Haindavam Logo - Lord Ganesha
हैंदवम्
📍
Font Size:

ललिता अष्टोत्तर शत नामावलिः - 1

ध्यानश्लोकः सिंधूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर- त्तारानायकशेखरां स्मितमुखी मापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामंबिकाम् ॥ ओं ऐं ह्रीं श्रीं रजताचल शृंगाग्र मध्यस्थायै नमोनमः । ओं ऐं ह्रीं श्रीं हिमाचल महावंश पावनायै नमोनमः । ओं ऐं ह्रीं श्रीं शंकरार्धांग सौंदर्य शरीरायै नमोनमः । ओं ऐं ह्रीं श्रीं लसन्मरकत स्वच्छविग्रहायै नमोनमः । ओं ऐं ह्रीं श्रीं महातिशय सौंदर्य लावण्यायै नमोनमः । ओं ऐं ह्रीं श्रीं शशांकशेखर प्राणवल्लभायै नमोनमः । ओं ऐं ह्रीं श्रीं सदा पंचदशात्मैक्य स्वरूपायै नमोनमः । ओं ऐं ह्रीं श्रीं वज्रमाणिक्य कटक किरीटायै नमोनमः । ओं ऐं ह्रीं श्रीं कस्तूरी तिलकोल्लासित निटलायै नमोनमः । ओं ऐं ह्रीं श्रीं भस्मरेखांकित लसन्मस्तकायै नमोनमः । 10 ओं ऐं ह्रीं श्रीं विकचांभोरुहदल लोचनायै नमोनमः । ओं ऐं ह्रीं श्रीं शरच्चांपेय पुष्पाभ नासिकायै नमोनमः । ओं ऐं ह्रीं श्रीं लसत्कांचन ताटंक युगलायै नमोनमः । ओं ऐं ह्रीं श्रीं मणिदर्पण संकाश कपोलायै नमोनमः । ओं ऐं ह्रीं श्रीं तांबूलपूरितस्मेर वदनायै नमोनमः । ओं ऐं ह्रीं श्रीं सुपक्वदाडिमीबीज वदनायै नमोनमः । ओं ऐं ह्रीं श्रीं कंबुपूग समच्छाय कंधरायै नमोनमः । ओं ऐं ह्रीं श्रीं स्थूलमुक्ताफलोदार सुहारायै नमोनमः । ओं ऐं ह्रीं श्रीं गिरीशबद्दमांगल्य मंगलायै नमोनमः । ओं ऐं ह्रीं श्रीं पद्मपाशांकुश लसत्कराब्जायै नमोनमः । 20 ओं ऐं ह्रीं श्रीं पद्मकैरव मंदार सुमालिन्यै नमोनमः । ओं ऐं ह्रीं श्रीं सुवर्ण कुंभयुग्माभ सुकुचायै नमोनमः । ओं ऐं ह्रीं श्रीं रमणीयचतुर्बाहु संयुक्तायै नमोनमः । ओं ऐं ह्रीं श्रीं कनकांगद केयूर भूषितायै नमोनमः । ओं ऐं ह्रीं श्रीं बृहत्सौवर्ण सौंदर्य वसनायै नमोनमः । ओं ऐं ह्रीं श्रीं बृहन्नितंब विलसज्जघनायै नमोनमः । ओं ऐं ह्रीं श्रीं सौभाग्यजात शृंगार मध्यमायै नमोनमः । ओं ऐं ह्रीं श्रीं दिव्यभूषण संदोह रंजितायै नमोनमः । ओं ऐं ह्रीं श्रीं पारिजात गुणाधिक्य पदाब्जायै नमोनमः । ओं ऐं ह्रीं श्रीं सुपद्मराग संकाश चरणायै नमोनमः । 