अव्याजकरुणामूर्तये नमः ।
ओं अज्ञानध्वांतदीपिकायै नमः ।
ओं आबालगोपविदितायै नमः ।
ओं ओं सर्वानुल्लंघ्यशासनायै नमः ।
ओं श्रीचक्रराजनिलयायै नमः ।
ओं श्रीमत्त्रिपुरसुंदर्यै नमः ।
ओं ओं श्रीशिवायै नमः ।
ओं शिवशक्त्यैक्यरूपिण्यै नमः ।
ओं ललितांबिकायै नमः । 1000
॥ओं तत्सत् ब्रह्मार्पणमस्तु ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits