सनत्कुमार उवाच –
अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा ॥ 1 ॥
सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम् ॥ 2 ॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथ भेरुण्डा दिशं मे पातु कौणपीम् ॥ 3 ॥
तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु ॥ 4 ॥
वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी ॥ 5 ॥
पातु मामूर्ध्वतः शश्वद्देवता कुलसुन्दरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम् ॥ 6 ॥
करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहेन्द्रियमनःप्राणाञ्ज्वालामालिनिविग्रहा ॥ 7 ॥
पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि ॥ 8 ॥
पापान्मां सर्वतः शोकात्सङ्क्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातो हिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पातु प्रेरयन्त्यः शुभं प्रति ॥ 9 ॥
नित्याः षोडश मां पातु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पातु मां सर्वतः सदा ॥ 10 ॥
सिंहारूढास्तथा पातु पातु ऋक्षगता अपि ।
रथारूढाश्च मां पातु सर्वतः सर्वदा रणे ॥ 11 ॥
तार्क्ष्यारूढाश्च मां पातु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पातु पातु देव्यश्च सर्वदा ॥ 12 ॥
भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम ॥ 13 ॥
गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असङ्ख्याः शक्तयो देव्यः पातु मां सर्वतः सदा ॥ 14 ॥
सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः ॥ 15 ॥
इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य सन्धारणान्मर्त्यो निर्भयो विजयी सुखी ॥ 16 ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे
बृहदुपाख्याने एकोननवतितमोऽध्याये श्री ललिता कवचम् ।