30 ओं ऐं ह्रीं श्रीं कामकोटि महापद्म पीठस्थायै नमोनमः । ओं ऐं ह्रीं श्रीं श्रीकंठनेत्र कुमुद चंद्रिकायै नमोनमः । ओं ऐं ह्रीं श्रीं सचामर रमावाणी वीजितायै नमोनमः । ओं ऐं ह्रीं श्रीं भक्त रक्षण दाक्षिण्य कटाक्षायै नमोनमः । ओं ऐं ह्रीं श्रीं भूतेशालिंगनोध्बूत पुलकांग्यै नमोनमः । ओं ऐं ह्रीं श्रीं अनंग जनकापांग वीक्षणायै नमोनमः । ओं ऐं ह्रीं श्रीं ब्रह्मोपेंद्र शिरोरत्न रंजितायै नमोनमः । ओं ऐं ह्रीं श्रीं शचीमुख्यामरवधू सेवितायै नमोनमः । ओं ऐं ह्रीं श्रीं लीलाकल्पित ब्रह्मांडमंडलायै नमोनमः । ओं ऐं ह्रीं श्रीं अमृतादि महाशक्ति संवृतायै नमोनमः । 40 ओं ऐं ह्रीं श्रीं एकातपत्र साम्राज्यदायिकायै नमोनमः । ओं ऐं ह्रीं श्रीं सनकादि समाराध्य पादुकायै नमोनमः । ओं ऐं ह्रीं श्रीं देवर्षिभिः स्तूयमान वैभवायै नमोनमः । ओं ऐं ह्रीं श्रीं कलशोद्भव दुर्वास पूजितायै नमोनमः । ओं ऐं ह्रीं श्रीं मत्तेभवक्त्र षड्वक्त्र वत्सलायै नमोनमः । ओं ऐं ह्रीं श्रीं चक्रराज महामंत्र मध्यवर्यै नमोनमः । ओं ऐं ह्रीं श्रीं चिदग्निकुंडसंभूत सुदेहायै नमोनमः । ओं ऐं ह्रीं श्रीं शशांकखंडसंयुक्त मकुटायै नमोनमः । ओं ऐं ह्रीं श्रीं मत्तहंसवधू मंदगमनायै नमोनमः । ओं ऐं ह्रीं श्रीं वंदारु जनसंदोह वंदितायै नमोनमः । 50 ओं ऐं ह्रीं श्रीं अंतर्मुख जनानंद फलदायै नमोनमः । ओं ऐं ह्रीं श्रीं पतिव्रतांगनाभीष्ट फलदायै नमोनमः । ओं ऐं ह्रीं श्रीं अव्याजकरुणापूरपूरितायै नमोनमः । ओं ऐं ह्रीं श्रीं नितांत सच्चिदानंद संयुक्तायै नमोनमः । ओं ऐं ह्रीं श्रीं सहस्रसूर्य संयुक्त प्रकाशायै नमोनमः । ओं ऐं ह्रीं श्रीं रत्नचिंतामणि गृहमध्यस्थायै नमोनमः । ओं ऐं ह्रीं श्रीं हानिवृद्धि गुणाधिक्य रहितायै नमोनमः । ओं ऐं ह्रीं श्रीं महापद्माटवीमध्य निवासायै नमोनमः । ओं ऐं ह्रीं श्रीं जाग्रत् स्वप्न सुषुप्तीनां साक्षिभूत्यै नमोनमः । ओं ऐं ह्रीं श्रीं महापापौघतापानां विनाशिन्यै नमोनमः । 60 ओं ऐं ह्रीं श्रीं दुष्टभीति महाभीति भंजनायै नमोनमः । ओं ऐं ह्रीं श्रीं समस्त देवदनुज प्रेरकायै नमोनमः । ओं ऐं ह्रीं श्रीं समस्त हृदयांभोज निलयायै नमोनमः । ओं ऐं ह्रीं श्रीं अनाहत महापद्म मंदिरायै नमोनमः । ओं ऐं ह्रीं श्रीं सहस्रार सरोजात वासितायै नमोनमः । ओं ऐं ह्रीं श्रीं पुनरावृत्तिरहित पुरस्थायै नमोनमः । ओं ऐं ह्रीं श्रीं वाणी गायत्री सावित्री सन्नुतायै नमोनमः । ओं ऐं ह्रीं श्रीं रमाभूमिसुताराध्य पदाब्जायै नमोनमः । ओं ऐं ह्रीं श्रीं लोपामुद्रार्चित श्रीमच्चरणायै नमोनमः । ओं ऐं ह्रीं श्रीं सहस्ररति सौंदर्य शरीरायै नमोनमः । 70 ओं ऐं ह्रीं श्रीं भावनामात्र संतुष्ट हृदयायै नमोनमः । ओं ऐं ह्रीं श्रीं सत्यसंपूर्ण विज्ञान सिद्धिदायै नमोनमः । ओं ऐं ह्रीं श्रीं श्रीलोचन कृतोल्लास फलदायै नमोनमः । ओं ऐं ह्रीं श्रीं श्रीसुधाब्धि मणिद्वीप मध्यगायै नमोनमः । ओं ऐं ह्रीं श्रीं दक्षाध्वर विनिर्भेद साधनायै नमोनमः । ओं ऐं ह्रीं श्रीं श्रीनाथ सोदरीभूत शोभितायै नमोनमः । ओं ऐं ह्रीं श्रीं चंद्रशेखर भक्तार्ति भंजनायै नमोनमः । ओं ऐं ह्रीं श्रीं सर्वोपाधि विनिर्मुक्त चैतन्यायै नमोनमः । ओं ऐं ह्रीं श्रीं नामपारायणाभीष्ट फलदायै नमोनमः । ओं ऐं ह्रीं श्रीं सृष्टि स्थिति तिरोधान संकल्पायै नमोनमः । 80 ओं ऐं ह्रीं श्रीं श्रीषोडशाक्षरी मंत्र मध्यगायै नमोनमः । ओं ऐं ह्रीं श्रीं अनाद्यंत स्वयंभूत दिव्यमूर्त्यै नमोनमः । ओं ऐं ह्रीं श्रीं भक्तहंस परीमुख्य वियोगायै नमोनमः । ओं ऐं ह्रीं श्रीं मातृ मंडल संयुक्त ललितायै नमोनमः । ओं ऐं ह्रीं श्रीं भंडदैत्य महसत्त्व नाशनायै नमोनमः । ओं ऐं ह्रीं श्रीं क्रूरभंड शिरछ्चेद निपुणायै नमोनमः । ओं ऐं ह्रीं श्रीं धात्रच्युत सुराधीश सुखदायै नमोनमः । ओं ऐं ह्रीं श्रीं चंडमुंड निशुंभादि खंडनायै नमोनमः । ओं ऐं ह्रीं श्रीं रक्ताक्ष रक्तजिह्वादि शिक्षणायै नमोनमः । ओं ऐं ह्रीं श्रीं महिषासुरदोर्वीर्य निग्रहयै नमोनमः । 90 ओं ऐं ह्रीं श्रीं अभ्रकेश महोत्साह कारणायै नमोनमः । ओं ऐं ह्रीं श्रीं महेशयुक्त नटन तत्परायै नमोनमः । ओं ऐं ह्रीं श्रीं निजभर्तृ मुखांभोज चिंतनायै नमोनमः । ओं ऐं ह्रीं श्रीं वृषभध्वज विज्ञान भावनायै नमोनमः । ओं ऐं ह्रीं श्रीं जन्ममृत्यु जरारोग भंजनायै नमोनमः । ओं ऐं ह्रीं श्रीं विधेयमुक्ति विज्ञान सिद्धिदायै नमोनमः । ओं ऐं ह्रीं श्रीं कामक्रोधादि षड्वर्ग नाशनायै नमोनमः । ओं ऐं ह्रीं श्रीं राजराजार्चित पदसरोजायै नमोनमः । ओं ऐं ह्रीं श्रीं सर्ववेदांत संसिद्द सुतत्त्वायै नमोनमः । ओं ऐं ह्रीं श्रीं श्रीवीरभक्त विज्ञान निधानायै नमोनमः । 100 ओं ऐं ह्रीं श्रीं आशेष दुष्टदनुज सूदनायै नमोनमः । ओं ऐं ह्रीं श्रीं साक्षाच्च्रीदक्षिणामूर्ति मनोज्ञायै नमोनमः । ओं ऐं ह्रीं श्रीं हयमेधाग्र संपूज्य महिमायै नमोनमः । ओं ऐं ह्रीं श्रीं दक्षप्रजापतिसुत वेषाढ्यायै नमोनमः । ओं ऐं ह्रीं श्रीं सुमबाणेक्षु कोदंड मंडितायै नमोनमः । ओं ऐं ह्रीं श्रीं नित्ययौवन मांगल्य मंगलायै नमोनमः । ओं ऐं ह्रीं श्रीं महादेव समायुक्त शरीरायै नमोनमः । ओं ऐं ह्रीं श्रीं महादेव रत्यौत्सुक्य महदेव्यै नमोनमः । 108 इति श्री ललिताष्टोत्तर शतनामावलि संपूर्णं

Recite with devotion and pure heart

Regular practice brings spiritual benefits